संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः ९४

निर्वाणप्रकरणं - सर्गः ९४

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
अथ हेममयाकाशविस्तीर्णायां महाभुवि ।
सौहार्दादेव सिद्धस्य तस्येदमहमुक्तवान् ॥१॥
त्वया न केवलं तावन्मयापि न विचारितम् ।
आव्याप्तिरहिता नाम न संभवति देहिनाम् ॥२॥
कस्मान्मया तवोदन्तं विचार्यासौ स्थिरीकृता ।
न कुटी व्योम्नि तेन त्वमभविष्यः स्थिरस्थितिः ॥३॥
उत्तिष्ठ सिद्धलोकेषु निवसावो यथास्थितम् ।
स्वास्पदस्थितयः सौम्याः स्वात्मसिद्धौ सुसाधनम् ॥४॥
इति निर्णीय तावुच्चैरुत्सृतौ तारकोपमौ ।
सममेकपुटोड्डीनौ व्योम यन्त्रोपलाविव ॥५॥
प्रणामपूर्वमन्योन्यमथ कृत्वा विसर्जनम् ।
गतः सोऽभिमतं देशमहं चाभिमतं गतः ॥६॥
इति वृत्तान्तमखिलमुक्तवानस्मि राघव ।
तवाश्चर्यमयीं पश्य संसृतीनां विचित्रताम् ॥७॥
श्रीराम उवाच ।
भगवंस्तव देहोऽसौ पृथिव्यामणुतां गतः ।
भ्रान्तः केन शरीरेण सिद्धलोकांस्ततो भवान् ॥८॥
श्रीवसिष्ठ उवाच ।
आ स्मृतं श्रृणु वृत्तान्तं ततो मम जगद्गृहे ।
भ्रमतः सिद्धसेनासु लोकपालपुरीषु च ॥९॥
अहमिन्द्रपुरं प्राप्तो न कश्चित्तत्र दृष्टवान् ।
मामिमं देहरहितमातिवाहिकदेहिनम् ॥१०॥
अह किल तदा राम संपन्नो गगनाकृतिः ।
न चाधारो न चाधेयश्चिदाकाशमयात्मकः ॥११॥
न ग्रहीता न च ग्राह्यस्त्वादृशार्थावबोधिनाम् ।
न चैव देशकालानां क्वचिदावृत्तिकारकः ॥१२॥
मनोमननमात्रात्मा पृथ्व्यादिपरिवर्जितः ।
संकल्पपुरुषाकारः पदार्थानामरोधकः ॥१३॥
अरुद्धश्च पदार्थौघैः स्वयं स्वानुभवोन्मुखः ।
व्यवहर्ता तथाभूतैरेवं पुंभिर्मनोमयैः ॥१४॥
स्वप्नानुभूतयो राम दृष्टान्तोऽत्राविखण्डितः ।
अनुभूत्यपलापं तु यः कुर्यात्तेन तेऽस्त्वलम् ॥१५॥
यथा स्वप्नचरो गेहे व्यवहर्ता न दृश्यते ।
तथा तदा न दृष्टोस्मि पुरस्थोऽपि नभोगतैः ॥१६॥
अहमन्यान्प्रपश्यामि पार्थिवाकारभासुरान् ।
मामातिवाहिकात्मानं न कश्चिदपि पश्यति ॥१७॥
श्रीराम उवाच ।
न दृश्यते विदेहत्वाद्भवान्व्योमवपुर्यदि ।
तत्कथं तेन सिद्धेन दृष्टोऽसि कनकावनौ ॥१८॥
श्रीवसिष्ठ उवाच ।
अस्मदादिर्जनो नाम यथा संकल्पकल्पितान् ।
नासंकल्पितमाप्नोति सत्यकामवपुर्यतः ॥१९॥
व्यवहारेषु मग्नेन लौकिकेष्वमलात्मना ।
क्षणाद्विस्मर्यते पुंसा आतिवाहिकमात्मनः ॥२०॥
मया पश्यतु मामेष इति संकल्पितं तदा ।
तेन मां दृष्टवानेष स्वसंकल्पार्थभाजनम् ॥२१॥
जनो जरठभेदत्वान्न संकल्पार्थभाजनम् ।
स एष जीर्णभेदत्वात्सत्यकामत्वभाजनम् ॥२२॥
द्वयोस्तु सिद्धयोः सिद्धविरुद्धेप्सितयोर्मिथः ।
अधिकैकावदातात्मा जयी पुरुषयत्नवान् ॥२३॥
भ्रमतः सिद्धसेनासु लोकपालपुरीषु मे ।
विस्मृता व्यवहारौघैः सातिवाहिकतात्मनः ॥२४॥
यदा तदाहमपरैर्व्यवहर्तुं महाम्बरे ।
प्रवृत्तो न च मां कश्चित्तत्र पश्यति चञ्चलम् ॥२५॥
अत्यन्तमप्यारटतः शब्दो न श्रूयते मम ।
केनचित्सुरलोकेषु स्वप्नपुंस इवानघ ॥२६॥
अवष्टब्धं प्रवृत्तस्य नान्यावष्टब्धये मम ।
संपद्यते किंचिदपि मनोमननदेहिनः ॥२७॥
एवं व्योमपिशाचोऽहं संपन्नो रघुनन्दन ।
मयानुभूता काप्येषा देवागारपिशाचता ॥२८॥
श्रीराम उवाच ।
पिशाचाः सन्तिलोकेस्मिन्किमाकाराःकिमास्पदाः ।
किंजातीयाः किमाचाराः कीदृशाः कीदृशाशयाः ॥२९॥
श्रीवसिष्ठ उवाच ।
पिशाचाः सन्ति लोकेऽस्मिन्यादृशास्तादृशान्श्रृणु ।
न सभ्योऽसौ न यो वक्ति प्रसङ्गापतितं वचः ॥३०॥
पिशाचाः केचिदाकाशसदृशाः सूक्ष्मदेहकाः ।
हस्तपादादिसंयुक्ताः पश्यन्ति त्वमिवाकृतिम् ॥३१॥
छायया भयदायिन्या त्वन्यत्र भ्रमरूपया ।
ते चित्ताक्रमणं कृत्वा बोधयन्ति नराशयम् ॥३२॥
घ्नन्त्यदन्ति पिबन्त्याशु लघुसत्त्वबलं जनम् ।
बलं सत्त्वमथो जीवान्हिंसन्त्याक्रम्य चित्तकम् ॥३३॥
आकाशसदृशाः केचित्केचिन्नीहारसंनिभाः ।
केचित्स्वप्ननराकाराः साकारा अपि स्वात्मकाः ॥३४॥
केचिदभ्रदलप्रख्याः केचित्पवनदेहकाः ।
केचिद्भ्रमात्मका एव सर्वे बुद्धिमनोमयाः ॥३५॥
ग्रहीतुं नैव युज्यन्ते ग्रहीतुं शक्नुवन्ति नो ।
आकाशशून्यवपुषः पश्यन्त्याकृतिमात्मनः ॥३६॥
शीतातपादिविहितं सुखं दुःखं विदन्ति च ।
पातुमत्तुमवष्टब्धुमीहितुं शक्नुवन्ति नो ॥३७॥
इच्छाद्वेषभयक्रोधलोभमोहसमन्विताः ।
मन्त्रौषधतपोदानधैर्यधर्मवशीकृताः ॥३८॥
सत्त्वावष्टम्भयन्त्रेण मन्त्रेणाराधितेन वा ।
दृश्यन्तेऽपि च गृह्यन्ते कदाचित्केनचित्क्वचित् ॥३९॥
देवयोनिर्हि सा तेन केचिद्देवोपमादयः ।
केचिन्नरसमश्रीकाः केचिन्नागसमन्वयाः ॥४०॥
श्वशृगालोपमाः केचिद्ग्रामजङ्गलवासिनः ।
कुल्यावकररथ्यासु वसन्ति निरयेषु च ॥४१॥
एतदास्पदमेतेषामित्याकाराः प्रकीर्तिताः ।
पिशाचा एवमाचारा जन्मैषां श्रूयतामिदम् ॥४२॥
अचेत्यचिन्मयं ब्रह्म सर्वशक्तिस्वभावतः ।
यत्स्थितं बुद्धमेवान्तश्चेत्यं संकल्पयन्निव ॥४३॥
तं जीवं विद्धि स प्रौढस्त्वहंकार इति स्मृतः ।
सोऽहंकारः स्मृतः पुष्टो मन इत्युदितात्मभिः ॥४४॥
स एव कथ्यते ब्रह्मा सकल्पाकाशरूपवान् ।
असदेवासतो बीजं जगतो विगताकृतिः ॥४५॥
एवं मनःस्थितो ब्रह्मा सदेहोऽप्यमलं नभः ।
तत्स्वप्नपुरुषाकारः सन्नेवासद्वपुः सदा ॥४६॥
पृथ्व्यादिमूर्तिरहितस्त्वातिवाहिकदेहवान् ।
पृथ्व्यादयः किल कुतः संकल्पपुरुषस्य खे ॥४७॥
भवन्मनो यथाकाशपुरं पश्यति कल्पितम् ।
तथा मनोविरञ्चित्वं पश्यत्यात्मनि कल्पितम् ॥४८॥
यद्वेत्ति कल्पितं तत्सत्पश्यत्यनुभवत्यपि ।
यो यावन्मात्रकस्तत्स कस्मात्किल न पश्यति ॥४९॥
स यत्पश्यति तत्तादृक् शून्यात्मा शून्यमम्बरे ।
ब्रह्म ब्रह्मणि वा ब्रह्मा तदिदं जगदुच्यते ॥५०॥
तथा संप्रति भासोऽस्य चिरकालैकभावनात् ।
घनीभूतः स्थितः पुष्टः सुदीर्घस्वप्नसुन्दरः ॥५१॥
आतिवाहिकदेहस्य तस्य तच्चिरभावनात् ।
सर्गानुभवनं भूरि ब्रह्मणो ब्रह्मरूप्यपि ॥५२॥
गतं प्रकटतोत्कर्षादाधिभौतिकदेहताम् ।
तेनैव सर्ग इत्युक्तो भेदसंततिभासुरः ॥५३॥
स ब्रह्मा ब्रह्ममात्रात्मा ब्रह्ममात्रात्मनोस्तयोः ।
अजातयोरेव सदा तदात्मजगतोर्द्वयोः ॥५४॥
अभिन्नयोरेव भृशं शून्यत्वाम्बरयोरिव ।
ऐकात्म्येनैव वसतोः पवनस्पन्दयोरिव ॥५५॥
वेत्ति भूतमयत्वं तन्मिथ्यैव न तु वास्तवम् ।
तथा यथा त्वं संकल्पपुरुषस्य सतोऽसतः ॥५६॥
ततः शरीरधातूनां तेन पृथ्व्यादिकाः कृताः ।
अभिधाः पञ्च चित्पुष्टा जगदित्येव ताः स्थिताः ॥५७॥
यथा त्वसत्य एवायं संकल्पः सत्य एव ते ।
तथासावात्मसंकल्पं सत्यमेवानुभूतवान् ॥५८॥
स स्वयं चिन्मयाकाशः स संकल्पश्चिदम्बरम् ।
अतः स्वप्नो जगत्सर्वं कृतौ नाशोद्भवौ स्थितौ ॥५९॥
यथैवैतन्मनः सत्यं तदंशाः सत्यमेव ते ।
तथैव तत्कृताश्चन्द्ररुद्रार्केन्दुमरीचयः ॥६०॥
एवं स्थिते जगज्जालं तन्मनोराज्यमुच्यते ।
तच्च शून्यं निरालम्बमाकाशकचनं चिति ॥६१॥
यथा स्वप्नपुरं व्योम संकल्पाद्रिर्यथा नभः ।
तथा ब्रह्म जगच्चैव खमेवाच्छमनाकृति ॥६२॥
एवमाभासमात्रस्य कचतोऽनिशमव्ययम् ।
सर्गादिमध्यान्तदृशो मुधैवात्रोदिताः स्थिताः ॥६३॥
किंचिदाकाशकोशस्य तव वा मम वानघ ।
जगतो वापि जायेत किं वा नश्यति मे वद ॥६४॥
तत्किमर्थमनर्थाय निरर्थकमपार्थकाः ।
कस्मादभ्युदिता ब्रूहि रागद्वेषभयादयः ॥६५॥
वस्तुतोऽङ्ग न सर्गादिर्न सर्गो नाप्यसर्गता ।
विद्यते सकृदाभातमिदमित्थं सदैव तत् ॥६६॥
आशून्ये विपुलाभोगे स्वच्छचिज्जलपूरिते ।
कलनापङ्ककलिले भविष्यति चिदम्बरे ॥६७॥
अन्तरिक्षाक्षयक्षेत्रे खात्मनो गगनात्मिका ।
तस्माद्बीजादियं जाता भूरिभूतशिलावलिः ॥६८॥
नास्ति किंचिदिह क्षेत्रं व्युप्तं नाम न किंचन ।
न बीजमस्ति नो जातं किंचित्सर्वं च संस्थितम् ॥६९॥
याः शिलावलयस्तत्र पुष्टास्ता विबुधादयः ।
यास्तु वर्णोज्ज्वला एताः स्वास्थिता बुद्धबुद्धयः ॥७०॥
यास्त्वर्धपक्वास्ता एता नरनागादिजातयः ।
यास्त्वाश्याना रजोनष्टास्ताः कृमिस्थावरादयः ॥७१॥
यास्तु गुर्व्यः फलैर्हीनाः शून्याकाराः क्षयक्षताः ।
अशरीराः शरीरिण्यस्ताःपिशाचादिकाः स्मृताः ॥७२॥
न हि संकल्पितुः स्वेच्छा क्वचित्पर्यनुयुज्यते ।
तास्तथेच्छा विरिञ्चस्य तथा नाम तथोदिताः ॥७३॥
सर्वा एव चिदाकाशरूपिण्यो भूतजातयः ।
आतिवाहिकदेहिन्यः पृथ्व्यादिरहितात्मिकाः ॥७४॥
ताश्चिराभ्यासवशतस्त्वाधिभौतिकसंविदम् ।
प्राप्ता दीर्घानुभवनात्स्वप्नजाग्रद्दशामिव ॥७५॥
पिशाचाद्यास्तथा एते तथाभूताधिभौतिकाः ।
तिष्ठन्ति तुष्टमनसः स्वसंसारविहारिणः ॥७६॥
पश्यन्ति काश्चिदन्योन्यं ग्राम्या ग्राम्येयकानिव ।
स्वप्नैकलोकवास्तव्या इवैता भूतजातयः ॥७७॥
काश्चिद्वहुनरप्राप्तस्वप्ननिर्माणलोकवत् ।
नान्योन्यमपि पश्यन्ति नानासंस्थानसंस्थिताः ॥७८॥
स्थिता यथैता जगति पिशाचाद्याः कुजातयः ।
प्रायस्तथैताः कुम्भाण्डयक्षप्रेतादयः स्थिताः ॥७९॥
यथा यत्रेह वै निम्ना जलं तत्रावतिष्ठते ।
तथा यत्र पिशाचाद्यास्तमस्तत्रावतिष्ठते ॥८०॥
मध्याह्नेपि पिशाचश्चेदजिरे तिष्ठति स्वयम् ।
तत्तस्यान्धं तमस्तत्र संनिधानं करोत्यलम् ॥८१॥
न निहन्ति च तद्भानुर्न चान्यस्तत्प्रपश्यति ।
स एव चानुभवति पश्य मायाविजृम्भितम् ॥८२॥
अग्नेरादित्यचन्द्रादेस्तैजसं मण्डलं यथा ।
पिशाचादेरजन्यात्म तामसं मण्डलं तथा ॥८३॥
याति तेजस्यनोजस्त्वं तमस्योजःप्रधानताम् ।
उलूकवत्पिशाचाद्या आश्चर्यं तत्स्वभावतः ॥८४॥
एषा पिशाचाजनितस्य जातिः
प्रोक्ता मया ते समयानपेता ।
पिशाचतुल्यः सुरलोकपाल-
लोकेषु जातोऽहमिति प्रसङ्गात् ॥८५॥

इत्यार्षे श्रीवा० वा० दे० मोक्षो० नि० उ० पा० पिशाचवर्णनप्रसङ्गेन जगद्ब्रह्मणोरैक्यप्रतिपादनं नाम चतुर्नवतितमः सर्गः ॥९४॥

N/A

References : N/A
Last Updated : September 30, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP