संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
सप्तमोऽध्यायः

पूर्वभागः - सप्तमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


श्रीकूर्म उवाच ।
सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा ।
अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः ॥७.१

तमोमोहो महामोहस्तामिस्त्रश्चान्धसंज्ञितः ।
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥७.२

पञ्चधा।
वस्थितः सर्गो ध्यायतः सोऽभिमानिनः ।
संवृतस्तमसा चैव बीजकुम्भवदावृतः ॥७.३

बहिरन्तश्चाप्रकाशः स्तब्धो निःसंग एव च ।
मुक्या नगा इति प्रोक्ता मुख्यसर्गस्तु स स्मृतः ॥७.४

तं दृष्ट्वाऽसाधकं सर्गममन्यदपरं प्रभुः ।
तस्याभिध्यायतः सर्गंस्तिर्यक्‌स्रोतोऽभ्यवर्तत ॥७.५

यस्मात् तिर्यक् प्रवृत्तः स तिर्यक्‌स्रोतः ततः स्मृतः ।
पश्वादयस्ते विख्याता उत्पथग्राहिणो द्विजाः ॥७.६

तमप्यसाधकं ज्ञात्वा सर्गमन्यं ससर्ज ह ।
ऊर्ध्वस्रोत इति प्रोक्तो देवसर्गस्तु सात्त्विकः ॥७.७

ते सुखप्रीतिबहुला बहिरन्तस्त्वनावृताः ।
प्रकाशा बहिरन्तश्च स्वभावाद् देवसंज्ञिताः ॥७.८

ततोऽबिधायायतस्तस्य सत्याभिध्यायिनस्तदा ।
प्रादुरासीत् तदाऽव्यक्तादर्वाक्‌स्रोतस्तु साधकः ॥७.९

तत्र प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः ।
दुःखोत्कटाः सत्त्वयुता मनुष्याः परिकीर्तिता ॥७.१०

तं दृष्ट्वा चापरं सर्गममन्यद् भगवानजः ।
तस्याभिध्यायतः सर्गं सर्गो भूतादिकोऽभवत् ॥७.११

त परिग्राहिणः सर्वे संविभागरताः पुनः।
स्वादिनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः ॥७.१२

इत्येते पञ्च कथिताः सर्गा वै द्विजपुंगवाः ॥
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः ॥७.१३

तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः ॥
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ॥७.१४

इत्येष प्राकृतः सर्गः संभूतोऽबुद्धिपूर्वकः ॥
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥७.१५

तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योन्यः स पञ्चमः ॥
तथोर्ध्स्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ॥७.१६

ततोऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषु ॥
अष्टमो भौतिकः सर्गो भूतादीनां प्रकीर्तितः ॥७.१७

नवमश्चैव कौमारः प्राकृता वैकृतास्त्विमे ॥
प्राकृतास्तु त्रयः पूर्वे सर्गास्ते बुद्धिपूर्वकाः ॥७.१८

बुद्धिपूर्वं प्रवर्त्तन्ते मुख्याद्या मुनिपुंगवाः ॥
अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् ॥७.१९

सनकं सनातनं चैव तथैव च सनन्दनम् ।
ऋभुं सनात्कुमारं च पूर्वमेव प्रजापतिः ॥७.२०

पञ्चैते योगिनो विप्राः परं वैराग्यमाश्रिताः ।
ईश्वरासक्तमनसो न सृष्टौ दधिरे मतिम् ॥७.२१

तेष्वेवं निरपेक्षेषु लोकसृष्टौ प्रजापतिः ।
मुमोह मायया सद्यो मायिनः परमेष्ठिनः ॥७.२२

तं बोधयामास सुतं जगन्मायो महामुनिः ।
नारायणो महायोगी योगिचित्तानुरञ्जनः ॥७.२३

बोधितस्तेन विश्वात्मा तताप परमं तपः ।
स तप्यमानो भगवान् न किञ्चित् प्रतिपद्यत ॥७.२४

ततो दीर्घेण कालेन दुखात् क्रोधोऽभ्यजायत ।
क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥७.२५

भ्रुकुटीकुटिलात् तस्य ललाटात् परमेष्टिनः ।
समुत्पन्नो महादेवः शरण्यो नीललोहितः ॥७.२६

स एव भगवानीशस्तेजोराशिः सनातनः ।
यं प्रपश्यन्ति विद्वांसः स्वात्मस्थं परमेश्वरम् ॥७.२७

ओंकारं समनुस्मृत्य प्रणम्य च कृताञ्जलिः ।
तमाह भगवान् ब्रह्मा सृजेमा विविधाः प्रजाः ॥७.२८

निशम्य भगवान् वाक्यं शंकरो धर्मवाहनः ।
स्वात्मना सद्‌शान् रुद्रान् ससर्ज मनसा शिवः ।
कपर्दिनो निरातङ्कांस्त्रिनेत्रान् नीललोहितान् ॥७.२९

तं प्राह भगवान् ब्रह्मा जन्ममृत्युयुताः प्रजाः ।
सृजेति सोऽब्रवीदीशो नाहं मृत्युजरान्विताः ॥७.३०

प्रजाः स्त्रक्ष्ये जगन्नाथ सृज त्वमशुभाः प्रजाः ॥
निवार्य स तदा रुद्रं ससर्ज कमलोद्भवः ॥७.३१

स्थानाभिमानिनः सर्वान् गदतस्तान् निबोधत ॥
अपोऽग्निरन्तरिक्षं च द्यौर्वायुः पृथिवी तथा ॥७.३२

नद्यः समुद्राः शैलाश्च वृक्षा वीरुध एव च ॥
लवाः काष्ठाः कलाश्चैव मुहूर्ता दिवसाः क्षपाः ॥७.३३

अर्द्धमासाश्च मासाश्च अयनाब्दयुगादयः ॥
स्थानाबिमानिनः सृष्ट्वा साधकानसृजत् पुनः ॥७.३४

मरीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् ।
दक्षमत्रिं वसिष्ठं च धर्मं संकल्पमेव च ॥७.३५

प्राणाद् ब्रह्माऽसृजद् दक्षं चक्षुषश्च मरीचिनम् ।
शिरसोऽङ्गिरसं देवो हृदयाद् भृगुमेव च ॥७.३६

नेत्राभ्यामत्रिनामानं धर्मं च व्यवसायतः ।
संकल्पं चैव संकल्पात् सर्वलोकपितामहः ॥७.३७

पुलस्त्यं च तथोदानाद् व्यानाच्च पुलहं मुनिम् ।
अपानात् क्रतुमव्यग्रं समानाच्च वसिष्ठकम् ॥७.३८

इत्येते ब्रह्मणा सृष्टाः साधका गृहमेधिनः ।
आस्थाय मानवं रूपं धर्मस्तैः संप्रवर्त्तितः ॥७.३९

ततो देवासुरपितृन् मनुष्यांश्च चतुष्टयम् ।
सिसृक्षुर्भगवानेतान् स्वमात्मानमयूयुजत् ॥७.४०

युक्तात्मनस्तमोमात्रा ह्युद्रिक्ताभूत् प्रजापतेः ।
ततोऽस्य जघनात् पूर्वमसुरा जज्ञिरे सुताः ॥७.४१

उत्ससर्जासुरान् सृष्ट्वा तां तनुं पुरुषोत्तमः ।
सा चोत्सृष्ट्रा तनुस्तेन सद्यो रात्रिरजायत ॥७.४२

सा तमोबहुला यस्मात् प्रजास्तस्यांस्वपन्त्यतः ॥
सत्त्वमात्रत्मिकां देवस्तनुमन्यामगृह्णत ॥७.४३

ततोऽस्य मुखतो देवा दीव्यतः संप्रजज्ञिरे ॥
त्यक्ता साऽपि तनुस्तेन सत्त्वप्रायमभूद् दिनम् ॥७.४४

तस्मादहो धर्मयुक्ता देवताः समुपासते ॥
सत्त्वमात्रात्मिकामेव ततोऽन्यां जगृहे तनुम् ॥७.४५

पितृवन्मन्यमानस्य पितरः संप्रजज्ञिरे ॥
उत्ससर्ज पितृन् सृष्ट्वा ततस्तामपि विश्वसृक् ॥७.४६

साऽपविद्धा तनुस्तेन सद्यः सन्ध्या व्यजायत ॥
तस्मादहर्देवतानां रात्रिः स्याद् देवविद्विषाम् ॥७,४७

तयोर्मध्ये पितॄणां तु मूर्तिः सन्ध्या गरीयसी ॥
तस्माद् देवासुराः सर्वे मुनयो मानवास्तथा ॥७.४८

उपासते तदा युक्ता रात्र्यह्नोर्मध्यमां तनुम् ॥
रजोमात्रात्मिकां ब्रह्मा तनुमन्यामगृह्णत ॥७.४९

ततोऽस्य जज्ञिरे पुत्रा मनुष्या रजसावृताः ॥
तामप्याशु स तत्याज तनुं सद्यः प्रजापतिः ॥७.५०

ज्योत्स्ना सा चाभवद्विप्राः प्राक्सन्ध्या याऽभिधीयते ॥
ततः स भगवान् ब्रह्मा संप्राप्य द्विजपुंगवाः ॥७.५१

मूर्ति तमोरजः प्रायां पुनरेवाभ्ययूयुजत् ॥
अन्धकारे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे ॥७.५२

पुत्रास्तमोरजः प्राया बलिनस्ते निशाचराः ॥
सर्पा यक्षास्तथा बूता गन्धर्वाः संप्रजज्ञिरे ॥७.५३

रजस्तमोभ्यामाविष्टांस्ततोऽन्यानसृजत् प्रभुः ॥
वयांसि वयसः सृष्ट्वा अवीन्वै वक्षसोऽसृजत् ॥७.५४

मुखतोऽजान् ससर्जान्यान् उदराद्‌गाश्चनिर्ममे ॥
पद्भ्यांचाश्वान् समातङ्गान् रासभान् गवयान् मृगान् ॥७.५५

उष्ट्रानश्वतरांश्चैव न्यङ्‌कूनन्यांश्व जातयः ।
ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे ॥७.५६

गायत्रं च ऋचश्चैव त्रिवृत्‌स्तोंम रथन्तरम् ।
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥७.५७

यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा ।
बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ॥७.५८

सामानि जागतं छन्दस्तोमं सप्तदशं तथा ।
वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात् ॥७.५९

एकविशमथर्वाणमाप्तोर्यामाणमेव च ।
अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात् ॥७.६०

उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ।
ब्रह्मणो हि प्रजासर्गं सृजतस्तु प्रजापतेः ॥७.६१

यक्षान् पिशाचान् गन्धर्वांस्तथैवाप्सरसः शुभाः।
सृष्ट्वा चतुष्टयं सर्गं दवर्षिपितृमानुषम् ॥७.६२

ततो सृजच्च भूतानि स्थावराणिचराणिच।
नरकिन्नररक्षांसि वयः पशुमृगोरगान् ॥७.६३

अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् ॥
तेषां ये यानि कर्माणि प्राक्‌सृष्टौ प्रतिपेदिरे ॥७.६४

तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ॥
हिंस्त्राहिंस्त्रे मृदुक्रूरे धर्माधर्मावृतानृते ॥७.६५

तद्भाविताः प्रपद्यन्ते तस्मात् तत्तस्य रोचते ॥
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु ॥७.६६

विनियोगं च भूतानां धातैव व्यदधात् स्वयम् ॥
नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम् ॥७.६७

वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः ।
आर्षाणि चैव नामानि याश्च वेदेषु सृष्टयः ॥७.६८

शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः ॥
यथर्त्तावृतुलिङ्गानि नानारूपाणि पर्यये ॥७.६९

दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥७.७०

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे सप्तमोऽध्यायः॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP