संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
चतुर्दशोऽध्यायः

पूर्वभागः - चतुर्दशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


सूत उवाच
प्रियव्रतोत्तानपादौ मनोः स्वायंभुवस्य तु ।
धर्मज्ञौ तौ महावीर्यौ शतरूपा व्यजीजनत् ॥१४.१

ततस्तूत्तानपादस्य ध्रुवो नाम सुतोऽभवत् ।
भक्तो नारायणे देवे प्राप्तवान् स्थानमुत्तमम् ॥१४.२

ध्रुवात् सृष्टिंच भाव्यं च भार्या शम्भुर्व्यजायत ।
श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्पषान् ॥१४.३

वसिष्ठवचनाद् देवी तपस्तप्त्वा सुदुश्चरम् ।
आराध्य पुरुषं विष्णुं शालग्रामे जनार्दनम् ॥१४.४

रिपुं रिपुंजयं विप्रं वृकलं वृषतेजसम् ।
नारायणपरान् शुद्धान् स्वधर्मपरिपालकान् ॥१४.५

रिपोराधत्त महिषी चाक्षुषं सर्वतेजसम् ।
सोऽजीजनत् पुष्करिण्यां वैरण्यां चाक्षुषं मनुम्  ॥१४.६

प्रजापतेरात्मजायां वीरणस्य महात्मनः ।
मनोरजायन्त दश नकुलायां महौजसः  ॥१४.७

कन्यायां सुमहावीर्यो वैराजस्य प्रजापतेः ।
ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक्‌ शुचिः  ॥१४.८

अग्निष्टुदतिरात्रश्च सुद्युम्नश्चाभिमन्युकः ।
ऊरोरजनयत् पुत्रान् षडाग्नेयी महाबलान्  ॥१४.९

अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं शिवम् ।
अङ्गाद् वेनोऽभवत् पश्चाद् वैन्यो वेनादजायत  ॥१४.१०

योऽसौ पृथुरिति ख्यातः प्रजापालो महाबलः ।
येन दुग्धा मही पूर्वं प्राजानां हितकारणात्  ॥१४.११

नियोगाद् ब्रह्मणः सार्द्धं देवेन्द्रेण महौजसा ।
वेनपुत्रस्य वितते पुरा पैतामहे मखे  ॥१४.१२

सूतः पौराणिको जज्ञे मायारूपः स्वयं हरिः ।
प्रवक्ता सर्वशास्त्राणां धर्मज्ञो गुणवत्सलः  ॥१४.१३

तं मां वित्त मुनिश्रेष्ठाः पूर्वोद्‌भूतं सनातनम् ।
अस्मिन् मन्वन्तरे व्यासः कृष्णद्वैपायनः स्वयम्  ॥१४.१४

श्रावयामास मां प्रीत्या पुराणं पुरुषो हरिः ।
मदन्वये तु ये सूताः संभूता वेदवर्जिताः  ॥१४.१५

तेषां पुराणवक्तृत्वं वृत्तिरासीदजाज्ञया ।
स तु वैन्यः पृथुर्धीमान् सत्यसंधो जितेन्द्रियः  ॥१४.१६

सार्वभौमो महातेजाः स्वधर्मपरिपालकः ।
तस्य बाल्यात् प्रभृत्येव भक्तिर्नारायणेऽभवत्  ॥१४.१७

गोवर्धनगिरिं प्राप्तः तपस्तेपे जितेन्द्रियः ।
तपसा भगवान्प्रीतः शङ्खचक्रगदाधरः  ॥१४.१८

आगत्य देवो राजानं प्राह दामोदरः स्वयम् ।
ध्रमिकौ रूपसंपन्नौ सर्वशस्त्रभृतां वरौ ॥१४.१९

मत्प्रसादादसंदिग्धौ पुत्रौ तव भविष्यतः ।
एकमुक्त्वा हृषीकेशः स्वकीयां प्रकृतिं गतः ॥१४.२०

वैन्योऽपि वेदविधिना निश्चलां भक्तिमुद्वहन् ।
सोऽपालयत् स्वकं राज्यं न्यायेन मधुसूदनम् ॥१४.२१

अचिरादेव तन्वङ्गी भार्या तस्य शुचिस्मिता ।
खिखण्डिनं हविर्द्धानमन्तर्द्धानात् व्यजायत ॥१४.२२

शिखण्डनोऽभवत् पुत्रः सुशील इति विश्रुतः ।
धार्मिको रूपसंपन्नो वेदवेदाङ्गपारगः ॥१४.२३

सोऽधीत्य विधिवद् वेदान् धर्मेण तपसि स्थितः ।
मतिं चक्रे भाग्ययोगात् संन्यांसं प्रति धर्मवित् ॥१४.२४

स कृत्वा तीर्थसंसेवां स्वाध्याये तपसि स्थितः ।
जगाम हिमवत्पृष्ठं कदाचित् सिद्धसेवितम् ॥१४.२५

तत्र धर्मपदं नाम धर्मसिद्धिप्रदं वनम् ।
अपश्यद्‌ योगिनां गम्यमगम्यं ब्रह्मविद्विषाम् ॥१४.२६

तत्र मन्दाकिनी नाम सुपुण्या विमला नदी ।
पद्मोत्पलवनोपेता सिद्धाश्रमविभूषिता ॥१४.२७

स तस्या दक्षिणे तीरे मुनीन्द्रैर्योगिभिर्युतम् ।
सुपुण्यमाश्रमं रम्यमपश्यत् प्रीतिसंयुतः ॥१४.२८

मन्दाकिनीजले स्नात्वा संतर्प्य पितृदेवताः ।
अर्चयित्वा महादेवं पुष्पैः पद्मोत्पलादिभिः ॥१४.२९

ध्यात्वार्कंसंस्थमीशानं शिरस्याधाय चाञ्जलिम् ।
संप्रेक्षमाणो भास्वन्तं तुष्टाव परमेश्वरम् ॥१४.३०

रुद्राध्यायेन गिरिशं रुद्रस्य चरितेन च ।
अन्यैश्च विविधैः स्तोत्रैः शांभवैर्वेदसंभवैः ॥१४.३१

अथास्मिन्नन्तरेऽपश्यत् तमायान्तं महामुनिम् ।
श्वेताश्वतरनामानं महापाशुपतोत्तमम् ॥१४.३२

भस्मसंदिग्धसवाङ्गं कौपीनाच्छादनान्वितम् ।
तपसा कर्षितात्मानं शुक्लयज्ञोपवीतिनम् ॥१४.३३

समाप्य संस्तवं शंभोरानन्दास्राविलेक्षणः ।
ववन्दे शिरसा पादौ प्राञ्जलिर्वाक्यमब्रवीत् ॥१४.३४

धन्योऽस्म्यनुगृहीतोऽस्मि यन्मे साक्षान्मुनीश्वरः ।
योगीश्वरोऽद्य भगवान् दृष्टो योगविदां वरः ॥१४.३५

अहो मे सुमहद्भाग्यं तपांसि सफलानि मे ।
किं करिष्यामि शिष्योऽहं तव मां पालयानघ ॥१४.३६

सोऽनुगृह्याथ राजानं सुशीलं शीलसंयुतम् ।
शिष्यत्वे परिजग्राह तपसा क्षीणकल्पषम् ॥१४.३७

सांन्यासिकं विधिं कृत्स्नं कारयित्वा विचक्षणः ।
ददौ तदैश्वरं ज्ञानं स्वशाखाविहितं व्रतम् ॥१४.३८

अशेषवेदसारं तत् पशुपाशविमोचनम् ।
अन्त्याश्रममिति ख्यातं ब्रह्मादिभिरनुष्ठितम् ॥१४.३९

उवाच शिष्यान् संप्रेक्ष्य ये तदाश्रमवासिनः ।
ब्राह्मणाः क्षत्रियाः वैश्याः ब्रह्मचर्यपरायणाः ॥१४.४०

मया प्रवर्त्तितां शाखामधीत्यैवेह योगिनः ।
समासते महादेवं ध्यायन्तो निष्कलं शिवम् ॥१४.४१

इह देवो महादेवो रममाणः सहोमया ।
अध्यास्ते भगवानीशो भक्तानामनुकम्पया ॥१४.४२

इहाशेषजगद्धाता पुरा नारायणः स्वयम् ।
आराधयन्महादेवं लोकानां हितकाम्यया ॥१४.४३

इहैनं देवमीशानं देवानामपि दैवतम् ।
आराध्य महतीं सिद्धिं लेभिरे देवदानवाः ॥१४.४४

इहैव मुनयः पूर्वं मरीच्याद्या महेश्वरम् ।
दृष्ट्वा तपोबलाज्ज्ञानं लेभिरे सार्वकालिकम् ॥१४.४५

