मेषादिषट्कगे सूर्ये उत्तरो गोल उच्यते ।
तुलादिषट्कगे सूर्ये याम्यगोलः स उच्यते ॥१॥
गोलफलम् ।
यो जातोत्तरगोलेषु धनवान् विद्ययान्वितः ।
पुत्रपौत्रादियुक्तश्च राजमान्यो नरो भवेत् ॥१॥
याम्यगोलेषु यो जातः सदा स सुखवर्जितः ।
कूटसाक्षी दुराचारो हीनाङ्गश्चापि निर्धनः ॥२॥