निर्वाणप्रकरणं - सर्गः १८४
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
कुन्ददन्त उवाच ।
इत्युक्तवानसौ पृष्टः कदम्बतलतापसः ।
सप्तद्वीपा भुवोऽष्टौ ताः कथं भाता गृहेष्विति ॥१॥
कदम्बतापस उवाच ।
चिद्धातुरीदृगेवायं यदेष व्योमरूप्यपि ।
सर्वगो यत्र यत्रास्ते तत्र तत्रात्मनि स्वयम् ॥२॥
आत्मानमित्थं त्रैलोक्यरूपेणान्येन वा निजम् ।
परिपश्यति रूपं स्वमत्यजन्नेव खात्मकम् ॥३॥
कुन्ददन्त उवाच ।
एकस्मिन्विमले शान्ते शिवे परमकारणे ।
कथं स्वभावसंसिद्धा नानाता वास्तवी स्थिता ॥४॥
कदम्बतापस उवाच ।
सर्वं शान्तं चिदाकाशे नानास्तीह न किंचन ।
दृश्यमानमपि स्फारमावर्तात्मा यथाम्भसि ॥५॥
असत्स्वेषु पदार्थेषु पदार्था इति भान्ति यत् ।
चित्वं स्वप्नसुषुप्तात्म तत्तस्याच्छं निजं वपुः ॥६॥
सस्पन्दोऽपि हि निःस्पन्दः पर्वतोऽपि न पर्वतः ।
यथा स्वप्नेषु चिद्भावः स्वभावोऽर्थगतस्तथा ॥७॥
न स्वभावा न चैवार्थाः सन्ति सर्वात्मकोचिते ।
सर्गादौ कचितं रूपं यद्यथा तत्तथा स्थितम् ॥८॥
न च नाम परं रूपं कचनाकचनात्मकम् ।
द्रव्यात्मा चिच्च चिद्व्योम स्थितमित्थं हि केवलम् ॥९॥
एकैव चिद्यथा स्वप्ने सेनायां जनलक्षताम् ।
गतेवाच्छैव कचति तथैवास्याः पदार्थता ॥१०॥
यत्स्वतः स्वात्मनि स्वच्छे चित्खं कचकचायते ।
तत्तेनैव तदाकारं जगदित्यनुभूयते ॥११॥
असत्यपि यथा वह्नावुष्णसंविद्धि भासते ।
संविन्मात्रात्मके व्योम्नि तथार्थः स्वस्वभासकः ॥१२॥
असत्यपि यथा स्तम्भे स्वप्ने खे स्तम्भता विदः ।
तथेदमस्या नानात्वमनन्यदपि चान्यवत् ॥१३॥
आदिसर्गे पदार्थत्वं तत्स्वभावाच्छमेव च ।
चिद्व्योम्ना यद्यथा बुद्धं तत्तथाद्यापि विन्दते ॥१४॥
पुष्पे पत्रे फले स्तम्भे तरुरेव यथा ततः ।
सर्वं सर्वत्र सर्वात्म परमेव तथाऽपरम् ॥१५॥
परमार्थाम्बराम्भोधावापः सर्गपरंपरा ।
परमार्थमहाकाशे शून्यता सर्गसंविदः ॥१६॥
परमार्थश्च सर्गश्च पर्यायौ तरुवृक्षवत् ।
बोधादेतदबोधात्तु द्वैतं दुःखाय केवलम् ॥१७॥
परमार्थो जगच्चेदमेकमित्येव निश्चयः ।
अध्यात्मशास्त्रबोधेन भवेप्सैषा हि मुक्तता ॥१८॥
संकल्पस्य वपुर्ब्रह्म संकल्पकचिदाकृतेः ।
तदेव जगतो रूपं तस्माद्ब्रह्मात्मकं जगत् ॥१९॥
यतो वाचो निवर्तन्ते न निवर्तन्त एव वा ।
विधयः प्रतिषेधाश्च भावाभावदृशस्तथा ॥२०॥
अमौनमौनं जीवात्म यत्पाषाणवदासनम् ।
यत्सदेवासदाभासं तद्ब्रह्माभिधमुच्यते ॥२१॥
सर्वस्मिन्नेकसुघने ब्रह्मण्येव निरामये ।
का प्रवृत्तिर्निवृत्तिः का भावाभावादिवस्तुनः ॥२२॥
एकस्यामेव निद्रायां सुषुप्तस्वप्नविभ्रमाः ।
यदा भान्त्यविचित्रायां चित्रा इव निरन्तराः ॥२३॥
एतस्यां चित्खसत्तायां तथा मूलकसर्गकाः ।
बहवो भान्त्यचित्रायां चित्रा इव निरन्तराः ॥२४॥
द्रव्ये द्रव्यान्तरं श्लिष्टं यत्कार्यान्तरमाक्षिपेत् ।
तद्वदन्तस्तथाभूतचित्सारं स्फुरणं मिथः ॥२५॥
सर्वे पदार्थाश्चित्सारमात्रमप्रतिघाः सदा ।
यथा भान्ति तथा भान्ति चिन्मात्रैकात्मतावशात् ॥२६॥
चिन्मात्रैकात्मसारत्वाद्यथा संवेदनं स्थिताः ।
निःस्पन्दा निर्मनस्काराः स्फुरन्ति द्रव्यशक्तयः ॥२७॥
अविद्यमानमेवेदं दृश्यतेऽथानुभूयते ।
जगत्स्वप्न इवाशेषं सरुद्रोपेन्द्रपद्मजम् ॥२८॥
विचित्राः खलु दृश्यन्ते चिज्जले स्पन्दरीतयः ।
हर्षामर्षविषादोत्थजङ्गमस्थावरात्मनि ॥२९॥
स्वभाववाताधूतस्य जगज्जालचमत्कृतेः ।
हा चिन्मरीचिपांश्वभ्रनीहारस्य विसारिता ॥३०॥
यथा केशोण्ड्रकं व्योम्नि भाति व्यामलचक्षुषः ।
तथैवेयं जगद्भान्तिर्भात्यनात्मविदोऽम्बरे ॥३१॥
यावत्संकल्पितं तावद्यथा संकल्पितं तथा ।
यथा संकल्पनगरं कचतीदं जगत्तथा ॥३२॥
संकल्पनगरे यावत्संकल्पसकला स्थितिः ।
भवत्येवाप्यसद्रूपा सतीवानुभवे स्थिता ॥३३॥
प्रवहत्येव नियतिर्नियतार्थप्रदायिनी ।
स्थावरं जङ्गमं चैव तिष्ठत्येव यथाक्रमम् ॥३४॥
जायते जङ्गमं जीवात्स्थावरं स्थावरादपि ।
नियत्याधो वहत्यम्बु गच्छत्यूर्ध्वमथानलः ॥३५॥
वहन्ति देहयन्त्राणि ज्योतींषि प्रतपन्ति च ।
वायवो नित्यगतयः स्थिताः शैलादयः स्थिराः ॥३६॥
ज्योतिर्मयं विवृत्तं तु धारासाराम्बरीकृतम् ।
युगसंवत्सराद्यात्म कालचक्रं प्रवर्तते ॥३७॥
भूतलैकान्तराब्ध्यद्रिसंनिवेशः स्थितायते ।
भावाभावग्रहोत्सर्गद्रव्यशक्तिश्च तिष्ठति ॥३८॥
कुन्ददन्त उवाच ।
प्राग्दृष्टं स्मृतिमायाति तत्स्वसंकल्पनान्यतः ।
भाति प्रथमसर्गे तु कस्य प्राग्दृष्टभासनम् ॥३९॥
तापस उवाच ।
अपूर्वं दृश्यते सर्वं स्वप्ने स्वमरणं यथा ।
प्राग्दृष्टं दृष्टमित्येव तत्रैवाभ्यासतः स्मृतिः ॥४०॥
चित्त्वाच्चिद्व्योम्नि कचति जगत्संकल्पपत्तनम् ।
न सन्नासदिदं तस्माद्भाताभातं यतः स्वतः ॥४१॥
चित्प्रसादेन संकल्पस्वप्नाद्यद्यानुभूयते ।
शुद्धं चिद्व्योम संकल्पपुरं मा स्मर्यतां कथम् ॥४२॥
हर्षामर्षविनिर्मुक्तैर्दुःखेन च सुखेन च ।
प्रकृतेनैव मार्गेण ज्ञैश्चक्रैरिव गम्यते ॥४३॥
निद्राव्यपगमे स्वप्ननगरे यादृशं स्मृतौ ।
चिद्व्योमात्म परं विद्धि तादृशं त्रिजगद्भ्रमम् ॥४४॥
संविदाभासमात्रं यज्जगदित्यभिशब्दितम् ।
तत्संविद्व्योम संशान्तं केवलं विद्धि नेतरत् ॥४५॥
यस्मिन्सर्वं यतः सर्वं यत्सर्वं सर्वतश्च यत् ।
सर्वं सर्वतया सर्वं तत्सर्वं सर्वदा स्थितम् ॥४६॥
यथेयं संसृतिर्ब्राह्मी भवतो यद्भविष्यति ।
यथा भानं च दृश्यस्य तदेतत्कथितं मया ॥४७॥
उत्तिष्ठतं व्रजतमास्पदमह्नि पद्मं
भृङ्गाविवाभिमतमाशु विधीयतां स्वम् ।
तिष्ठामि दुःखमलमस्तसमाधिसंस्थं
भूयः समाधिमहमङ्ग चिरं विशामि ॥४८॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि ० उ० ब्रह्म० ता० कुन्ददन्तोपदेशो नाम चतुरशीत्यधिकशततमः सर्गः ॥१८४॥
N/A
References : N/A
Last Updated : October 09, 2021
TOP