संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ६३ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ६३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ६३ Translation - भाषांतर श्रीराम उवाच ।तव स्त्रियाऽस्वरूपेण देहेनाभूत्तया कथम् ।कथमुच्चारितास्तत्र वर्णाः कचटतादयः ॥१॥श्रीवसिष्ठ उवाच ।वर्णेषु खशरीराणां वर्णाः कचटतादयः ।कदाचनापि नोद्यन्ति शवानामिव केन च ॥२॥वर्णोच्चारोऽभविष्यच्चेत्प्रकटार्थस्ततः क्वचित् ।स्वप्नेष्वन्वभविष्यत्तं विनिद्रः पार्श्वगो जनः ॥३॥तस्मान्न किंचित्स्वप्नेषु तत्सत्यं भ्रान्तिरेव सा ।चिन्मात्राकाशकचनं तत्तथा खे स्वभावजम् ॥४॥तदेन्दुकार्ष्ण्यखतनुशिलागेयादितां गताः ।इवाभान्ति चिदाकाशास्तथा देहरवादयः ॥५॥तच्चिदाकाशकचनं यन्नाम स्वप्नवेदने ।आकाशमेव नभसः कचनं विद्धि नेतरत् ॥६॥यथा स्वप्नस्तथैवेदं जाग्रदग्रे व्यवस्थितम् ।आकाशमप्यनाकाशं यथैवेदं तथैव तत् ॥७॥यथा कचति तच्चारु चेतनं चतुरं तथा ।यथा स्थितं तदेवेदं सत्यं स्थिरमिव स्फुरत् ॥८॥श्रीराम उवाच ।भगवन्स्वप्न एवेदं कथं जाग्रदवस्थितम् ।असत्यमेव सत्यत्वमिव यातं कथं भवेत् ॥९॥श्रीवसिष्ठ उवाच ।शृणु स्वप्नमयान्येव कथं सन्ति जगन्त्यलम् ।नान्यानि न च सत्यानि न स्थिराणि स्थितानि च ॥१०॥अनुभूतानि बीजानि बीजराशाविवाम्वरे ।अन्यान्यन्यानि तान्येव समानि न समानि च ॥११॥प्रत्येकमन्तरन्यानि तथैवाभ्युदितानि च ।परस्परमदृष्टानि बहूनि विविधानि च ॥१२॥अन्योन्यं तानि सर्वाणि न पश्यन्त्येव किंचन ।जडानीवैकराशीनि बीजानीव गलन्त्यपि ॥१३॥व्योमात्मत्वान्न गगनं न विदन्ति परस्परम् ।अपि चेतनरूपाणि सुप्तानीव निरन्तरम् ॥१४॥सुप्ताः स्वप्नजगज्जालमहनि व्यवहारिणः ।असुरा निहता देवैस्ते स्वप्नजगति स्थिताः ॥१५॥अज्ञानान्न गता मुक्तिं न जाड्याज्जडतामिताः ।न देहवन्तः किं सन्तु विना स्वप्नजगत्स्थितेः ॥१६॥सुप्ताः स्वप्नजगज्जाले स्वाचारव्यवहारिणः ।पुरुषा निहताः पुंभिस्ते तथैव व्यवस्थिताः ॥१७॥निर्मोक्षा निःशरीरास्ते चेतनावासनान्विताः ।दृष्टं स्वप्नजगज्जालं विना च क्व वसन्तु ते ॥१८॥सुप्ताः स्वप्नजगज्जालव्यवस्थाचारचारिणः ।ये हता राक्षसा देवैस्ते यथैव व्यवस्थिताः ॥१९॥एवं ये निहता राम किं ते कुर्वन्ति कथ्यताम् ।अज्ञत्वान्न गता मुक्तिं चेतनान्न दृषत्स्थिताः ॥२०॥साद्र्यब्ध्युर्वीजनं दृश्यमिदं सर्वं यथास्थितम् ।चिरायानुभवन्त्येते यथेमे वयमादृताः ॥२१॥तेषां कल्पजगत्संस्था यथास्माकं तथैव ताः ।अस्माकं जगतीसंस्था यथा तेषां तथैव च ॥२२॥एतेषां स्वप्नपुरुषास्त एवेमे वयं स्थिताः ।ये च ते नाम संसारास्तेभ्य एकमिमं विदुः ॥२३॥ते स्वप्नपुरुषास्तेषां सत्या एवानुभूतितः ।आत्मनोऽपि परस्यापि सर्वगत्वाच्चिदात्मनः ॥२४॥यथा ते स्वप्नपुरुषाः सत्यमात्मन्यथाऽपरे ।तथापि स्वप्नपुरुषाः सत्यमेव तथैव ते ॥२५॥स्वस्वप्नपुरपौरा ये त्वया दृष्टास्तथैव ते ।स्थितास्तत्र तथाद्यापि ब्रह्म सर्वात्मकं यतः ॥२६॥प्रबोधेऽपि हि भिद्यन्ते स्वप्नभावा यथा स्थिताः ।तथा स्थित्यानुभूयन्ते परब्रह्मतयाथवा ॥२७॥सर्वं सर्वात्म सर्वत्र सर्वदास्ति तथा परे ।यथा न किंचिन्नाकाशे न क्वचिन्न च हन्यते ॥२८॥निरन्तरे पराकाशे निरन्ते च विनोदये ।निरन्ते चित्तसंघाते निरन्ते जगतां गणे ॥२९॥प्रत्याकाशकलाकोशं प्रतिसंसारमण्डलम् ।प्रतिलोकान्तराकारं प्रतिद्वीपं गिरिं प्रति ॥३०॥प्रतिमण्डलविस्तारं प्रतिग्रामं पुरं प्रति ।प्रतिजन्तु प्रतिगृहं प्रतिवर्षं युगं प्रति ॥३१॥यावन्तो ये मृताः केचिज्जीवा मोक्षविवर्जिताः । स्थितास्ते तत्र तावन्तः संसाराः पृथगक्षयाः ॥३२॥तेषामन्तर्जनाः सन्ति जनं प्रति पुनर्मनः ।पुनर्मनः प्रति जगज्जगत्प्रति पुनर्जनः ॥३३॥इत्थमाद्यन्तरहित एष दृश्यमयो भ्रमः ।ब्रह्मैव ब्रह्मवित्पक्षे नात्रेयत्तास्ति काचन ॥३४॥कुड्ये नभस्युपलके सलिले स्थलेऽन्तश्चिन्मात्रमस्ति हि यतस्तदशेषविश्वम् ।तद्यत्र तत्र जगदस्ति कुतोऽत्र संख्यातज्ज्ञेषु तत्परमथाज्ञमनःसु दृश्यम् ॥३५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ० पा० जगत्तत्त्वैक्यप्रतिपादननाम त्रिषष्टितमः सर्गः ॥६३॥ N/A References : N/A Last Updated : September 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP