निर्वाणप्रकरणं - सर्गः ७२
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
अथाकृष्टवति प्राणान्स्वयंभुवि नभोभवः ।
विराडात्मनि तत्याज वातस्कन्धस्थितः स्थितिम् ॥१॥
ते हि तस्य किल प्राणास्तेन क्रान्तेषु तेष्वपि ।
ऋक्षचक्रे स्थितिं कोऽन्यो धत्ते भूतैकधारिणीम् ॥२॥
वातस्कन्धे समाक्रान्ते ब्रह्मणा प्राणमारुते ।
समं गन्तुं परित्यज्य संस्थितिं क्षोभमागते ॥३॥
निराधाराः सवाताग्निदाहोल्मुकवदापतन् ।
व्योम्नस्तारास्तरोः पुष्पनिकरा इव भूतले ॥४॥
कालपाकचलन्मूला जगत्खण्डफलालयाः ।
प्रशान्तपवनाधारा विमानावलयोऽपतन् ॥५॥
प्रलयोन्मुखतां याते ब्राह्मे संकल्पनेन्धने ।
सिद्धानां गतयः शेमुरिद्धानामर्चिषामिव ॥६॥
प्रभ्रमन्त्योऽम्बरे कल्पमारुतैस्तनुतूलवत् ।
स्वशक्त्यपचये मूकाः सिद्धसंततयोऽपतन् ॥७॥
संकल्पद्रुमजालानि सेन्द्रादिनगराणि च ।
पेतुर्भूकम्पलोलस्य शिरांस्यमरभूभृतः ॥८॥
श्रीराम उवाच ।
चिति संकल्पमात्रात्मा विराड् ब्रह्मा जगद्वपुः ।
किमङ्गं तस्य भूलोकः किं स्वर्गः किं रसातलम् ॥९॥
कथमेतानि चाङ्गानि ब्रह्मंस्तस्य स्थितानि च ।
कथं वा सोऽन्तरे तस्य स्वस्यैव वपुषः स्थितः ॥१०॥
ब्रह्मा संकल्पमात्रात्मा निराकृतिरिदं स्थितम् ।
जगदित्येव जातो मे निश्चयः कथयेतरत् ॥११॥
श्रीवसिष्ठ उवाच ।
आदौ तावदिदं नासन्न सदास्ते निरामयम् ।
चिन्मात्रपरमाकाशमाशाकोशैकपूरकम् ॥१२॥
तत्स्वामाकाशतां चैतच्चेत्यमित्यवबुध्यते ।
स्वरूपमत्यजन्नित्यं चित्त्वाद्भवति चेतनम् ॥१३॥
विद्धि तच्चेतनं जीवं सघनत्वान्मनः स्थितम् ।
एतावति स्थितिजाले न किंचित्साकृति स्थितम् ॥१४॥
शुद्धं व्योमैव चिद्व्योम स्थितमात्मनि पूर्ववत् ।
यदेतत्प्रतिभातं तु तदन्यत्र शिवात्ततः ॥१५॥
अथ तन्मन आभोगि भाविताहंकृति स्फुरत् ।
संकल्पात्मकमाकाशमास्ते स्तिमितमक्षयम् ॥१६॥
तत्संकल्पचिदाभासनभोऽहमिति भावितम् ।
असत्तमेवानुभवत्संनिवेशं खमेव खे ॥१७॥
वेत्ति भावितमाकारं पश्यत्यनुभवत्यपि ।
संकल्पकात्मकं शून्यमेव देह इति स्थितम् ॥१८॥
शून्यमेव यथाकारि संकल्पनगरं भवान् ।
पश्यत्येवमजो देहं खे खमेवानुभूतवान् ॥१९॥
संविदो निर्मलत्वात्स यावदित्थं तथाविधम् ।
अनुभूयानुभवनं स्वेच्छयैवोपशाम्यति ॥२०॥
यदा तत्त्वपरिज्ञानमस्मदादेस्तदाऽऽततम् ।
इदं संसरणं विद्धि शून्यं सत्यमिव स्थितम् ॥२१॥
यथाभूतपरिज्ञानादत्र शाम्यति वासना ।
अद्वैतान्निरहंकारात्ततो मोक्षोऽवशिष्यते ॥२२॥
एवमेष स यो ब्रह्मा स एवेदं जगत्स्थितम् ।
विराजो ब्रह्मणो राम देहो यस्तदिदं जगत् ॥२३॥
संकल्पाकाशरूपस्य तस्य या भ्रान्तिरुत्थिता ।
तदिदं जगदाभाति तद्ब्रह्माण्डमुदाहृतम् ॥२४॥
सर्वमाकाशमेवेदं संकल्पकलनात्मकम् ।
वस्तुतस्त्वस्ति न जगत्त्वत्तामत्ते न च क्वचित् ॥२५॥
क्वचिन्मात्रेऽमले व्योम्नि कथं वा केन वा जगत् ।
किं जायते किमत्रास्ति कारणं सहकारि यत् ॥२६॥
अतोऽलीकमिदं जातमलीकं परिदृश्यते ।
अलीकं स्वदतेऽलोकमेवं पश्यति शून्यकम् ॥२७॥
जगदादिकया भासा चिन्मात्रं स्वदते स्वतः ।
आत्मनात्माम्बरे द्वैते स्पन्दनेनेव मारुतः ॥२८॥
इदं किंचिन्न किंचिद्वा द्वैताद्वैतविवर्जितम् ।
चिदाकाशं जगद्विद्धि शून्यमच्छं निरामयम् ॥२९॥
शान्ताशेषविशेषोऽहं तेन राघव संस्थितः ।
सन्नेवासन्निवातस्त्वमेवमेवास्व निर्ममः ॥३०॥
निर्वासनः शान्तमना मौनी विगतचापलः ।
सर्वं कुरु यथाप्राप्तं कुरु मा वात्र किं ग्रहः ॥३१॥
अनादिनित्यानुभवो य एकः
स एव दृश्यं न तु दृश्यमन्यत् ।
सत्यानुभूतेऽननुभूतयो याः
सुविस्तृता दृश्यमहादृशस्ताः ॥३२॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो० निर्वाणप्रकरणे उ० पाषा० निर्वाणवर्णनं नाम द्विसप्ततितमः सर्ग ॥७२॥
N/A
References : N/A
Last Updated : September 29, 2021
TOP