तस्मात् त्वमपि राजेन्द्र तपोयोगसमन्वितः ।
तिष्ठ नित्यं मया सार्द्धं ततः सिद्धिमवाप्स्यसि ॥१४.४६

एवमाभाष्य विप्रेन्द्रो देवं ध्यात्वा पिनाकिनम् ।
आचचक्षे महामन्त्रं यथावत् स्वार्थसिद्धये ॥१४.४७

सर्वपापोपशमनं वेदसारं विमुक्तिदम् ।
अग्निरित्यादिकं पुण्यमृषिभिः संप्रवर्तितम् ॥१४.४८

सोऽपि तद्वचनाद् राजा सुशीलः श्रद्धयान्वितः ।
साक्षात् पाशुपतो भूत्वा वेदाभ्यासरतोऽभवत् ॥१४.४९

भस्मोद्धूलितसर्वाङ्गः कन्दमूलफलाशनः ।
शान्तो दान्तो जितक्रोधः संन्यासविधिमाश्रितः ॥१४.५०

हविर्धानस्तथाग्नेय्यां जनयामास सत्सुतम् ।
प्राचीनबर्हिषं नाम्ना धनुर्वेदस्य पारगम् ॥१४.५१

प्राचीनबर्हिर्भागवान् सर्वशस्त्रभृतां वरः ।
समुद्रतनयायां वै दश पुत्रानजीजनत् ॥१४.५२

प्रचेतसस्ते विख्याता राजानः प्रथितैजसः ।
अधीतवन्तः स्वं वेदं नारायणपरायणाः ॥१४.५३

दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ।
दक्षो जज्ञे महाभागो यः पूर्वं ब्रह्मणः सुतः ॥१४.५४

स तु दक्षो महेशेन रुद्रेण सह धीमता ।
कृत्वा विवादं रुद्रेण शप्तः प्राचेतसोऽभवत् ॥१४.५५

समायान्तं महादेवो दक्षं देव्या गृहं हरः ।
दृष्ट्वा यथोचितां पूजां दक्षाय प्रददौ स्वयम् ॥१४.५६

तदा वै तमसाविष्टः सोऽधिकां ब्रह्मणः सुतः ।
पूजामनर्हामन्विच्छन् जगाम कुपितो गृहम् ॥१४.५७

कदाचित् स्वगृहं प्राप्तां सतीं दक्षः सुदुर्मनाः ।
भर्त्रा सह विनिन्द्यैनां भर्त्सयामसा वै रुषा ॥१४.५८

अन्ये जामातरः श्रेष्ठा भर्त्तुस्तव पिनाकिनः ।
त्वमप्यसत्सुताऽस्माकं गृहाद् गच्छ यथागतम् ॥१४.५९

तस्य तद्वाक्यमाकर्ण्य सा देवी शंकरप्रिया ।
विनिन्द्य पितरं दक्षं ददाहात्मानमात्मना ॥१४.६०

प्रणम्य पशुभर्त्तारं भर्त्तारं कृत्तिवाससम् ।
हिमवद्‌दुहिता साऽभूत् तपसा तस्य तोषिता ॥१४.६१

ज्ञात्वा तद्भागवान् रुद्रः प्रपन्नार्त्तिहरो हरः ।
शशाप दक्षं कुपितः समागत्याथ तद्‌गृहम् ॥१४.६२

त्यक्त्वा देहमिमं ब्रह्मं क्षत्रियाणां कुले भव ।
स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि ॥१४.६३

एवमुक्त्वा महादेवो ययौ कालासपर्वतम् ।
स्वायंभुवोऽपि कालेन दक्षः प्राचेतसोऽभवत् ॥१४.६४

एतद्वः कथितं सर्वं मनोः स्वायंभुवस्य तु ।
विसर्गं दक्षपर्यन्तं श्रृण्वतां पापनाशनम् ॥१४.६५

इति श्रीकूर्मपुराणे षट्‌माहस्त्र्यां संहितायां पूर्वविभागे चतुर्दशोऽध्यायः॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP