संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
अष्टचत्वारिंशत्तमोऽध्यायः

पूर्वभागः - अष्टचत्वारिंशत्तमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


सूत उवाच ।
हेमकूटगिरेः श्रृङ्गे महाकूटैः सुशोभनम् ।
स्फाटिकं देवदेवस्य विमानं परमेष्ठिनः ॥४८.१

तत्र देवादिदेवस्य भूतेशस्य त्रिशूलिनः ।
देवाः सिद्धगणा यक्षाः पूजां नित्यं प्रकुर्वते ॥४८.२

स देवो गिरिशः सार्द्धं महादेव्या महेश्वरः ।
भूतैः परिवृतो नित्यं भाति तत्र पिनाकधृक् ॥४८.३

विभक्तचारुशिखरः कैलासो यत्र पर्वतः ।
निवासः कोटियक्षाणां कुबेरस्य च धीमतः ॥४८.४

तत्रापि देवदेवस्य भवस्यायतनं महत् ।
मन्दाकिनी तत्र दिव्या रम्या सुविमलोदका ॥४८.५

नदी नानाविधैः पद्मैरनेकैः समलंकृता ।
देवदानवगन्धर्वयक्षराक्षसकिन्नरैः ॥४८.६

उपस्पृष्टजला नित्यं सुपुण्या सुमनोरमा ।
अन्याश्च नद्यः शतशः स्वर्णपद्मैरलंकृताः ॥४८.७

तासां कूले तु देवस्य स्थानानि परमेष्ठिनः ।
देवर्षिगणजुष्टानि तथा नारायणस्य तु ॥४८.८

सितान्तशिखरे चापि पारिजातवनं शुभम् ।
तत्र शक्रस्य विपुलं भवनं रत्नमण्डितम् ॥४८.९

स्फाटिकस्तम्भसंयुक्तं हेमगोपुरसंयुतम् ।
तत्राथ देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः ॥४८.१०

सुपुण्यं भवनं रम्यं सर्वरत्नोपशोभितम् ।
तत्र नारायणः श्रीमान् लक्ष्म्या सह जगत्पतिः ॥४८.११

आस्ते सर्वामरश्रेष्ठः पूज्यमानः सनातनः ।
तथा च वसुधारे तु वसूनां रत्नमण्डितम् ॥४८.१२

स्थानानामुत्तमं पुण्यं दुराधर्षं सुरद्विषाम् ।
रत्नधारे गिरिवरे सप्तरर्षीणां महात्मनाम् ॥४८.१३

सप्ताश्रमाणि पुण्यानि सिद्धावासैर्युतानि च ।
तत्र हैमं चतुर्द्वारं वज्रनीलादिमण्डितम् ॥४८.१४

सुपुण्यं सुमहत् स्थानं ब्रह्मणोऽव्यक्तजन्मनः ।
तत्र देवर्षयो विप्राः सिद्धा ब्रह्मर्षयोऽपरे ॥४८.१५

उपासते सदा देवं पितामहमजं परम् ।
स तैः संपूजितो नित्यं देव्या सह चतुर्मुखः ॥४८.१६

आस्ते हिताय लोकानां शान्तानां परमा गतिः ।
तस्यैकश्रृङ्गशिखरे महापद्मैरलङ्‌कृते ॥४८.१

स्वच्छामृतजलं पुण्यं सुगन्धं सुमहत् सरः ।
जैगीषव्याश्रमं तत्र योगीन्द्रैरुपशोभितम् ॥४८.१८

तत्रासौ भगवान् नित्यमास्ते शिष्यैः समावृतः ।
प्रशान्तदोषैरक्षुद्रैर्ब्रह्मविद्भिर्महात्मभिः ॥४८.१९

शङ्खो मनोहरश्चैव कौशिकः कृष्ण एव च ।
सुमना वेदनादश्च शिष्यास्तस्य प्रधानतः ॥४८.२०

सर्वे योगरताः शान्ता भस्मोद्धूलितविग्रहाः ।
उपासते महावीर्या ब्रह्मविद्यापरायणाः ॥४८.२१

तेषामनुग्रहार्थाय यतीनां शान्तचेतसाम् ।
सान्निध्यं कुरुते भूयो देव्या सह महेश्वरः ॥४८.२२

अन्यानिचाश्रमाणि स्युस्तस्मिन् गिरिवरोत्तमे ।
मुनीनां युक्तमनसां सरांसि सरितस्तथा ॥४८.२३

तेषु योगरता विप्रा जापकाः संयतेन्द्रियाः ।
ब्रह्मण्यासक्तमनसो रमन्ते ज्ञानतत्पराः ॥४८.२४

आत्मन्यात्मानमाधाय शिखान्तान्तरसंस्थितम् ।
धायायन्ति देवमीशानं येन सर्वमिदं ततम् ॥४८.२५

सुमेघे वासवस्थानं सहस्रादित्यसंनिभम् ।
तत्रास्ते भगवानिन्द्रः शच्या सह सुरेश्वरः ॥४८.२६

गजशैले तु दुर्गाया भवनं मणितोरणम् ।
आस्ते भगवती दुर्गा तत्र साक्षान्महेश्वरी ॥४८.२७

उपास्यमाना विविधैः शक्तिभेदैरितस्ततः ।
पीत्वा योगामृतं लब्ध्वा साक्षादानन्दमैश्वरम् ॥४८.२८

सुनीलस्य गिरेः श्रृङ्गे नानाधातुसमुज्ज्वले ।
राक्षसानां पुराणि स्युः सरांसि शतशो द्विजाः ॥४८.२९

तथा पुरशतं विप्राः शतश्रृङ्गे महाचले ।
स्फाटिकस्तम्भसंयुक्तं यक्षाणाममितौजसाम् ॥४८.३०

श्वेतोदरगिरेः श्रृङ्गे सुपर्णस्य महात्मनः ।
प्राकारगोपुरोपेतं मणितोरणमण्डितम् ॥४८.३१

स तत्र गरुडः श्रीमान् साक्षाद् विष्णुरिवापरः ।
ध्यात्वास्ते तत् परं ज्योतिरात्मानं विष्णुमव्ययम् ॥४८.३२

अन्यच्च भवनं पुण्यं श्रीश्रृङ्गे मुनिपुंगवाः ।
श्रीदेव्याः सर्वरत्नाढ्यं हैमं सुमणितोरणम् ॥४८.३३

तत्र सा परमा शक्तिर्विष्णोरतिमनोरमा ।
अनन्तविभवा लक्ष्मीर्जगत्संमोहनोत्सुका ॥४८.३४

अध्यास्ते देवगन्धर्वसिद्धचारणवन्दिता ।
विचिन्त्या जगतो योनिः स्वशक्तिकिरणोज्ज्वला ॥४८.३५

तत्रैव देवदेवस्य विष्णोरायतनं महत् ।
सरांसि तत्र चत्वारि विचित्रकमलाश्रया ॥४८.३६

तथा सहस्रशिखरे विद्याधरपुराष्टकम् ।
रत्नसोपानसंयुक्तं सरोभिश्चोपशोभितम् ॥४८.३७

नद्यो विमलपानीयाश्चित्रनीलोत्पलाकराः ।
कर्णिकारवनं द्विव्यं तत्रास्ते शंकरोऽम्बया ॥४८.३८

परिपात्रे महाशैले महालक्ष्म्याः पुरं शुभम् ।
रम्यप्रासादसंयुक्तं घण्टाचामरभूषितम् ॥४८.३९

नृत्यद्भिरप्सरः सङ्घैरितश्चेतश्च शोभितम् ।
मृदङ्गपणवोद्‌घुष्टं वीणावेणुनिनादितम् ॥४८.४०

गन्धर्वकिन्नराकीर्णं संवृतं सिद्धपुंगवैः ।
भास्वद्भित्तिसमाकीर्णं महाप्रासादसंकुलम् ॥४८.४१

गणेश्वराङ्गनाजुष्टं धार्मिकाणां सुदर्शनम् ।
तत्र सा वसते देवी नित्यं योगपरायणा ॥४८.४२

महालक्ष्मीर्महादेवी त्रिशूलवरधारिणी ।
त्रिनेत्रा सर्वशक्त्यौघा संवृता सदसन्मया ॥४८.४३

पश्यन्ति तत्र मुनयः सिद्धा ये ब्रह्मवादिनः ।
सुपार्श्वस्योत्तरे भागे सरस्वत्याः पुरोत्तमम् ॥४८.४४

सरांसि सिद्धजुष्टानि देवभोग्यानि सत्तमाः ।
पाण्डुरस्य गिरेः श्रृङ्गे विचित्रद्रुमसंकुले ॥४८.४५

गन्धर्वाणां पुरशतं दिव्यस्त्रीभिः समावृतम् ।
तेषु नित्यं मदोत्सिक्ता नरानार्यस्तथैव च ॥४८.४६

क्रीडन्ति मुदिता नित्यं विलासैर्भोगतत्पराः ।
अञ्जनस्य गिरेः श्रृङ्गे नारीणां पुरमुत्तमम् ॥४८.४७

वसन्ति तत्राप्सरसो रम्भाद्या रतिलालसाः ।
चित्रसेनादयो यत्र समायान्त्यर्थिनः सदा ॥४८.४८

सा पुरी सर्वरत्नाढ्या नैकप्रस्रवणैर्युता ॥
अनेकानि पुराणि स्युः कौमुदे चापि सुव्रताः ॥४८.४९

रुद्राणां शान्तरजसामीश्वरार्पितचेतसाम् ।
तेषु रुद्रा महायोगा महेशान्तरचारिणः ॥४८.५०

समासते पुरं ज्योतिरारूढाः स्थानमुत्तमम्।
पिञ्जरस्य गिरेः श्रृङ्गे गणेशानां पुरत्रयम् ॥४८.५१

नन्दीश्वरस्य कपिला तत्रास्ते समहामतिः ।
तथा च जारुधेः श्रृङ्गे देवदेवस्य धीमतः ॥४८.५२

दीप्तमायतनं पुण्यं भास्करस्यामितौजसः ।
तस्यैवोत्तरदिग्भागे चन्द्रस्थानमनुत्तमम् ॥४८.५३

रमते तत्र रम्योऽसौ भगवान् शीतदीधितिः ।
अन्यच्च भवनं दिव्यं हंसशैले महर्षयः ॥४८.५४

सहस्रयोजनायामं सुवर्णमणितोरणम् ।
तत्रास्ते भगवान् ब्रह्मा सिद्धसङ्घैरभिष्टुतः ॥४८.५५

सावित्र्या सह विश्वात्मा वासुदेवादिभिर्युतः ।
तस्य दक्षिणदिग्भागे सिद्धानां पुरमुत्तमम् ॥४८.५६

सनन्दनादयो यत्र वसन्ति मुनिपुंगवाः ॥
पञ्चशैलस्य शिखरे दानवानां पुरत्रयम् ॥४८.५७

नातिदूरेण तस्माच्च दैत्याचार्यस्य धीमतः ।
सुगन्धशैलशिखरे सरिद्भिरुपशोभितम् ॥४८.५८

कर्दमस्याश्रमं पुण्यं तत्रास्ते भगवानृषिः ।
तस्यैव पूर्वदिग्भागे किञ्चिद् वै दक्षिणाश्रिते ॥४८.५९

सनत्कुमारो भगवांस्तत्रास्ते ब्रह्मवित्तमः ।
सर्वेष्वेतेषु शैलेषु ततान्येषु मुनीश्वराः ॥४८.६०

सरांसि विमला नद्यो देवानामालयानि च ।
सिद्धलिङ्गानि पुण्यानि मुनिभिः स्थापितानि तु ॥४८.६१

वन्यान्याश्रमवर्याणि संख्यातुं नैव शक्यते ।
एष संक्षेपतः प्रोक्तो जम्बूद्वीपस्य विस्तरः ।
न शक्यं विस्तराद् वक्तुं मया वर्षशतैरपि ॥४८.६२

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे अष्ट्‌चत्वारिशोऽध्यायः ॥ ४८ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP