निर्वाणप्रकरणं - सर्गः १४६
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
व्याध उवाच ।
अनन्तरं मुनिश्रेष्ठ तस्मिन्हृदि तदोजसि ।
स्थितस्य तव किं वृत्तं नामतो भ्रान्तिरूपिणि ॥१॥
मुनिरुवाच ।
अनन्तरं तदा तत्र श्रृणु किंवृत्तमङ्ग मे ।
तेजोधातुनिषण्णस्य तज्जीवावलिताकृतेः ॥२॥
तस्मिंस्तदा वर्तमाने घोरे कल्पान्तसंभ्रमे ।
तृणवत्प्रौढशैलेन्द्रे वहति प्रलयानिले ॥३॥
गिरिवृष्टिर्झटित्येव कुतोऽपि समुपाययौ ।
उह्यमानवनाभोगशिखरग्रामपत्तना ॥४॥
तस्यान्तस्तत्र संप्राप्तं तदा परिणतं यदा ।
तदा तदेव सूक्ष्मोऽहमपश्यं शैलवर्षणम् ॥५॥
तेनान्नलवशैलोच्चपूरेण प्रतिपिण्डितः ।
सुषुप्तमन्धतामिश्रमहमन्वभवं घनम् ॥६॥
अथ कंचित्तदा कालमनुभूय सुषुप्तताम् ।
तदा पद्माकर इव शनैर्बोधोन्मुखोऽभवम् ॥७॥
यथा दृष्टिश्चिराद्ध्वान्ते भाति चक्रकरूपिणी ।
सुषुप्तमेव तत्रासीत्तथा स्वप्नत्वमागतम् ॥८॥
तथा सुषुप्तविश्रान्तेः स्वप्ने निद्रामहं विशम् ।
अपश्यं दृश्यमोजोऽन्तः स्वमूर्मित्वमिवार्णवः ॥९॥
संवित्कोशात्मकं दृश्यं तत्तथा मामुपागतम् ।
अस्पन्दस्यानिलस्यान्तरनन्यत्स्पन्दनं यथा ॥१०॥
अग्न्यादौ च यथोष्णत्वं जलादौ द्रवता यथा ।
मरीचादौ यथा तैक्ष्ण्यं चिद्व्योम्नश्च जगत्तथा ॥११॥
चित्स्वभावैकरूपत्वाज्जगद्दृश्यं तदाततम् ।
तत्सुषुप्तात्मनो दृश्यात्प्रसूतं बालपुत्रवत् ॥१२॥
व्याध उवाच ।
तत्सुषुप्तात्मनो दृश्यादिति तद्व्यपदेशतः ।
सुषुप्तदृश्यं किं वक्षि वद मे वदतां वर ॥१३॥
तत्सुषुप्तात्मनो दृश्यात्त्वत्सुषुप्तात्मनोऽपि च ।
किमन्यज्जायते जन्यमथवान्यसुषुप्तता ॥१४॥
मुनिरुवाच ।
जायते भाति कचति घटादि जगदादि च ।
इति द्वैतोपतप्तानां प्रलापः कल्पनात्मकः ॥१५॥
जातशब्दो हि सन्मात्रपर्यायः श्रूयतां कथम् ।
प्रादुर्भावे जनिस्तूक्तः प्रादुर्भावस्य भूर्वपुः ॥१६॥
सत्तार्थ एव भूः प्रोक्तस्तस्मात्संजातमुच्यते ।
सर्गतो जात इत्युक्ते सन्सर्ग इति शब्दितम् ॥१७॥
बुधानामस्मदादीनां न किंचिन्नाम जायते ।
न च नश्यति वा किंचित्सर्वं शान्तमजं च सत् ॥१८॥
सर्वसत्तात्मकं ब्रह्म सर्वसत्तात्मकं जगत् ।
विधयः प्रतिषेधाश्च वद तत्र लगन्ति के ॥१९॥
या नाम शक्तिः काचित्सा तत्रैवास्ति च नास्ति च
यस्मात्तदात्म तद्ब्रह्म तथैवात्म तदात्मकम् ॥२०॥
जाग्रत्स्वप्नसुषुप्तादिपरमार्थविदां विदाम् ।
न विद्यते किंचिदपि यथास्थितमवस्थितम् ॥२१॥
स्वप्नसंकल्पपुरयोर्नास्त्यप्यनुभवस्थयोः ।
मनागपि यथा रूपं सर्गादौ जगतस्तथा ॥२२॥
द्रष्टास्याः स्वप्नदृष्टेस्तु जीवः संभवतीह हि ।
चिदचेत्या तु सर्गादौ भात्यच्छा गगनादपि ॥२३॥
नेह द्रष्टास्ति नो भोक्ता सर्वमस्तीह तादृशम् ।
यन्न किंचिच्च किंचिच्च मौनमेवातिवागपि ॥२४॥
सर्गादौ कारणाभावाद्यद्यथा कचितं चितौ ।
तत्तथास्ते चिरं रूपं स्वप्नसंकल्पपूर्यथा ॥२५॥
तथास्माच्चेतनाद्द्वैताद्बिभेति न बिभेति वा ।
अङ्गसंस्थाद्यथा चित्रात्स्वरूपात्पुरुषः स्वयम् ॥२६॥
अनादिमध्यान्तमनन्तमेक-
मत्यच्छमेवातिविकारि नाना ।
यथास्थितं भास्वरमप्यशान्त-
मिदं समस्तं परिशान्तमेव ॥२७॥
इत्यार्षे श्रीवासिष्ठमहारा० वा० दे० मो० निर्वा० उ० अ० वि० श० सुषुप्तविचारो नाम षट्चत्वारिंशदधिकशततमः सर्गः ॥१४६॥
N/A
References : N/A
Last Updated : October 08, 2021
TOP