संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
पञ्चचत्वारिंशत्तमोऽध्यायः

पूर्वभागः - पञ्चचत्वारिंशत्तमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


सूत उवाच ।
एतद् ब्रह्माण्डमाख्यातं चतुर्दशविधं महत् ।
अतः परं प्रवक्ष्यामि भूर्लोकस्यास्य निर्णयम् ॥४५.१

जम्बुद्वीपः प्रधानोऽयं प्लक्षः शाल्मलिरेव च ।
कुशः क्रौञ्चश्च शाकश्च पुष्करश्चैव सप्तमः ॥४५.२

एते सप्त महाद्वीपाः समुद्रैः सप्तभिर्वृताः ।
द्वीपाद् द्वीपो महानुक्तः सागरादपि सागरः ॥४५.३

क्षारोदेक्षुरसोदश्च सुरोदश्च घृतोदकः ।
दध्योदः क्षीरसलिलः स्वादूदश्चेति सागराः ॥४५.४

पञ्चाशत्‌कोटिविस्तीर्णा ससमुद्रा धरा स्मृता ।
द्वीपैश्च सप्तभिर्युक्ता योजनानां समासतः ॥४५.५

जम्बूद्वीपः समस्तानां द्वीपानां मध्यतः शुभः ।
तस्य मध्ये महामेरुर्विश्रुतः कनकप्रभः ॥४५.६

चतुरशीतिसाहस्रो योजनैस्तस्य चोच्छ्रयः ।
प्रविष्टः षोडशाधस्ताद्‌द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥४५.७

मूले षोडशसाहस्रो विस्तारस्तस्य सर्वतः ।
भूपद्मस्यास्य शैलोऽसौ कर्णिकात्वेन संस्थितः ॥४५.८

हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे ।
नीलः श्वेतश्च श्रृङ्गी च उत्तरे वर्षपर्वताः ॥४५.९

लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथा परे ।
सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥४५.१०

भारतं दक्षिणं वर्षं ततः किंपुरुषं स्मृतम् ।
हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विजाः ॥४५.११

रम्यकं चोत्तरं वर्षं तस्यैवानु हिरण्मयम् ।
उत्तरे कुरवश्चैव यथैते भारतास्तथा ॥४५.१२

नवसाहस्रमेकैकमेतेषां द्विजसत्तमाः ।
इलावृतं च तन्मध्ये तन्मध्ये मेरुरुच्छ्रितः ॥४५.१३

मेरोश्चतुर्द्धशं तत्र नवसाहस्रविस्तृतम् ।
इलावृतं महाभागाश्चत्वारस्तत्र पर्वताः ॥४५.१४

विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः ।
पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥४५.१५

विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरः स्मृतः ।
कदम्बस्तेषु जम्बुश्च पिप्पलो वट एव च ॥४५.१६

जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्महर्षयः ।
महागजप्रमाणानि जम्ब्वास्तस्याः फलानि च ॥४५.१७

पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ।
रसेन तस्याः प्रख्याता तत्र जम्बूनदी गिरौ ॥४५.१८

सरित् प्रवर्त्तते चापि पीयते तत्र वासिभिः ।
न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः ॥४५.१९

तत्पानात् सुस्थमनसां नराणां तत्र जायते ।
तत्तीरमृद्रसं प्राप्य वायुना सुविशोषितम् ॥४५.२०

जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ।
भद्राश्वः पूर्वतो मेरोः केतुमालश्च पश्चिमे ॥४५.२१

वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये इलावृतम् ।
वनं चैत्ररथं पूर्वं दक्षिणे गन्धमादनम् ॥४५.२२

वैभ्राजं पश्चिमे विद्यादुत्तरे सवितुर्वनम् ।
अरुणोदं महाभद्रमसितोदं च मानसम् ॥४५.२३

सरांस्येतानि चत्वारि देवयोग्यानि सर्वदा ।
सितान्तश्च कुमुद्वांश्च कुरुरी माल्यवांस्तथा ॥४५.२४

वैकङ्को मणिशैलश्च वृक्षवांश्चाचलोत्तमाः ।
महानीलोऽथ रुचकः सबिन्दुर्मन्दरस्तथा ॥४५.२५

वेणुमांश्चैव मेघश्च निषधो देवपर्वतः ।
इत्येते देवरचिताः सिद्धावासाः प्रकीर्त्तिताः ॥४५.२६

अरुणोदस्य सरसः पूर्वतः केसराचलः ।
त्रिकूटशिखरश्चैव पतङ्गो रुचकस्तथा ॥४५.२७

निषधो वसुधारश्च कलिङ्गस्त्रिशिखः शुभः ।
समूलो वसुधारश्च कुरवश्चैव सानुमान् ॥४५.२८

ताम्रातश्च विशालश्च कुमुदो वेणुपर्वतः ।
एकश्रृङ्गो महाशैलो गजशैलः पिशाचकः ॥४५.२९

पञ्चशैलोऽथ कैलासो हिमवांशचाचलोत्तमः ।
इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः ॥४५.३०

महाभद्रस्य सरसो दक्षिणे केसराचलः ।
शिखिवासश्च वैदूर्यः कपिलो गन्धमादनः ॥४५.३१

जारुधिश्च सुगन्धिश्च श्रीश्रृङ्गश्चाचलोत्तमः ।
सुपार्श्वश्च सुपक्षश्च कङ्कः कपिल एव च ॥४५.३२

पिञ्जरो भद्रशैलश्च सुसशश्च महाबलः ।
अञ्जनो मधुमांस्तद्वत् चित्रश्रृड्गो महालयः ॥४५.३३

सहस्रशिखरश्चैव पाण्डुरः कृष्ण एव च ।
पारिजातो महाशैलस्तथैव कपिलोदर ॥४५.३४

सुषेणः पुण्डरीकश्च महामेघस्तथैव च ।
एते पर्वतराजानः सिद्धगन्धर्वसेविताः ॥४५.३५

असितोदस्य सरसः पश्चिमे केसराचलः ।
शङ्खकूटोऽथ वृषभो हंसो नागस्तथैव च ॥४५.३६

कालाञ्जनः शुक्रशैलो नीलः कमल एव च ।
पारिजातो महाशैल शैलः कनक एव च ॥४५.३७

पुष्पकश्च सुमेघश्च वाराहो विरजास्तथा ।
मयूरः कपिलश्चैव महाकपिल एव च ॥४५.३८

इत्येते देवगन्धर्वसिद्धसङ्घनिषेविताः ।
सरसो मानसस्येह उत्तरे केसराचलाः ॥४५.३९

एतेषां शैलमुख्यानामन्तरेषु यथाक्रमम् ।
सन्ति चैवान्तरद्रोण्यः सरांसि च वनानि च ॥४५.४०

वसन्ति तत्र मुनयः सिद्धाश्च ब्रह्मभाविताः ।
प्रसन्नाः शान्तरजसः सर्वदुः खविवर्जिताः ॥४५.४१

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां सहितायां पूर्वविभागे पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP