जन्मकर्मे शुभे धर्मे चन्द्राद्यदि पतेत्तमः ।
जन्मकाले भूपति वृद्धकाले महाधनी ॥१॥
षष्ठे च द्वादशे राहुश्चन्द्राच्च पतितो यदि ।
स राजा राजमन्त्री च धनधान्यसमाकुलः ॥२॥
धन एकादशे स्थाने चन्द्राद्राहुः प्रजायते ।
धनमानावसंयुक्तः सुखं स्वप्ने न दृश्यते ॥४॥
पञ्चमे च यदा राहुश्चन्द्राज्जलजसंभवम् ।
निधनं चापि सिद्धं च आपदश्च पदेपदे ॥५॥