संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः २०८

निर्वाणप्रकरणं - सर्गः २०८

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
शुभाशुभं यथोदेति प्रजानां गृहसंगमे ।
असंबद्धैरप्रतिघैर्दूरस्थैस्तदिदं श्रृणु ॥१॥
ब्रह्मसंकल्पनगरं जगत्तावदिदं स्थितम् ।
यद्दृश्यं दृश्यबोधेन ब्रह्मैव ब्रह्मबोधतः ॥२॥
यद्यत्संकल्पनगरे यदा संकल्प्यते यथा ।
तथानुभूयते तत्तत्तादृग्विरचनं तदा ॥३॥
एवमस्मिन्गृहे याते संपन्नैवमियं प्रजा ।
एवं संकल्पसंपन्ने जगत्येवं भवत्यलम् ॥४॥
एतत्स्वसंकल्पपुरे यादृशं ते तथा स्थितम् ।
यथा संकल्पयसि यत्तत्तथा किल पश्यसि ॥५॥
यथैव वरशापाभ्यां शुद्धसंविदवाप्यते ।
संवित्तथैव भवति ब्राह्ममेवेति कल्पनम् ॥६॥
प्रजाविधिनिषेधाभ्यामेकयाऽऽस्थाव्यवस्थया ।
तथैव फलमाप्नोति ब्राह्ममेवेति कल्पनम् ॥७॥
देहिनो ये जगत्यस्मिंस्तान्प्रत्यनुपलम्भतः ।
असदासीज्जगत्पूर्वं सत्यमित्युपलभ्यते ॥८॥
चिद्रूपब्रह्मसंकल्पवशादेवैतदङ्ग सत् ।
चिदुन्मेषनिमेषौ यौ तावेतौ प्रलयोदयौ ॥९॥
राजोवाच ।
किं नोपलभ्यते पूर्वं किं पश्चादुपलभ्यते ।
जगच्चलद्वपुरिदं सुस्थिरारम्भभास्वरम् ॥१०॥
श्रीवसिष्ठ उवाच ।
अस्मिंश्चिद्व्योमसंकल्पपुरस्थे भाव ईदृशः ।
यद्भूत्वा न भवत्येव पुनर्भवति च क्षणात् ॥११॥
बालसंकल्पपुरवद्व्योमकेशोण्ड्रकादिवत् ।
किलैते सदसद्रूपा भान्ति सर्गाश्चिदात्मनि ॥१२॥
त्वं संकल्पपुरं कृत्वा विनाशयसि तत्क्षणात् ।
स्वतोऽन्यसंविद्वशतः स्वस्वभावः स ते यथा ॥१३॥
चिद्व्योमकल्पनपुरे यदुन्मज्जनमज्जनम् ।
स्वभावकचनं तस्य तद्विद्धि विमलं तथा ॥१४॥
संविद्धनस्त्वनाद्यन्तव्योमैव त्रिजगन्नभः ।
तेनासावद्य यन्नाम करोत्यपि च चेतति ॥१५॥
तदनावरणस्यास्य योजनानां शतेष्वपि ।
युगैरपि स्वप्न इव कार्यकृद्वर्तमानवत् ॥१६॥
किल देशान्तरे नित्यमथ लोकान्तरेऽपि च ।
निरावृतो य एकात्मा स किं नाम न चेतति ॥१७॥
यथा मणौ प्रकचति प्रोन्मज्जननिमज्जने ।
परावर्तः स्वभासास्य चिन्मणौ जगतां तथा ॥१८॥
विधीनां प्रतिषेधानां लोकसंस्थाप्रयोजनम् ।
सैव संविदि रूढत्वात्प्रेत्यापि फलदा स्थिता ॥१९॥
न कदाचन यात्यस्तमुदेति न कदाचन ।
ब्रह्म ब्रह्मचिदाभानं सर्वदात्मन्यवस्थितम् ॥२०॥
यथा तु द्रष्टृदृश्यत्वात्कल्पना कल्पनापुरम् ।
स्वयं जगदिवाभाति जातमित्युच्यते तथा ॥२१॥
यदा स्वभावात्कचनं संहृत्यात्मनि तिष्ठति ।
ब्रह्मचिद्गगनैकात्मा शान्त इत्युच्यते तथा ॥२२॥
कचनाकचने यस्य स्वभावो निर्मलोऽक्षयः ।
यथैतावात्मनो नान्यौ स्पन्दास्पन्दौ नभस्वतः ॥२३॥
जरामरणहन्तृणि क्षणान्यत्र पृथक्पृथक् ।
भवन्त्विति यथैतानि सन्ति त्वत्कल्पनापुरे ॥२४॥
ब्रह्मसंकल्पनगरे स्वभावा उदितास्तथा ।
ओषधीनां पदार्थानां सर्वेषां च जगत्त्रये ॥२५॥
न संकल्पयिता राजन्संकल्पनगरे स्वयम् ।
तृणं तृणं कल्पयति बालः क्रीडनकानिव ॥२६॥
स्वयं स्वभाव एवैष चिद्धनस्यास्य सुस्फुटम् ।
यद्यत्संकल्पयत्याशु तत्र तेऽवयवा अपि ॥२७॥
चिदात्मकतया भान्ति नानात्मकतयात्मना ।
अप्येकसारास्तिष्ठन्ति नानाकारस्वभावगाः ॥२८॥
प्रत्येकं किल तत्रास्ति ब्रह्मचिन्मात्रतात्मनि ।
सर्वात्मिका सा यत्रास्ते यथान्तर्भाति तत्तथा ॥२९॥
अनादिमध्यान्तमनन्तवीर्यं
किंचिन्न किंचिच्च सदप्यसत्यम् ।
स्थितं यथा यत्र तदात्म तत्र
सर्वात्मभूर्भूततृणादिजातौ ॥३०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० महाप्रश्नमोक्षणो नामाष्टोत्तरद्विशततमः सर्गः ॥२०८॥

N/A

References : N/A
Last Updated : October 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP