संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
एकचत्वारिंशत्तमोऽध्यायः

पूर्वभागः - एकचत्वारिंशत्तमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


सूत उवाच
अतः परं प्रवक्ष्यामि संक्षेपेण द्विजोत्तमाः ।
त्रैलोक्यस्यास्य मानं वो न शक्यं विस्तरेण तु ॥४१.१

भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महस्ततः ।
जनस्तपश्च सत्यं च लोकास्त्वण्डोद्भवा मताः ॥४१.२

सूर्याचन्द्रमसौ यावत् किरणैरेवभासतः ।
तावद् भूर्लोक आख्यातः पुराणे द्विजपुंगवाः ॥४१.३

यावत्‌प्रमाणो भूर्लोको विस्तरात् परिमण्डलात् ।
भुवर्लोकोऽपि तावान्‌स्यान्मण्डलाद् भास्करस्य तु ॥४१.४

ऊर्ध्वंयन्मण्डलं व्योम्निध्रुवोयावद्‌व्यवस्थितः ।
स्वर्लोकः समाख्यातस्तत्र वायोस्तु नेमयः ॥४१.५

आवहः प्रवहश्चैव तथैवानुवहः पुनः ।
संवहो विवहश्चाथ तदूर्ध्वं स्यात् परावहः ॥४१.६

तथा परिवहश्चोर्ध्वं वायोर्वै सप्त नेमयः ।
भूमेर्योजनलक्षे तु भानोर्वै मण्डलं स्थितम् ॥४१.७

लक्षे दिवाकरस्यापि मण्डलं शशिनः स्मृतम् ।
नक्षत्रमण्डलं कृत्स्नं तल्लक्षेण प्रकाशते ॥४१.८

द्वेलक्षे ह्युत्तरे विप्रा बुधो नक्षत्रमण्डलात् ।
तावत्‌प्रमाणभागे तु बुधस्याप्युशनाः स्थितः ॥४१.९

अङ्गारकोऽपि शुक्रस्य तत्प्रमाणो व्यवस्थितः ।
लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः ॥४१.१०

सौरिर्द्विलक्षेण गुरोर्ग्रहाणामथ मण्डलात् ।
सप्तर्षिमण्डलं तस्माल्लक्षमात्रे प्रिकाशते ॥४१.११

ऋषीणां मण्डलादूर्ध्वं लक्षमात्रे स्थितो ध्रृवः ।
मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ।
तत्र धर्मः स भगवान् विष्णुर्नारायणः स्थितः ॥४१.१२

नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः ।
त्रिगुणस्तस्य विस्तारो मण्डलस्य प्रमाणतः ॥४१.१३

द्विगुणस्तस्य विस्ताराद् विस्तारः शशिनः स्मृतः ।
तुल्यस्तयोस्तु स्वर्भानुर्भूत्वा तानुपसर्पति ॥४१.१४

उद्धृत्य पृथिवीच्छायां निर्मितो मण्डलाकृतिः ।
स्वर्भानोस्तु वृहत् स्थानं तृतीयं यत् तमोमयम् ॥४१.१५

चन्द्रस्य षोडशो भागो भार्गवस्य विधीयते ।
भार्गवात् पादहीनस्तु विज्ञेयो वै बृहस्पतिः ॥४१.१६

बृहस्पतेः पादहीनौ भौमसौरावुभौ स्मृतौ ।
विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः ॥४१.१७

तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै ।
बुधेन तानि तुल्यानि विस्तारान्मण्डलात् तथा ॥४१.१८

तारानक्षत्ररूपाणि हीनानि तु परस्परम् ।
शतानि पञ्च चत्वारि त्रईणि द्वे चैव योजने ॥४१.१९

पूर्वापरानुकृष्टानि तारकामण्डलानि तु ।
योजनान्यर्द्धमात्राणि तेभ्यो ह्रस्वं न विद्यते ॥४१.२०

उपरिष्टात् त्रयस्तेषां ग्रहा ये दूरसर्पिणः ।
सौरोऽङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः ॥४१.२१

तेभ्योऽधस्ताच्च चत्वारः पुनरन्ये महाग्रहाः ।
सूर्यः सौमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥४१.२२

दक्षिणायनमार्गस्थो यदा चरति रश्मिमान् ।
तदा पूर्वग्रहाणां वै सूर्योऽधस्तात् प्रसर्पति ॥४१.२३

विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं चरते शशी ।
नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ॥४१.२४

नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधादूर्ध्वं तु भार्गवः ।
वक्रस्तु भार्गवादूर्ध्वं वक्रादूर्ध्वं बृहस्पतिः ॥४१.२५

तस्माच्छनैश्चरोऽपुयूर्ध्वं तस्मात् सप्तर्षिमण्डलम् ।
ऋषीणां चैव सप्तानां ध्रृवश्चोर्ध्वं व्यवस्थितः ॥४१.२६

योजनानां सहस्राणि भास्करस्य रथो नव ।
ईषादण्डस्तथैव स्याद् द्विगुणो द्विजसत्तमाः ॥४१.२७

सार्द्धकोटिस्तथा सप्त नियुतान्यधिकानि तु ।
योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ॥४१.२८

त्रिनाभिमति पञ्चारे षण्‌णेमिन्यक्षयात्मके ।
संवत्सरमयं कृत्स्नं कालचक्रं प्रतिष्ठितम् ॥४१.२९

चत्वारिंशत् सहस्राणि द्वितीयाक्षो व्यवस्थितः ।
पञ्चान्यानि तु सार्द्धानि स्यन्दनस्य द्विजोत्तमाः ॥४१.३०

अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयोः ।
ह्रस्वोऽक्षस्तद्युगार्द्धेन ध्रुवाधारो रथस्य तु ॥४१.३१

द्वितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले ।
हयाश्च सप्त छन्दांसि तन्नामानि निबोधत ॥४१.३२

गायत्री च बृहत्युष्णिक् जगती पङ्‌क्तिरेव च ।
अनष्टुप्‌ त्रिष्टुबप्युक्ता श्छन्दांसि हरयो हरेः ॥४१.३३

मानसोपरि माहेन्द्री प्राच्यां दिशि महापुरी ।
दक्षिणायां यमस्याथ वरुणस्य तु पश्चिमे ॥४१.३४

उत्तरेषु च सोमस्य तन्नामानि निबोधत ।
अमरावती संयमनी सुखा चैव विभावरी ॥४१.३५

काष्ठा गतो दक्षिणतः क्षिप्तेषुरिव सर्पति ।
ज्योतिषां चक्रमादाय देवदेवः प्रजापतिः ॥४१.३६

दिवसस्य रविर्मध्ये सर्वकालं व्यवस्थितः ।
सप्तद्वीपेषु विप्रेन्द्रा निशामध्यस्य संमुखः ॥४१.३७

उदयास्तमने चैव सर्वकालं तु संमुखे ।
अशेषासु दिशास्वेव तथैव विदिशासु च ॥४१.३८

कुलालचक्रपर्यन्तो भ्रमत्येष यथेश्वरः ।
करोत्यहस्तथा रात्रिं विमुञ्चन् मेदिनीं द्विजाः ॥४१.३९

दिवाकरकरैरेतत् पूरितं भुवनत्रयम् ।
त्रैलोक्यं कथितं सद्भिर्लोकानां मुनिपुंगवाः ॥४१.४०

आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः ।
भवत्यस्मात् जगत् कृत्स्नं सदेवासुरमानुषम् ॥४१.४१

रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्राणां दिवौकसाम् ।
द्युतिर्द्युतिमतां कृत्स्नं यत्तेजः सार्वलौकिकम् ॥४१.४२

सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः ।
सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥४१.४३

द्वादशान्ये तथादित्या देवास्ते येऽधिकारिणः ।
निर्वहन्ति वदन्त्यस्य तदंशा विष्णुमूर्तयः ॥४१.४४

सर्वे नमस्यन्ति सहस्रभाहुं
गन्धर्वयक्षोरगकिन्नराद्याः ।
यजन्ति यज्ञैर्विविधैर्द्विजेन्द्रा-
श्छन्दोमयं ब्रह्ममयं पुराणम् ॥४१.४५

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितार्या पूर्वविभागे एकचत्वारिंशोऽध्यायः ॥ ४१ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP