संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः १५९

निर्वाणप्रकरणं - सर्गः १५९

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


अग्निरुवाच ।
विपश्चिच्छ्रेष्ठ भो साधो त्वं गच्छाभिमतां दिशम् ।
स्थिरं भूमण्डलं भूयः प्रकृतव्यवहारवत् ॥१॥
यज्ञं यष्टुं प्रजौघस्य शक्रः शततमं दिवि ।
तत्राहूतोऽस्मि मन्त्रेण गच्छामि गतिकोविद ॥२॥
भास उवाच ।
इत्युक्त्वा भगवानग्निस्तत्रैवान्तरधीयत ।
गगने निर्मले याति अनलो वैद्युतो यथा ॥३॥
तथाहमपि चित्तेन प्राक्तनांश्च स्वयं वहन् ।
पुनः स्वकर्म निर्णेतुं भ्रमनव्योमनि संस्थितः ॥४॥
भूयोऽपि दृष्टवानस्मि जगन्त्यगणितानि खे ।
नानाचारविचाराणि नानासंस्थानवन्ति च ॥५॥
क्वचिच्छत्रमयाङ्गानि एकीभूतानि भूपते ।
भान्ति चेतन्ति चोपन्ति हृदयानि हरन्ति च ॥६॥
क्वचिन्मृन्मयदेहानि सर्वभूतानि राघव ।
भान्ति चेतन्ति चोपन्ति पर्वतप्रतिमानि च ॥७॥
क्वचिद्दारुमयाङ्गानि भान्ति भूतानि कुत्रचित् ।
क्वचित्पाषाणदेहानि सन्ति भूतानि भूरिशः ॥८॥
क्वचिदाजीवमेकत्र स्थितान्युपलदेहवत् ।
वांग्मात्रव्यवहाराणि भूतान्यालोकितानि खे ॥९॥
इत्यहं सुचिरं कालं पश्यन्नश्यन्मनस्तया ।
अविद्यान्तमपश्यंश्च तत्रोद्विग्नोऽभवं दृशाम् ॥१०॥
तपः कर्तुं समुद्युक्तः कस्मिंश्चिन्मोक्षसिद्धये ।
प्राहेन्द्रो मम चैवेदं मृगयोन्यन्तरं हि खे ॥११॥
प्रवृत्तः स्वर्गसंमोहे पूर्वाभ्यासवशीकृतः ।
मन्दारकानने तत्र भ्रमतो वै ममाम्बरे ॥१२॥
तेनेत्युक्ते मया प्रोक्तं देव खिन्नोऽस्मि संसृतेः ।
मुच्येयं शीघ्रमित्युक्तं श्रुत्वोवाच ततो मम ॥१३॥
विशुद्धात्मा त्वरूपोऽहमिति चैव हुताशनात् ।
वरं गृहाणेत्युक्ते स ततोऽन्यं याचितो मया ॥१४॥
इन्द्र उवाच ।
तवेयं मृगयोन्यन्तश्चिरं संसरते चितिः ।
अवश्यं भवितव्योऽर्थ इति दृष्टो मया तव ॥१५॥
मृगो भूत्वा महापुण्यां तां सभां समवाप्तवान् ।
यस्यां तदहतं ज्ञानं मदुक्तं बोधमेष्यति ॥१६॥
तदेवं तत्र हरिणो भवार्तस्त्वं भवावनौ ।
आत्मोदन्तमिदं वन्ध्यं सकलं संस्मरिष्यसि ॥१७॥
स्वप्नभ्रममिवाशेषसंकल्परचितोपमम् ।
परलोकानुभूतार्थकथायातार्थसंनिभम् ॥१८॥
यदा तु मृगतोन्मुक्तः पुरुषस्त्वं भविष्यसि ।
ज्ञानाग्निदग्धदेहान्ते तदा हृत्स्थं स्फुरिष्यति ॥१९॥
तेन तां त्वमविद्याख्यां भ्रान्तिं त्यक्त्वा चिरं स्थिताम् ।
भविष्यसि विनिर्वाणो गतस्पन्द इवानिलः ॥२०॥
इत्युक्ते तेन देवेन तदैव प्रतिभोदभूत् ।
ममायं हरिणोऽस्मीति वनेऽस्मिन्निति निश्चिता ॥२१॥
ततः प्रभृति संपन्नस्तत्रैवान्तरकोणके ।
हरिणोऽहं गिरिवरे तृणदूर्वाङ्कुराशनः ॥२२॥
ततः सीमान्तसामन्तमागतं मृगयार्थिनम् ।
दृष्ट्वाहमेकदा भीतः पलायनपरोऽभवम् ॥२३॥
ततस्तेन समाक्रम्य गृहं नीत्वा दिनत्रयम् ।
संस्थाप्य तव लीलार्थमिहानीतो रघूद्वह ॥२४॥
एष ते कथितः सर्वं आत्मोदन्तो मयानघ ।
संसारमायाप्रतिमो नानाश्चर्यरसान्वितः ॥२५॥
अविद्यैवमनन्तेयं शाखाप्रसरशालिनी ।
आत्मज्ञानादृते नैव केनचिन्नाम शाम्यति ॥२६॥
श्रीवाल्मीकिरुवाच ।
यदा विपश्चिदित्युक्त्वा तत्र तूष्णीं स्थितः क्षणात् ।
समवोचत्तदा रामस्तमनिन्द्यमतिस्त्विदम् ॥२७॥
श्रीराम उवाच ।
एवं पश्यत्यसंकल्पो योऽन्यसंकल्प आत्मनि ।
मृगश्चेद्दृश्यतां यातः कथं सर्गे वद प्रभो ॥२८॥
विपश्चिदुवाच ।
महाशवं यत्पतितं यस्मिञ्जगति भूतले ।
तां भुवं पूर्वमिन्द्रेण यज्ञगर्वेण गच्छता ॥२९॥
पादेनाभिहतो व्योम्नि दुर्वासा ध्यानसंस्थितः ।
गतासुरित्यविज्ञानात्तेनासौ कुपितोऽशपत् ॥३०॥
शक्र शक्रावनितलं ब्रह्माण्डप्रतिमं शवम् ।
अचिरेण महाघोरं तव चूर्णीकरिष्यति ॥३१॥
मामिमं शवबुद्ध्या त्वं यदतिक्रान्तवानतः ।
शापेन ममतां पृथ्वीं शीघ्रमासादयिष्यसि ॥३२॥
मृगार्थं तेन मुनिना तथा देवेति सद्यथा ।
तत्तया कथयाऽऽयातं सदैव विषयं दृशाम् ॥३३॥
वस्तुतस्तु न चैकं सन्न द्वितीयं न चाप्यसत् ।
सा तथा प्रतिभोदेति किं सत्किमथवाप्यसत् ॥३४॥
अन्यच्च राघवे मां तां युक्तिं त्वमपरां श्रृणु ।
एतस्मिन्नयसंदर्भे सुस्फुटप्रतिपत्तये ॥३५॥
यस्मिन्सर्वं यतः सर्वं यत्सर्वं सर्वतश्च यत् ।
ब्रह्म तस्मिन्महाभाग किं न संभवतीह हि ॥३६॥
संकल्पजातं नान्योन्यं मिलतीत्युपपद्यते ।
संकल्पजातमन्योन्यं मिलतीत्युपपद्यते ॥३७॥
संकल्पजातमन्योन्यं मिलतीत्यवगम्यते ।
सर्वात्मनि हि यत्रैव च्छाया तत्रैव चातपः ॥३८॥
न संभवति चेत्तत्तत्कथं सर्वात्मतामियात् ।
कस्मात्संकल्पनगरं न मिथः श्लिष्यतीति सत् ॥३९॥
मिथश्च श्लिष्यतीत्येवमपि सत्सर्वरूपिणि ।
न तदस्ति न यत्सत्यं न तदस्ति न यन्मृषा ॥४०॥
सर्वत्र सर्वथा सर्वं सर्वदा सर्वरूपिणि ।
अहो नु विषमा माया मनोमोहविधायिनी ॥४१॥
विधयः प्रतिषेधाश्च यदेकत्र स्थितिं गताः ।
ईदृशी ब्रह्मसत्तैषा यदेवात्मानमात्मना ॥४२॥
तया अनादिः सादिश्चेत्यविद्येत्यनुभूयते ।
न ज्ञप्तिमात्रकचनं यदि स्याद्भुवनत्रयम् ॥४३॥
तन्महाकल्पनष्टानां सृष्टिः स्यात्कथमञ्जसा ।
कथमग्नेः कथं वायोः सत्ता भूमेः कथं भवेत् ॥४४॥
तस्मात्स्वभावकचनमात्रान्नान्यदृते जगत् ।
शास्त्राण्यनुभवो लोका आमहाकल्पवादिनाम् ॥४५॥
येषां प्रमाणं नो सर्वं प्रशस्तैस्तैरलं सताम् ।
ज्ञप्तिदृष्ट्यानया सर्वं प्रमाणीभवति क्षणात् ॥४६॥
नान्यया तनु तेनैवमेव सार विदुर्बुधाः ।
शुद्धा ज्ञप्तिर्ब्रह्मसत्ता त्वविद्यास्मीति चेतनात् ॥४७॥
स्फुरतीयं जगद्रूपा वातश्रीः स्पन्दनादिव ।
न कश्चनेह म्रियते जायते न च कश्चन ॥४८॥
मृतोऽहमिदमस्तीति प्रतिभैव चिदात्मिका ।
मृतिरत्यन्तनाशश्चेत्तत्सा निद्रा सुखोपमा ॥४९॥
पुनर्दृश्योपलम्भश्चेन्ननु जीवितमेव तत् ।
तस्मान्नेहास्ति मरणं तन्नैवेहास्ति जीवितम् ॥५०॥
कस्मिंश्चिन्मात्रकचने द्वयं वाप्यस्ति नैव वा ।
चेतितं द्वयमप्यस्ति नास्ति द्वयमचेतितम् ॥५१॥
चेतितं चैकमेवास्ति स्वस्त्यनन्तमतश्चितः ।
चिन्मात्रव्यतिरेकेण किं नाम वद जीवनम् ॥५२॥
अदुःखमक्षयत्वात्तदतो दुःखं क्व कस्यचित् ।
वाच्यं सवाचकं सर्वं यत्र चिद्व्योममात्रकम् ॥५३॥
तदन्यत्तदनन्यच्च के ते तत्रैकताद्विते ।
आवर्तादि यथा तोये शरीरादि तथा परे ॥५४॥
तत्सत्तासंनिवेशात्म कारणानन्यखात्म च ।
चिद्भानमात्रमव्यग्रं खमेवाप्रतिघं जगत् ॥५५॥
आश्चर्यं सुघनं व्यग्रं द्रव्यं सप्रतिघं स्थितम् ।
तथेते भूतिभूर्नास्ति वर्तमानानुभूतिभूः ॥५६॥
तत्र भ्रान्त्या पिशाचोऽयं भाति खात्मेति बुध्यताम् ।
यथैतत्खं तथैतत्खमेतत्खमिति खं स्थितम् ॥५७॥
तथेतो भूरितो भूतमितोऽन्यदिति खं परम् ।
यैव चिद्भा जगत्सैव नैकतात्र न च द्विता ॥५८॥
न च प्रतिघता काचिन्न चाप्रतिघरूपता ।
सर्वमप्रतिघं दृश्यं यथा भूतार्थदर्शिनः ॥५९॥
तज्ज्ञतातज्ज्ञते चेह न सती नाप्यसत्स्थिती ।
सत्ये सदसती चैकं काष्ठमौनमतोऽखिलम् ॥६०॥
यद्दृश्यं ब्रह्मतानन्तं तदेव परमं पदम् ।
इद सर्वं परं ब्रह्ममात्रमित्येव संस्थितम् ॥६१॥
एवं नामैष चिद्धातुः कचत्येवं यदात्मनि ।
यस्येदं कचनं व्योम्नो रूपमप्रतिघं जगत् ॥६२॥
सर्गाद्या मृतजीवानां सर्वत्रैवाङ्गुलेङ्गुले ।
असंख्याः सन्त्यसंख्यानामदृश्याप्रतिघामिथः ॥६३॥
अन्योन्यं सिद्धलोकास्ते स्वं यत्र प्राप्य संगताः ।
परस्परं न पश्यन्ति मिथः प्रोता अपि स्थिताः ॥६४॥
भवत्याकाश एवैषा दृश्यश्रीर्गगनात्मिका ।
अनन्यदृष्टा चिद्रूपा स्वप्नवत्स्वात्मद्रष्टृका ॥६५॥
एषा हि संपरिज्ञाता तिष्ठत्यपि यथास्थितम् ।
भामात्ररूपनिर्वाणा निशान्ताऽप्रतिभाकृतिः ॥६६॥
शान्ताशेषविशेषात्म यथास्थितमवस्थितम् ।
सदसद्वा जगज्जालं परिज्ञानेन शाम्यति ॥६७॥
यथाब्धिजलबिन्दूनां क्षणविश्लेषसंगमम् ।
चिदणूनां तथा ब्रह्म वारिधौ स्फुरतां मिथः ॥६८॥
स्वप्नवद्भाति सर्गश्रीः सर्गादौ चिन्नभोमयी ।
अतः सर्वमिदं ब्रह्म शान्तमित्युपपद्यते ॥६९॥
दृष्टान्यनन्तविभवानि मया जगन्ति
भुक्तानि कार्यपरिणामविजृम्भितानि ।
भ्रान्ता दिशो दश बहूनि युगानि याव-
ज्ज्ञानादृते क्षयमुपैति न दृश्यदोषः ॥७०॥

इ० वा० महारामायणे वा० दे० मो० नि० उ० अवि० विश श० विपश्चित्संसारभ्रमवर्णनं नामैकोनषष्ट्यधिकशततमः सर्गः ॥१५९॥

N/A

References : N/A
Last Updated : October 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP