संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
तृतीयोऽध्यायः

पूर्वभागः - तृतीयोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


ऋषयः ऊचुः
वर्णा भगवतोद्दिष्टाश्चत्वारोऽप्याश्रमास्तथा ।
इदानीं क्रममस्माकमाश्रमाणां वद प्रभो ॥३.१

श्रीकूर्म उवाच
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
क्रमेणैवाश्रमाः प्रोक्ताः कारणादन्यथा भवेत् ॥३.२

उत्पन्नज्ञानविज्ञानी वैराग्यं परमं गतः ।
प्रव्रजेद् ब्रह्मचर्यात्तु यदिच्छेत् परमां गतिम् ॥३.३

दारानाहृत्य विधिवदन्यथा विविधैर्मखैः ।
यजेदुत्पादयेत् पुत्रान् विरक्तो यदि संन्यसेत् ॥३.४
अनिष्ट्वा विधिवद् यज्ञैरनुत्पाद्य तथात्मजान् ।
न गार्हस्थं गृहीत्यक्त्वा संन्यसेद् बुद्धिमान् द्विजः ॥३.५

अथ वैराग्यवेगेन स्थातुं नोत्सहते गृहे ।
तत्रैव संन्यसेद् विद्वाननिष्ट्वाऽपि द्विजोत्तमः ॥३.६

अन्यथा विविधैर्यज्ञैरिष्ट्वा वनमथाक्षयेत् ।
तपस्तप्त्वा तपोयोगाद् विरक्तः संन्यसेद् यदि ॥३.७

वानप्रस्थाश्रमं गत्वा न गृहं प्रविशेत् पुनः ।
न संन्यासी वनञ्चाथ ब्रह्माचर्यानु साधकः ॥३.८

प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा द्विजः ।
प्रव्रजेत्तु गृही विद्वान् वनाद्वा श्रुतिचोदनात् ॥३.९

प्रकर्त्तुमसमर्थोऽपि जुहोतियजतिक्रियाः ।
अन्धः पङ्‌गुर्दरिद्रो वा विरक्तः संन्यसेद् द्विजः ॥३.१०

सर्वेषामेव वैराग्यं संन्यासाय विधीयते ।
पतत्येवाविरक्तो यः संन्यासं कर्तुमिच्छति ॥३.११

एकस्मिन्नथवा सम्यग् वर्तेतामरणाद्विजाः ।
श्रद्धावनाश्रमे युक्तः सोऽमृतत्वाय कल्पते ॥३.१२

न्यायागतधनः शान्तो ब्रह्मविद्यापरायणः ।
स्वधर्मपालको नित्यं ब्रह्मभूयाय कल्पते ॥३.१३

ब्रह्मण्याधाय क्रर्माणि निःसङ्गः कामवर्जितः ।
प्रसन्नेनैव मनसा कुर्वाणो याति तत्पदम् ॥३.१४

ब्रह्मणा दीयते देयं ब्रह्मणे संप्रदीयते ।
ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ॥३.१५

नाहं कर्ता सर्वमेतद् ब्रह्मैव कुरुते तथा ।
एतद् ब्रह्मार्पणं प्रोक्तमृषिभिः तत्त्वदर्शिभिः ॥३.१६

प्रीणातु भगवानीशः कर्मणाऽनेन शाश्वतः ।
करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम् ॥३.१७

यद्वा फलनां संन्यासं प्रकुर्यात् परमेश्वरे ।
कर्मणामेतदप्याहुः ब्रह्मार्पणमनुत्तमम् ॥३.१८

कार्यमित्येव यत्कर्म नियतं सङ्गवर्जितम् ।
क्रियते विदुषा कर्म तद्भवेदपि मोक्षदम् ॥३.१९

अन्यथा यदि कर्माणि कुर्यान्नित्यान्यपि द्विजः ।
अकृत्वा फलसंन्यासं बध्यते तत्फलेन तु ॥३.२०

तस्मात् सर्वप्रयत्नेन त्यक्त्वा कर्माश्रितं फलम् ।
अविद्वानपि कुर्वीत कर्माप्नोतिचिरात् पदम् ॥३.२१

कर्मणा क्षीयते पापमैहिकं पौर्विकं तथा ।
मनः प्रसादमन्वेति ब्रह्मविज्ञायते ततः ॥३.२२

कर्मणा सहिताज्ज्ञानात्सम्यग् योगोऽभिजायते ।
ज्ञानं च कर्मसहितं जायते दोषवर्जितम् ॥३.२३

तस्मात् सर्वप्रयत्नेन यत्र तत्राश्रमे रतः ।
कर्माणीश्वरतुष्ट्यर्थं कुर्यान्नैष्कर्म्यमाप्नुयात् ॥३.२४

संप्राप्य परमं ज्ञानं नैष्कर्म्यं तत्प्रसादतः ।
एकाकी निर्ममः शान्तो जीवन्नेव विमुच्यते ॥३.२५

वीक्षते परमात्मानं परं ब्रह्म महेश्वरम् ।
नित्यानन्दं निराभासंय तस्मिन्नेव लयं व्रजेत् ॥३.२६

तस्मात् सेवेत सततं कर्मयोगं प्रसन्नधीः ।
तृप्तये परमेशस्य तत् पदं याति शाश्वतम् ॥३.२७

एतद्वः कथितं सर्वं चातुराश्रम्यमुत्तमम् ।
न ह्येतत् समतिक्रम्य सिद्धिं विन्दति मानवः ॥३.२८

इति श्रीकूर्मपुराणे चातुराश्रम्यकथनं नाम षट्‌साहस्त्र्यां संहितायां पूर्वविभागे तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP