संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
द्वात्रिंशत्तमोऽध्यायः

पूर्वभागः - द्वात्रिंशत्तमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


सूत उवाच ।
स शिष्यैः संवृतो धीमान् गुरुर्द्वैपायनो मुनिः ।
जगाम विपुलं लिङ्गमोंकारं मुक्तिदायकम् ॥३२.१

तत्राभ्यर्च्य महादेवं शिष्यैः सह महामुनिः ।
प्रोवाच तस्य माहात्म्यं मुनीनां भावितात्मनाम् ॥३२.२

इदं तद् विमलं लिङ्गमोंकारं नाम शोभनम् ।
अस्य स्मरणमात्रेण मुच्यते सर्वपातकैः ॥३२.३

एतत् परतरं ज्ञानं पञ्चयतनमुत्तमम् ।
सेवितं सूरिभिर्नित्यं वाराणस्यां विमोक्षदम् ॥३२.४

अत्र साक्षान्महादेवः पञ्चायतनविग्रहः ।
रमते भगवान् रुद्रो जन्तूनामपवर्गदः ॥३२.५

यत् तत् पाशुपतं ज्ञानं पञ्चार्थमिति शक्यते ।
तदेतद् विमलं लिङ्गमोङ्कारं समवस्थितम् ॥३२.६

शान्त्यतीता तथा शान्तिर्विद्या चैव परा कला ।
प्रतिष्ठा च निवृत्तिश्च पञ्चार्थं लिङ्गमैश्वरम् ॥३२.७

पञ्चानामपि देवानां ब्रह्मादीनां सदाश्रयम् ।
ओंकारबोधतं लिङ्गं पञ्चायतनमुच्यते ॥३२.८

संस्मरेदैश्वरं लिङ्गं पञ्चायतनमव्ययम् ।
देहान्ते तत्परं ज्योतिरानन्दं विशते बुधः ॥३२.९

अत्र देवर्षयः पूर्वं सिद्धा ब्रह्मर्षयस्तथा ।
उपास्य देवमीशानं प्राप्तवन्तः परं पदम् ॥३२.१०

मत्स्योदर्यास्तटे पुण्यं स्थानं गुह्यतम शुभम् ।
गोचर्ममात्रं विप्रेन्द्रा ओङ्कारेश्वरमुत्तमम् ॥३२.११

कृत्तिवासेश्वरं लिङ्गं मध्यमेश्वरमुत्तमम् ।
विश्वेश्वरं तथोंकारं कपर्दीश्वरमेव च ॥३२.१२

एतानि गुह्यलिङ्गानि वाराणस्यां द्विजोत्तमाः ।
न कश्चिदिह जानाति विना शंभोरनुग्रहात् ॥३२.१३

एवमुक्त्वा ययौ कृष्णः पाराशर्यो महामुनिः ।
कृत्तिवासेश्वरं लिङ्गं द्रष्टुं देवस्य शूलिनः ॥३२.१४

समभ्यर्च्य तथा शिष्यैर्माहात्म्यं कृत्तिवाससः ।
कथयामास विप्रेभ्यो भगवान् ब्रह्मवित्तमः ॥३२.१५

अस्मिन् स्थाने पुरा दैत्यो हस्ती भूत्वा भवान्तिकम् ।
ब्राह्मणान् हन्तुमायातो येऽत्र नित्यमुपासते ॥३२.१६

तेषां लिङ्गान्महादेवः प्रादुरासीत् त्रिलोचनः ।
रक्षणार्थं द्विजश्रेष्ठा भक्तानां भक्तवत्सलः ॥३२.१७

हत्वा गजाकृतिं दैत्यं शूलेनावज्ञया हरः ।
वसस्तस्याकरोत् कृत्तिं कृत्तिवासेश्वरस्ततः ॥३२.१८

अत्र सिद्धिं परां प्राप्ता मुनयो मुनिपुंगवाः ।
तेनैव च शरीरेण प्राप्तास्तत् परमं पदम् ॥३२.१९

विद्या विद्येश्वरा रुद्राः शिवाये च प्रकीर्त्तिताः ।
कृत्तिवासेश्वरं लिङ्गं नित्यमावृत्य संस्थिताः ॥३२.२०

ज्ञात्वा कलियुगं घोरमधर्मबहुलं जनाः ।
कृत्तिवासं न मुञ्चन्ति कृतार्थास्ते न संशयः ॥३२.२१

जन्मान्तरसहस्रेण मोक्षोऽन्यत्राप्यते न वा ।
एकेन जन्मना मोक्षः कृत्तिवासे तु लभ्यते ॥३२.२२

आलयः सर्वसिद्धानामेतत् स्थानं वदन्ति हि ।
गोपितं देवदेवेन महादेवेन शंभुना ॥३२.२३

युगे युगे ह्यत्र दान्ता ब्राह्मणा वेदपारागाः ।
उपासते महादेवं जपन्ति शतरुद्रियम् ॥३२.२४

स्तुवन्ति सततं देवं त्र्यम्बकं कृत्तिवाससम् ।
ध्यायन्ति हृदये देवं स्थाणुं सर्वान्तरं शिवम् ॥३२.२५

गायन्ति सिद्धाः किल गीतकानि
ये वाराणस्यां निवसन्ति विप्राः ।
तेषामथैकेन भवेन मुक्तिर्
ये कृत्तिवासं शरणं प्रपन्नाः ॥३२.२६

संप्राप्य लोके जगतामभीष्टं ।
सुदुर्लभं विप्रकुलेषु जन्म ॥
ध्याने समाधाय जपन्ति रुद्रं ।
ध्यायन्ति चित्ते यतयो महेशम् ॥३२.२७

आराधयन्ति प्रभुमीशितारं ।
वाराणसीमध्यगता मुनिन्द्राः ॥
यजन्ति यज्ञैरभिसंधिहीनाः
स्तुवन्ति रुद्रं प्रणमन्ति शंभुम् ॥३२.२८

नमो भवायामलयोगधाम्ने ।
स्थाणुं प्रपद्ये गिरिशं पुराणम् ॥
स्मरामि रुद्रं हृदये निविष्टं
जाने महादेवमनेकरूपम् ॥३२.२९

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां द्वात्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP