संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
द्विपञ्चाषत्तमोऽध्यायः

पूर्वभागः - द्विपञ्चाषत्तमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


सूत उवाच ।
अस्मिन् मन्वन्तरे पूर्वं वर्त्तमाने महान् विभुः ।
द्वापरे प्रथमे व्यासो मनुः स्वायंभुवो मतः ॥५२.१

बिभेद बहुधा वेदं नियोगाद् ब्रह्मणः प्रभोः ।
द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः ॥५२.२

तृतीये चोशना व्यासश्चतुर्थे स्याद् बृहस्पतिः ।
सविता पञ्चमे व्यासः षष्ठे मृत्युः प्रकीर्त्तितः ॥५२.३

सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे मतः ।
सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः ॥५२.४

एकादशे तु ऋषभः सुतेजा द्वादशे स्मृतः ।
त्रयोदशे तथा धर्मः सुचक्षुस्तु चतुर्दशे ॥५२.५

त्रय्‌यारुणिर्वै पञ्चदशे षोडशे तु धनंजयः ।
कृतंजयः सप्तदशे ह्यष्टादशे ऋतंजयः ॥५२.६

ततो व्यासो भरद्वाजस्तस्मादूर्ध्वं तु गौतमः ।
वाचश्रवाश्चैकविंशेस्तस्माच्छुष्मायणः परः ॥५२.७

तृणबिन्दुस्त्रयोविंशे वाल्मीकिस्तत्परः स्मृतः ।
पञ्चविशे तथा प्राप्ते यस्मिन् वै द्वापरे द्विजाः ॥५२.८

सप्तविंशे तथा व्यासो जातूकर्णो महामुनिः ।
अष्टाविंशे पुनः प्राप्ते ह्यस्मिन् वै द्वापरे द्विजाः ।
पराशरसुतो व्यासः कृष्णद्वैपायनोऽभवत् ।
स एव सर्ववेदानां पुराणानां प्रदर्शकः ॥५२.९

पाराशर्यो महायोगी कृष्णद्वैपायनो हरिः ।
आराध्य देवमीशानं दृष्ट्वा साम्बं त्रिलोचनम् ॥५२.१०

तत्प्रसादादसौ व्यासं वेदानामकरोत् प्रभुः ॥५२.११

अथ शिष्यान् प्रिजग्राह चतुरो वेदपारगान् ।
जैमिनिं च सुमन्तुं च वैशम्पायनमेव च ॥५२.१२

पैलं तेषां चतुर्थं च पञ्चमं मां महामुनिः ।
ऋग्वेदश्रावकं पैलं जग्राह स महामुनिः ॥५२.१३

यजुर्वेदप्रवक्तारं वैशम्पायनमेव च ।
जैमिनिं सामवेदस्य श्रावकं सोन्वपद्यत ॥५२.१४

तथैवाथर्ववेदस्य सुमन्तुमृषिसत्तमम् ।
इतिहासपुराणानि प्रवक्तुं मामयोजयत् ॥५२.१५

एक आसीद्यजुर्वेदस्तं चतुर्द्धा व्यकल्पयत् ।
चातुर्होत्रमभूद् तस्मिंस्तेन यज्ञमथाकरोत् ॥५२.१६

आध्वर्यवं यजुर्भिः स्यादृग्निहोत्रं द्विजोत्तमाः ।
औद्‌गात्रं सामभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः ॥५२.१७

ततः सत्रेच उद्‌धृत्य ऋग्वेदं कृतवान् प्रभुः ।
यजूंषि च यजुर्वेदं सामवेदं च सामभिः ॥५२.१८

एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा ।
शाखानां तु शतेनैव यजुर्वेदमथाकरोत् ॥५२.१९

सामवेदं सहस्रेण शाखानां प्रबिभेद सः ।
अथर्वाणमथो वेदं बिभेद नवकेन तु ॥५२.२०

भेदैरष्टादशैर्व्यासः पुराणं कृतवान् प्रभुः ।
सोऽयमेकश्चतुष्पादो वेदः पूर्वं पुरातनः ॥५२.२१

ओङ्कारो ब्रह्मणो जातः सर्वदोषविशोधनः ।
वेदविद्यो ऽथ भगवान् वासुदेवः सनातनः ॥५२.२२

स गीयते परो वेदे यो वेदैनं स वेदवित् ।
एतत् परतरं ब्रह्म ज्योतिरानन्दमुत्तमम् ॥५२.२३
वेदवाक्योदितं तत्त्वं वासुदेवः परं पदम् ।
वेदविद्यमिमं वेत्ति वेदं वेदपरो मुनिः ॥५२.२४

अवेदं परमं वेत्ति वेदनिष्ठः सदेश्वरः ।
स वेदवेद्यो भगवान् वेदमूर्त्तिर्महेश्वरः ॥५२.२५

स एव वेदो वेद्यश्च तमेवाश्रित्य मुच्यते ।
इत्येदक्षरं वेद्यमोङ्कारं वेदमव्ययम् ।
अवेदं च विजानाति पाराशर्यो महामुनिः ॥५२.२६

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे द्वापञ्चाशोऽध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP