निर्वाणप्रकरणं - सर्गः १२४
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीराम उवाच ।
एकसंविन्मयाः सर्व एवैकवपुषोऽपि ते ।
विविधेच्छाः कथं ब्रह्मन्संपन्ना एकदेहिनः ॥१॥
श्रीवसिष्ठ उवाच ।
एकसंविद्धनाकाशमप्यनानैव सर्वगम् ।
स्वयं नानेव संपन्नं सुप्ते चित्तमिवात्मनि ॥२॥
तस्याच्छत्वात्तथाभूतमात्मैवात्मनि बिम्बति ।
तादृशस्य तथाभूतौ मुकुरस्येव निर्मला ॥३॥
एकलोहमया एव यथादर्शाः परस्परम् ।
तथैते प्रतिबिम्बन्ति पदार्थाः पारमार्थिकाः ॥४॥
तेन यस्य यदा यद्यत्पुरो भवति वस्त्वसौ ।
यदर्थं युज्यते तेन चिद्धनैकस्वभावतः ॥५॥
इत्यनानैव नानेदं नानानाना च वस्तुतः ।
न च नाना न चानाना नानानानात्मकं ततः ॥६॥
तेन यस्य यदायातं पुरो वस्तु विपश्चितः ।
स तेन संविन्मयतामेत्य तद्वशमागतः ॥७॥
एकदेशगता विष्वग्व्याप्य कर्माणि कुर्वते ।
योगिनस्त्रिषु कालेषु सर्वाण्यनुभवन्त्यपि ॥८॥
अब्दोऽपि व्याप्तिमानेकस्तुल्यकालं पृथक्क्रियाः ।
आह्लादस्तेन पादेन करोत्यनुभवत्यपि ॥९॥
तुल्यकालमसंख्यातमीश्वरप्रतियोगिनः ।
कर्मजालं जगज्जातं कुर्वन्त्यनुभवन्ति च ॥१०॥
एको विष्णुश्चतुर्भिः स्वैर्बाहुभिर्वा शरीरकैः ।
पृथक्कुर्वन्क्रियाः पाति जगद्भुंक्ते वराङ्गनाः ॥११॥
बहुबाहुर्यदा द्वाभ्यां हस्ताभ्यां ह्यर्थसंग्रहम् ।
करोति बहुभिर्भूयः संग्रामं सततं करैः ॥१२॥
तथैव तैर्विपश्चिद्भिः सर्वदिक्कं तथा स्थितैः ।
तथा व्यवहृतं प्राप्तमेकसंविन्मयैरपि ॥१३॥
सुप्तं तैर्भूमिशय्यासु भुक्तं द्वीपान्तरेषु च ।
विहृतं वनलेखासु प्रक्रान्तं मरुभूमिषु ॥१४॥
उषितं गिरिमालासु भ्रान्तं सागरकुक्षिषु ।
विश्रान्तं द्वीपलेखासु निलीनं घनमालिषु ॥१५॥
रूढमर्णवमालासु वात्यासु जलवीचिषु ।
क्रीडितं भूभृदब्धीनां तटीषु नगरीषु च ॥१६॥
शाकद्वीपोदयगिरितटे सप्तवर्षाणि सुप्तं
पूर्वेणान्तर्विदलगहने यक्षसंमोहितेन ॥१७॥
पाषाणाम्बु प्रसभममुनैवात्र पीत्वा दृषत्ता-
मागत्यान्तः स्थितमथ समाः सप्त जात्येन भूमेः
शाकद्वीपेऽस्तशैलस्य शिरस्यभ्रगुहागृहे ।
पिशाचाप्सरसा मासं पाश्चात्यः कामुकीकृतः ॥१८॥
यत्र शान्तभये वर्षे जलधारे महागिरौ ।
हरीतकीवने वर्षं पूर्वोऽन्तर्धानमाययौ ॥१९॥
अत्र रैवतके शैले वर्षे शिशिरनामनि ।
दशरात्रमभूत्सिंहः पूर्वो यक्षवशीकृतः ॥२०॥
अत्र काञ्चनशैलादिदरीदर्दुरतां गतः ।
पिशाचमायाछलितो दशवर्षाण्युवास सः ॥२१॥
कौमारं वर्षमासाद्य श्यामाद्रेरुत्तरस्तटम् ।
शाकद्वीपेऽन्धकूपेऽन्धो न्यवसच्छरदां शतम् ॥२२॥
मरीबकेऽकरोद्वर्षे वर्षाण्यत्र चतुर्दश ।
विद्याधरत्वं पाश्चात्यः स विद्याधरविद्यया ॥२३॥
रतक्लमक्लान्तपुरारिलक्ष्मी-
चलाङ्गलेखाक्रमशीकराक्तम् ।
एलालतालिङ्गनलब्धगन्ध-
मालम्ब्य वेलावनगन्धवाहम् ॥२४॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० अवि० वि० द्वीपान्तरवर्णनं नाम चतुर्विंशत्यधिकशततमः सर्गः ॥१२४॥
N/A
References : N/A
Last Updated : October 04, 2021
TOP