निर्वाणप्रकरणं - सर्गः १९७
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीराम उवाच ।
तथा कुरु मुनिश्रेष्ठ यथा वैवधिकक्रमम् ।
असंदेहमिमं सम्यगवगच्छामि मानद ॥१॥
श्रीवसिष्ठ उवाच ।
ये ते वैवधिका राम त एते मानवा भुवि ।
तेषां दारिद्र्यदुःखं यत्तदज्ञानं महातपः ॥२॥
यत्तन्महावनं प्रोक्तं गुरुशास्त्रक्रमादि तत् ।
यदुद्यतास्ते ग्रासार्थं जना भोगार्थिनो हि ते ॥३॥
भोगौघाः सिद्धिमायान्तु मम निष्कृपणो जनः ।
अनपेक्षितकार्यार्थः शास्त्रादौ संप्रवर्तते ॥४॥
भोगार्थं संप्रवृत्तोऽपि प्राप्नोत्यभ्यासतः क्रमात् ।
जन्तुश्चिन्तितमेवाद्यपदं परवशोऽपि सन् ॥५॥
दार्वर्थमुद्यतो भावी यथा संप्राप्तवान्मणिम् ।
भोगार्थमात्तशास्त्रोऽयं तथाप्नोति जनः पदम् ॥६॥
किं स्याच्छास्त्रविचाराभ्यामिति संदेहलीलया ।
कश्चित्प्रवर्तते पश्चादाप्नोति पदमुत्तमम् ॥७॥
अदृष्टोत्तमतत्त्वार्थः शास्त्रादौ संप्रवर्तते ।
संदेहेनार्थभोगार्थं जनः प्राप्नोति तत्पदम् ॥८॥
अन्यथा संप्रवर्तन्ते शास्त्रैर्वासनया जनाः ।
अन्यदासादयन्त्याद्यं मणिं वैवधिका इव ॥९॥
परोपकारेऽविरतं स्वभावेन प्रवर्तते ।
यः स साधुरिति प्रोक्तः प्रमाणं त्वस्य चेष्टितम् ॥१०॥
साध्वाचारवशाल्लोको भोगसंप्राप्तिशङ्कया ।
संदेहश्चाप्यतत्त्वज्ञः शास्त्रादौ संप्रवर्तते ॥११॥
भोगार्थं संप्रवृत्तोऽसौ भोगमोक्षावुभावपि ।
तस्मात्प्राप्नोति दार्वर्थी वनाच्चिन्तामणिं यथा ॥१२॥
केचिच्चन्दनदारूणि केचिच्चिन्तामणिं मणिम् ।
केचित्सामान्यरत्नानि प्राप्नुवन्ति यथा वनात् ॥१३॥
केचित्कामं केचिदर्थं केचिद्धर्मत्रयं तु वा ।
केचिन्मोक्षमशेषं च लभन्ते शास्त्रतस्तथा ॥१४॥
वर्गत्रयोपदेशो हि शास्त्रादिष्वस्ति राघव ।
ब्रह्मप्राप्तिस्त्ववाच्यत्वान्नास्ति तच्छासनेष्वपि ॥१५॥
केवलं सर्ववाक्यार्थैर्ध्वन्यमानावगम्यते ।
कालश्रीः प्रसवेनेव स्वयं स्वानुभवेन सा ॥१६॥
सर्वार्थातिगतं शास्त्रे विद्यते ब्रह्मवेदनम् ।
सर्वगातिगतं स्वच्छं लावण्यमिव योषिति ॥१७॥
न शास्त्रान्न गुरोर्वाक्यान्न दानान्नेश्वरार्चनात् ।
एष सर्वपदातीतो बोधः संप्राप्यते परः ॥१८॥
एतान्यकरणान्येव कारणत्वं गतान्यलम् ।
परमात्मैकविश्रान्तौ यथा राघव तच्छृणु ॥११॥
शास्त्रादभ्यासयोगेन चित्तं यातं विशुद्धताम् ।
अनिच्छदेवमेवाशु पदं पश्यति पावनम् ॥२०॥
एतच्छास्त्रादविद्यायाः सात्त्विको भाग उच्यते ।
तामसः सात्त्विकेनास्याभागेनायाति संक्षयम् ॥२१॥
नूनं मलं प्रधानेन क्षालवच्छास्त्ररूपिणा ।
पुरुषः शुद्धतामेति परमां वस्तुशक्तितः ॥२२॥
अनिच्छयोरेव यथा सप्तसप्तिसमुद्रयोः ।
प्रागदृश्यं तृतीयत्वं स्वभाववशतः स्वतः ॥२३॥
स्वसंनिधानमात्रेण विदितप्रतिभासनम् ।
सदसन्मयमाभोगि प्रतिबिम्बं प्रवर्तते ॥२४॥
मुमुक्षुशास्त्रयोरेवं मिथः संबन्धमात्रतः ।
सर्वसंवित्पदातीतमात्मज्ञानं प्रवर्तते ॥२५॥
अनयोः प्रेक्षणाद्देहे विवेको जायते यथा ।
तथा स्वभावतः शास्त्रविवेकाज्ज्ञेयवेदनम् ॥२६॥
लोष्टेन लोष्टं सलिले क्षालयन्बालको यथा ।
क्षयेण लोष्टयोर्हस्तनैर्मल्यं लभते परम् ॥२७॥
तथा शास्त्रविकल्पौघैर्विकल्पांश्चेतनाद्बुधः ।
क्षालयन्स्वविचारेण परमां याति शुद्धताम् ॥२८॥
महावाक्यार्थनिष्यन्दं स्वात्मज्ञानमवाप्यते ।
शास्त्रादेरिक्षुरसतः स्वाद्विव स्वानुभूतितः ॥२९॥
प्रभाभित्योः समासङ्गाद्यथाऽऽलोकोऽनुभूयते ।
श्रुतश्रुतवतोः सङ्गादात्मज्ञानं तथा भवेत् ॥३०॥
त्रिवर्गमात्रसिद्ध्यै यन्न मोक्षाय च तच्छ्रुतम् ।
विपुलश्रुतचर्चासु तुच्छमश्रुतमेव तत् ॥३१॥
तच्छ्रुतं यत्किल ज्ञप्त्यै सा ज्ञप्तिः समता यया ।
तत्साम्यं यत्र सौषुप्ती स्थितिर्जाग्रति जायते ॥३२॥
एवं हि सर्वमेतत्तच्छास्त्रादेः समवाप्यते ।
तस्मात्सर्वप्रयत्नेन शास्त्राद्यभ्यासमाहरेत् ॥३३॥
शास्त्रार्थभावनवशेन गिरा गुरूणां
सत्सङ्गमेन नियमेन शमेन राम ।
तत्प्राप्यते सकलविश्वपदादतीतं
सर्वेश्वरं परममाद्यमनादिशर्म ॥३४॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० शास्त्रमाहात्म्यं नाम सप्तनवत्यधिकशततमः सर्गः ॥१९७॥
N/A
References : N/A
Last Updated : October 10, 2021
TOP