निर्वाणप्रकरणं - सर्गः १०१
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
चिन्मात्रमेव पुरुषस्तदेवेत्थमवस्थितम् ।
चिन्मात्रव्यतिरेकेण किमन्यदुपपद्यते ॥१॥
तच्चावदातमाकाशं तन्मये द्रष्टृ दृश्यते ।
तावन्मात्रं जगदतो हेयोपादेयधीः कुतः ॥२॥
न विद्यते परो लोको बार्हस्पत्यस्य यस्य तु ।
विदोऽन्यत्तस्य किं सारं रागद्वेषावतः कुतः ॥३॥
इष्टानिष्टदृशो रागद्वेषदोषाः किमात्मकाः ।
संविद्व्योममये स्वप्ने जगदाख्येऽङ्ग कथ्यताम् ॥४॥
इदं हेयमुपादेयं वेति संवित्खमात्मनि ।
निर्मले निर्मलं भाति केवात्र तदतद्दृशौ ॥५॥
संविन्नरोऽमरो नागः संवित्स्थावरजंगमम् ।
भावाभावादयोऽस्याब्धेस्तरङ्गावर्तवृत्तयः ॥६॥
संविदाकाशमेवाहं भवानपि जना अपि ।
म्रियामहे नो कदाचित्संवित्किल कदा मृता ॥७॥
संविदो नास्ति संवेद्यं स्वयं संवेद्यतामिता ।
चित्त्वादतो विशालाक्ष द्वितैकत्वे क्व वा स्थिते ॥८॥
संविन्मात्रादृते तस्माद्भूतं किमिव कथ्यताम् ।
कथ्यतां म्रियते तच्चेत्तदद्येमे कुतो वयम् ॥९॥
वादिनः सौगताद्या ये ये लोकायतिकादयः ।
संविदाकाशमुत्सृज्य यन्मन्यन्ते तदुच्यताम् ॥१०॥
संविदाकाशमेवैतत्केनचिद्ब्रह्म कथ्यते ।
केनचित्प्रोच्यते ज्ञानं केनचिच्छून्यमुच्यते ॥११॥
केनचिन्मदशक्त्याभं केनचित्पुरुषाभिधम् ।
केनचिच्च चिदाकाशं शिव आत्मा च केनचित् ॥१२॥
चिन्मात्रमेवमप्युक्तं याति न क्वचिदन्यताम् ।
यस्मात्स्वयं तदेवैवमात्मानं वेत्ति नेतरत् ॥१३॥
चूर्णतां यान्तु मेऽङ्गानि सन्तु मेरूपमानि च ।
का क्षतिः का च वा वृद्धिश्चिद्रूपवपुषो मम ॥१४॥
मृताः पितामहाद्याश्चिन्न मृता सा म्रियेत चेत् ।
तज्जन्म नैव नाम स्यादस्माकं मृतसंविदाम् ॥१५॥
न जायते न म्रियते संविदाकाशमक्षयम् ।
भवेत्कथं कथय किं किलाकाशस्य संक्षयः ॥१६॥
जगद्रूपैककचनमविनाशि चिदम्बरम् ।
उदयास्तमयोन्मुक्तं स्थितमात्मनि केवलम् ॥१७॥
जगद्भानं दधद्दाहं चिन्नभःस्फटिकाचलः ।
अनादिमध्यपर्यन्तः स्वच्छ आत्मनि तिष्ठति ॥१८॥
यथा यथान्धकारेण प्रेक्ष्यमाणं प्रणश्यति ।
किमप्यङ्गाभ्रचक्राभं तथेदं विश्वमात्मनि ॥१९॥
यथाम्बुधिः स्वयं याति तोयाद्यावर्तकादिकम् ।
स्थितो दधत्तथैवेदं चिदाकाशोऽङ्गमात्मनि ॥२०॥
चिन्मात्रमेव पुरुषः खवत्स च न नश्यति ।
कदाचनापि तद्व्यर्थं यन्नश्यामीति शोकिता ॥२१॥
देहाद्देहान्तरप्राप्तौ नव एव महोत्सवः ।
मरणात्मनि किं मूढा हर्षस्थाने विषीदथ ॥२२॥
मृतश्चेन्न भवेद्भूयः सोऽत्राप्युपचयो महान् ।
भावाभावग्रहोत्सर्गज्वरः प्रशममागतः ॥२३॥
मरणं जीवितं तस्मान्न दुःखं न सुखं यतः ।
नास्त्येवैतच्चिदाकाशः किलेत्थमभिजृम्भते ॥२४॥
मृतस्य देहलाभश्चेन्नव एव तदुत्सवः ।
मृतिर्नाशो हि देहस्य सा मृतिः परमं सुखम् ॥२५॥
मृतिरत्यन्तनाशश्चेत्तद्भवामयसंक्षयः ।
भूयः शरीरलाभश्चेन्नव एव तदुत्सवः ॥२६॥
कुकर्मभ्योऽथ भीतिश्चेत्सा समेह परत्र च ।
तानि मा कार्ष भोस्तस्माल्लोकद्वितयसिद्धये ॥२७॥
मरिष्यामि मरिष्यामि मरिष्यामीति भाषसे ।
भविष्यामि भविष्यामि भविष्यामीति नेक्षसे ॥२८॥
क्व नाम जन्ममरणे क्व भवाभवभूमयः ।
संविदात्मकमेवेदं व्योम व्योम्नि विवर्तते ॥२९॥
संविदाकाशमात्रात्मा पिब भुंक्ष्वास्व निर्ममः ।
आकाशकोशकान्तस्य कुत इच्छोदयस्तव ॥३०॥
स्वप्रवाहबलोद्युक्तदेशकालवशादितान् ।
भावान्भुङ्क्तेऽभयो भव्यः पावनान्पावनादपि ॥३१॥
मध्यमध्यगतान्दोषान्देशकालवशोदितान्।
अनादृत्यान्तरेवास्ते सुप्तधीरवहेलयन् ॥३२॥
न दुःखमेति मरणात्सुखमेति न जीवितात् ।
नाभिवाञ्छति न द्वेष्टि स तदास्ते विवासनः ॥३३॥
मरणजीवितजन्मजरत्तृणा-
न्यविमृशन्विगतेच्छमवासनः ।
विदितवेद्य इहाज्ञ इवोदितो
वसति वीतभयस्त्वचलो यथा ॥३४॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे परमोपदेशो नामैकाधिकशततमः सर्गः ॥१०१॥
N/A
References : N/A
Last Updated : October 01, 2021
TOP