संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
पञ्चत्रिंशत्तमोऽध्यायः

पूर्वभागः - पञ्चत्रिंशत्तमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


सूत उवाच ।
ततः सर्वाणि गुह्यानि तीर्थान्यायतनानि च ।
जगाम भगवान् व्यासो जैमिनिप्रमुखैर्वृतः ॥३५.१

प्रयागं परमं तीर्थं प्रयागादधिकं शुभम् ।
विश्वरूपं तथा तीर्थं कालतीर्थमनुत्तमम् ॥३५.२

आकाशाख्यं महातीर्थं तीर्थं चैवार्षभं परम् ।
स्वर्नीलं च महातीर्थं गौरीतीर्थमनुत्तमम् ॥३५.३

प्राजापत्यं तथा तीर्थं स्वर्गद्वारं तथैव च ।
जम्बुकेश्वरमित्युक्तंचर्माख्यं तीर्थमुत्तमम् ॥३५.४

गयातीर्थं महातीर्थं तीर्थं चैव महानदी ।
नारायणं परं तीर्थं वायुतीर्थमनुत्तमम् ॥३५.५

ज्ञानतीर्थं परं गुह्यं वाराहं तीर्थमुत्तमम् ।
यमतीर्थं महापुण्यं तीर्थं संवर्तकं शुभम् ॥३५.६

अग्नितीर्थं द्विजश्रेष्ठाः कलशेश्वरमुत्तमम् ।
नागतीर्थं सोमतीर्थं सूर्यतीर्थं तथैव च ॥३५.७

पर्वताख्यं महागुह्यं मणिकर्णमनुत्तमम् ।
घटोत्कचं तीर्थवरं श्रीतीर्थं च पितामहम् ॥३५.८

गङ्गातीर्थं तु देवेशं तथातत्तीर्थमुत्तमम् ।
कापिलं चैव सोमेशं ब्रह्मतीर्थमनुत्तमम् ॥३५.९

(यत्र लिङ्गं पुरानीयं ब्रह्मा स्नातुं यदा गतः ।
तदानीं स्थापयामास विष्णुस्तल्लिङ्गमैश्वरम् ॥३५.१०

ततः स्नात्वा समागत्य ब्रह्मा प्रोवाच तं हरिम् ।
मयानीतमिदं लिङ्गं कस्मात् स्थापितवानसि ॥३५.११

तमाह विष्णुस्त्वत्तोऽपि रुद्रे भक्तिर्दृढा यतः ।
तस्मात् प्रतिष्ठितं लिङ्गंनाम्ना तव भविष्यति ॥३५.१२

भूतेश्वरं तथा तीर्थं तीर्थं धर्मसमुद्‌भवम् ।
गन्धर्वतीर्थं परमं वाह्नेयं तीर्थमुत्तमम् ॥३५.१३

दौर्वासिकं व्योमतीर्थं चन्द्रतीर्थं द्विजोत्तमाः ।
चित्राङ्गदेश्वरं पुण्यं पुण्यं विद्याधरेश्वरम् ॥३५.१४

केदारंतीर्थमुख्याख्यं कालञ्जरमनुत्तमम् ।
सारस्वतं प्रभासं च भद्रकर्णं हरं शुभम् ॥३५.१५

लौकिकाख्यं महातीर्थं तीर्थं चैव हिमालयम् ।
हिरण्यगर्भं गोप्रेक्ष्यं तीर्थं चैव वृषध्वजम् ॥३५.१६

उपशान्तं शिवं चैव व्याघ्रेश्वरमनुत्तमम् ।
त्रिलोचनं महातीर्थं लोलार्कं चोत्तराह्वयम् ॥३५.१७

कपालमोचनं तीर्थं ब्रह्महत्याविनाशनम् ।
शुक्रेश्वरं महापुण्यमानन्दपुरमुत्तमम् ॥३५.१८

एवमादीनि तीर्थानि प्राधान्यात् कथितानि तु ।
न शक्यं विस्तराद् वक्तुं तीर्थसंख्या द्विजात्तमाः ॥३५.१९

तेषु सर्वेषु तीर्थेषु स्नात्वाऽभ्यर्च्य पिनाकिनम् ।
उपोष्य तत्र तत्रासौ पाराशर्यो महामुनिः ॥३५.२०

तर्पयित्वा पितॄन् देवान् कृत्वा पिण्डप्रिदानकम् ।
जगाम पुनरेवापि यत्र विश्वेश्वरः शिवः ॥३५.२१

स्नात्वाऽभ्यर्च्य परं लिङ्गं शिष्यैः सह महामुनिः ।
उवाच शिष्यान् धर्मात्मा स्वान् देशान् गन्तुमर्हथा ॥३५.२२

ते प्रणम्य महात्मानं जग्मुः पैलादयो द्विजाः ।
वासं च तत्र नियतो वाराणस्यां चकार सः ॥३५.२३

शान्तो दान्तस्त्रिषवणंस्नात्वाऽभ्यर्च्य पिनाकिनम् ।
भैक्षाहारो विशुद्धात्मा ब्रह्मचर्यपरायणः ॥३५.२४

कदाचिद् वसता तत्र व्यासेनामिततेजसा ।
भ्रममाणेन भिक्षा तु नैव लब्धा द्विजोत्तमाः ॥३५.२५

ततः क्रोधावृततनुर्नराणामिह वासिनाम् ।
विघ्नं सृजामि सर्वेषां येन सिद्धिर्विहीयते ॥३५.२६

तत्क्षणात्सा महादेवी शंकरार्द्धशरीरिणी ।
प्रादुरासीत् स्वयं प्रीत्या वेषं कृत्वा तु मानुषम् ॥३५.२७

भो भो व्यास महाबुद्धे शप्तव्या भवता न हि ।
गृहाण भिक्षां मत्तस्त्वमुक्त्वैवं प्रददौ शिवा ॥३५.२८

उवाच च महादेवी क्रोधनस्त्वं भवान् यतः ।
इह क्षेत्रे न वस्तव्यं कृतघ्नोऽसि यतः सदा ॥३५.२९

एवमुक्तः स भगवान् ध्यानाज्ज्ञात्वा परां शिवाम् ।
उवाच प्रणतो भूत्वा स्तुत्वा च प्रवरैः स्तवैः ॥३५.३०

चतुर्दश्यामथाष्टम्यां प्रवेशं देहि शांकरि ।
एवमस्त्वित्यनुज्ञाय देवी चान्तरधीयत ॥३५.३१

एवं स भगवान् व्यासो महायोगी पुरातनः ।
ज्ञात्वा क्षेत्रगुणान् सर्वान् स्थितस्तस्याथ पार्श्वतः ॥३५.३२

एवं व्यासं स्थितं ज्ञात्वा क्षेत्रं सेवन्ति पण्डिताः ।
तस्मात् सर्वप्रयत्नेन वाराणस्यां वसेन्नरः ॥३५.३३

सूत उवाच ।
यः पठेदविमुक्तस्य माहात्म्यं श्रृणुयादपि ।
श्रावयेद् वा द्विजान् शान्तान् सोऽपियातिपरांगतिम् ॥३५.३४

श्राद्धे वा दैविके कार्ये रात्रावहनि वा द्विजाः ।
नदीनां चैव तीरेषु देवतायतनेषु च ॥३५.३५

स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः ।
जपेदीशं नमस्कृत्य स याति परमां गतिम् ॥३५.३६

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे पञ्चत्त्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP