निर्वाणप्रकरणं - सर्गः ११७
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
सहचरा ऊचुः ।
पश्याद्रिसानाविव बिम्बितं स्वं पुरःसरो मारपुरःसरो यः ।
कह्लारपद्मोत्पलजालनाल-ललद्विचित्रारवपक्षिवीतम् ॥१॥
विकासितोद्दण्डसहस्रपत्र-कोशस्थलस्थोद्धृरराजहंसम् ।
पीठद्विरेफद्विजलोकजुष्टं भुवीव गेहं कमलासनस्य ॥२॥
आकीर्णसीकरकरालदिगन्तराले फुल्लोत्पलाब्जपटलोदररेणुगौरम् ।
आमोदमत्तमधुपद्विजगीतिगीतं यातं वितानकमिवाम्बरगं वहन्तम् ॥३॥
क्वचित्तरत्तारतरङ्गभङ्गं क्वचिद्विषद्भूरिविराविभृङ्गम् ।
क्वचिद्गभीरामलवारिसुप्तं क्वचित्सरोजोज्ज्वलपुष्पगुप्तम् ॥४॥
कणाणुमुक्ताजलतापटालं तीरेषु सिंहे सुलतासुटालम् ।
तरङ्गनिर्धूतशिलोग्रकच्छं महीतलाकाशमनन्तकच्छम् ॥५॥
तडित्प्रकाशोदरमस्यमेघ-नुन्नालजातोत्थरजःप्रभाभिः ।
पृषद्भरध्वान्तमयैकदेशं संध्याम्बराभोगमिवाप्रकाशम् ॥६॥
वातावकीर्णशरदम्बुदखण्डखण्डं व्योमेव केवलसमीरणमावृताङ्गम् ।
हसैर्लसद्विसलताकवलालसांसैः कालेन संचयकृतैरिव चन्द्रबिम्बैः ॥७॥
आमोदमन्दमकरन्दकरालवात-व्याधूतपङ्कपुटपाटनपाटवेन ।
उद्यन्महापटपटा वयतीव लेखा क्षुभ्यत्खगाश्रितलतोज्झितपुष्पवर्षम् ॥८॥
वेल्लन्महाकमलपल्लवतालवृन्त-संवीजितं वलितचामरचारुफेनम् ।
राजायमानमलिकोकिलगीतगीतं सहृत्तपङ्कजलताललिताङ्गनौघम् ॥९॥
भृङ्गाग्रभाजनमनोहरहारिगीतं राजीवरेणुरणकीर्णपिशङ्गतोयम् ।
डिण्डीरपिण्डपरिपाण्डुरपुण्डरीक-खण्डोपमण्डिततटोपवनावतंसम् ॥१०॥
विविक्तहृदयाम्भोजं हृदयाह्लादनं परम् ।
रसवत्स्वादु भातीदं सरः सत्संगमोपमम् ॥११॥
बिम्बितेन मरुव्योम्ना भातीदं सौम्य निर्मलम् ।
शास्त्रार्थपरिणामेन महतामिव मानसम् ॥१२॥
किंचिल्लक्ष्यमपश्यामं पृषत्परुषमारुतम् ।
हिमाभ्रमिव भातीदं सरः सरससारसम् ॥१३॥
यथेदं ब्रह्मणो दृश्यमविकारादि नेतरत् ।
यथाम्भसि तरङ्गादि राजन्पृथगिव स्थितम् ॥१४॥
आत्मनैवोह्यमानानां चक्रावर्तविधायिनाम् ।
जडाशयानां विषमा हा कल्लोलपरम्परा ॥१३॥
कूपवापीसरोब्धीनां दृश्यते यादृगन्तरम् ।
नारीपुरुषतोयानां विज्ञेयं तादृगन्तरम् ॥१६॥
जन्तोरिवास्य मनसो जलजातिबन्ध-
जीर्णस्य जर्जरदशालहरीभ्रमेण ।
आवर्तवृत्तिवलितान्यतिसंततानि
को नाम संकलयितुं कमलानि शक्तः ॥१७॥
चित्रं विजृम्भितमहो जडसंगमस्य
पद्मोपि यन्निजगुणानगुणानिवैषः ।
अन्तः प्रगोपयति कण्ठतले निवेश्य
सर्वस्य दर्शयति दुर्भगकण्टकौघम् ॥१८॥
सच्छिद्रैरदृढैः सूक्ष्मैर्गोपितैर्जाड्यसंयुतैः ।
अनल्पैरपि निःसारैः पद्मस्येव गुणैरलम् ॥१९॥
महतां कुलपद्मानां गुणसौन्दर्यशालिनाम् ।
प्रभावं नास्ति संख्यातुं वासुकेरपि शक्तता ॥२०॥
हरिवक्षोगता लक्ष्मीरपि शोभार्थमेव यत् ।
बिभर्ति कमलं हस्ते कान्याशंसाधिका भवेत् ॥२१॥
सितासिताभ्यां रूपाभ्यां कमलोत्पलखण्डयोः ।
वैसादृश्यं भवेत्किंतु समा जडजडैतयोः ॥२२॥
साम्यं न फुल्लविपिनेन सरःसु याति
व्योम्ना न तारकयुतेन न चेन्दुवृन्दैः ।
नृत्यद्वधूविहसिताननशोभयैति
फुल्लस्य पङ्कजवनस्य नवोदिता श्रीः ॥२३॥
येषां पुष्पलतास्वादैरनन्यमनसां गतम् ।
भृङ्गाणामायुरायामि त एव सुभगोत्तमाः ॥२४॥
चूतचारुचमत्कारं चञ्चरीकाश्चरन्ति ये ।
त एव सचमत्कारा इतरे जातिपूरणम् ॥२५॥
मत्ता मधुमदामोदैः पुष्करेषु रणन्ति ये ।
तुष्टानामितरस्वादैर्भ्रमराणां हसन्ति ते ॥२६॥
येनोषितं विरुतमुल्लसितं प्रसुप्तं
पद्मोदरेषु शशिकोटरकोमलेषु ।
भृङ्गः स एष शिशिरे विरसेषु भावं
कष्टं करिष्यति कथं तरुपुष्पकेषु ॥२७॥
अफुल्लमल्लिकोद्दाममुकुलोपरि षट्पदः ।
दृश्यते कालरुद्रेण शूले प्रोत इवान्धकः ॥२८॥
आस्वादयन्विविधपुष्पमधूनि भृङ्ग
नित्यं भ्रमन्सकलशैललतागृहेषु ।
नाद्यापि तुष्यसि किमङ्ग दुराशयोऽसि
मन्ये न सारमुपगच्छसि वा वनेभ्यः ॥२९॥
कमलकुलकवलकोविद गच्छ सरो मधुप मा रूढम् ।
बदरदरीषु विदीर्णं देहं कुरु कण्टकक्रकचैः ॥३०॥
अतसीकुसुमे कुवलय-दलवलये विकसिते च तापिच्छे ।
परभागमेहि मधुना तासु विसदृशीव पण्डितः पुरुषः ॥३१॥
पश्यैषा नाभिनलिनीकेसरैः पालिता श्रिया ।
हंसमालामलावल्ली सामगायनकूजिता ॥३२॥
दोलाकमलनीडस्थां दृष्ट्वा खे प्रतिबिम्बिताम् ।
हंसो हंसीमनुसरन्मण्डले नेह चेतति ॥३३॥
मा भूत्कस्यचिदेवैषा राजन्व्यसनिता भृशम् ।
पश्यैतां बिम्बितां हंसो हंसीमनुसरन्मृतः ॥३४॥
हेलया राजहंसेन यत्कृतं कलकूजितम् ।
न तद्वर्षशतेनापि जानात्याशिक्षितुं बकः ॥३५॥
समानेष्वाकराकारजातिचेष्टाशनादिषु ।
हंसस्य राजहंसस्य दूरमत्यन्तमन्तरम् ॥३६॥
शुक्लपक्षस्थितो व्योम्नि कुमुदाकरभासकः ।
आह्लादयति चेतांसि हंसश्चन्द्र इवोत्थितः ॥३७॥
उन्नालनलिनीनालकदलीस्तम्भसंकुले ।
वने विहरतां लक्ष्मीं हंसानामेति कः खगः ॥३८॥
तरङ्गवलया लोलसीकरोत्करहारिणी ।
कुमुदोत्पलकह्लारपुष्पसंभारसुन्दरी ॥३९॥
भृङ्गलोलालकलता रणत्सारसनूपुरा ।
वर्तुलावर्तनाभीका चलद्वीचिविलोचना ॥४०॥
प्रतीक्षमाणा दयितं रसपूरकरं धरम् ।
नारीव सरसी चारुहंसकाभ्यां विराजते ॥४१॥
हे हंस मद्गुबककाकशरारुसारे
मा त्वं सरस्यविरतं कुरु वासमेकः ।
आपद्यपीह समशीलवयोवचोभिः
श्रेयःफला भवति संगतिरात्मवर्गैः ॥४२॥
पादाक्रान्तमहेभमस्तकतटः पद्माकरैकालयः
कह्लारोत्पलकुन्दचम्पकलतासंभोगसौभाग्यवान् ।
भृङ्गोऽप्येष विधेर्वशेन शिशिरे लोष्टं तृणं स्वादयन्
शीते शुष्कबकत्यहो नु विपदा दैन्ये मनो दीयते ॥४३॥
पुत्रस्येह दलोदरे द्युति तरत्तारं चिरं संस्मृतं
हंसस्यांसविनुन्ननालगहने संचारिणा भो मया ।
शुक्लासारमिवाब्जिनी विकिरति स्वं वारिबिन्दूत्करं
मध्याह्ने शिशिरं विकासि सहसा मूर्घ्नि स्फुटं दृश्यताम् ॥४४॥
व्योम्नीन्दोरिवसौम्यवारिणिचिरं निःशब्दकं सर्पतो
हंसस्यांसहताब्जनालवलनानिष्कम्पटङ्कक्षतैः ।
गङ्गावारिवदत्र पुष्करपुटाद्ब्राह्मादिवास्योपरि
भ्रष्टा ये जलबिन्दवो जलचरा हृष्टाः पिबन्त्याशु तान् ॥४५॥
इत्यार्षे श्रीवासिष्ठमहारामा० वा० दे० मो० नि० उ० अविद्यो० विप० पद्मभ्रमरहंसवर्णनं नाम सप्तदशाधिकशततमः सर्गः ॥११७॥
N/A
References : N/A
Last Updated : October 02, 2021
TOP