स्वस्ति श्रीशुद्धिवृद्धिर्जयो मङ्गलाभ्युदयश्च ॥
स्वस्तिश्रीसौख्यदात्री सुतजयजननी तुष्टिपुष्टिप्रदात्री
माङ्गल्योत्साहकर्त्री गतभवसदसत्कर्मणां व्यञ्जयित्री ।
नानासम्पद्विधात्री धनकुलयशसामायुषां वर्द्धयित्री
दुष्टा पद्विघ्नहर्त्री गुणगणवसतिर्लिख्यते जन्मपत्री ॥१॥
नमम्कृत्य गणाधीशं बुधमाधवसूनुना ।
वंशीधरेण भाषायां लिख्यते मानसागरी ॥
प्रणम्य भक्त्या रविमुख्यखेटान्स माधवस्यात्मजराजमान्यः ।
वंशीधरस्तेन विलिख्यते तट्टीकामृतापद्धतिजातकस्य ॥
श्रीआदिनाथप्रमुखा जिनेशाः श्रीपुण्डरीकप्रमुखा गणेशाः ।
सूर्यादिखेटर्क्षयुताश्च भावाः शिवाय सन्तु प्रकटप्रभावाः ॥२॥
दशावतारो भुवनैकमल्लो गोपाङ्गनासेवितपादपद्मः ।
श्रीकृष्णचन्द्रः पुरुषोत्तमोऽयं ददातु वः सर्वसमीहितं मे ॥३॥
श्रीमानस्मावतु भगवान् पार्श्वनाथः प्रियं वो
श्रेयो लक्ष्म्या क्षितिपतिगणैः सादरं स्तूयमानः ।
भर्तुर्यस्य स्मरणकरणात्तेऽपि सर्वे विवस्वन्मुख्याः खेटा ददतु कुशलं सर्वदा देहभाजाम् ॥४॥
सूर्यः शौर्यमथेन्दुरुच्चपदवीं सन्मङ्गलं मङ्गलः
सद्बुद्धिं च बुधो गुरुश्च गुरुतां शुक्रः सुखं शं शनिः ।
राहुर्बाहुबलं करोतु विपुलं केतुः कुलस्यन्नतिं
नित्यं प्रीतिकर भवन्तु भवतां सर्वे प्रसन्ना ग्रहाः ॥५॥
कल्याणं कमलासनः स भगवान्विष्णुः सः जिष्णुः स्वयं
प्रालेयाद्रिसुतापतिः सतनयो ज्ञानं च निर्विघ्नताम् ।
चन्द्रज्ञास्फुजिदार्किभौमधिषणच्छायासुतैरन्वित-
ज्योतिश्चक्रमिदं सदैव भवतामायुश्चिरं यच्छतु ॥६॥
सूर्यो यच्छतु भूपतां द्विजपतिः प्रीतिं परां तन्वतां
माङ्गल्यं विदधातु भूमितनयो बुद्धिं विधत्तां बुधः ।
गौरं गौरवमातनोतु च गुरुः शुक्रः सशुक्रार्थदः
सौरिर्वोरिविनाशनं वितनुते रोगक्षयं सैंहिकः ॥७॥
श्रीमान्यङ्कजिनीपतिः कुमुदिनीप्राणेश्वरो भूमिभूः
शाशाङ्किः सुरराजवन्दितपदो दैत्येन्द्रमन्त्री शनिः ।
स्वर्भानुः शिखिनां गणो गणपतिर्ब्रह्मेशलक्ष्मीधरा-
स्तं रक्षन्तु सदैव यस्य विमला पत्री त्वियं लिख्यते ॥८॥
कृतं मया नोदकयन्त्रसाधनं न भेक्षणं चापि न शङ्कुधारणम् ।
परोपदेशात्समयावबोधकं विलिख्यते जन्मफलं नराणाम् ॥९॥
ललाटपट्टे लिखिता विधात्रा षष्ठीदिने याऽक्षरमालिका च ।
तज्जन्मपत्रीं प्रकटां विधत्ते दीपो यथा वस्तु घनान्धकारे ॥१०॥
यावन्मेरुर्धरापीठे यावच्चन्द्रदिवाकरौ ।
तावन्नन्दतु बालोऽयं यस्यैषा जन्मपत्रिका ॥११॥
यस्य नास्ति किल जन्मपत्रिका या शुभाशुभफलप्रदर्शिनी ।
अन्धकं भवति तस्य जीवितं दीपहीनमिव मन्दिरं निशि ॥१२॥
वंशो विस्तारतां यातु कीर्तिर्यातु दिगन्तरे ।
आयुर्विपुलतां यातु यस्यैषा जन्मपत्रिका ॥१३॥
यं ब्रह्म वेदान्तविदो वदन्ति परं प्रधानं पुरुषं तथाऽन्ये ।
विश्वोद्नतेः कारणमीश्वरं वा तस्मै नमो विघ्नविनाशनाय ॥१४॥
आदित्याद्या ग्रहाः सर्वे सनक्षत्राः सराशयः ।
सर्वान्कामान्प्रयच्छन्तु यस्यैषा जन्मपत्रिका ॥१५॥
जननी जन्मसौख्यानां वर्धिनी कुलसंपदाम् ।
पदवी पूर्वपुण्यानां लिख्यते जन्मपत्रिका ॥१६॥
एकदन्तो महाबुद्धिः सर्वज्ञो गणनायकः ।
सर्वसिद्धिकरो देवो गौरीपुत्रो विनायकः ॥१७॥
ब्रह्मा करोतु दीर्घायुर्विष्णुः कुर्याच्च सम्पदम् ।
हरो रक्षतु गात्राणि यस्यैषा जन्मपत्रिका ॥१८॥
गणाधिपो ग्रहाश्चैव गोत्रजा मातरो ग्रहाः ।
सर्वे कल्याणमिच्छन्तु यस्यैषा जन्मपत्रिका ॥१९॥
कल्याणानि दिवामणिः सुललितां कान्तिं कलानां निधि-
र्लक्ष्मीं क्ष्मातनयो बुधश्च बुधतां जीवश्चिरञ्जीविताम् ।
साम्राज्यं भृगुजोऽर्कजो विजयतां राहुर्बलोत्कर्षतां
केतुर्यच्छतु तस्य वाञ्छितमियं पत्री यदीयोत्तमा ॥२०॥
श्रीजन्मपत्रीशुभदीपकेन व्यक्तं भवेद्भाविफलं समग्रम् ।
क्षपाप्रदीपेन यथा गृहस्थं घटादिजातं प्रकटत्वमेति ॥२१॥
ये कुर्वन्ति शुभाशुभानि जगतां यच्छन्ति ते सम्पदो
ये पूजाबलिदानहोमविधिभिर्निघ्नन्ति विघ्नानि च ।
ये संभोगवियोगजीवितकृतः सर्वेश्वराः खेचरा-
स्ते तिग्मांशुपुरोगमा ग्रहगणाः शान्तिं प्रयच्छन्तु वः ॥२२॥
येनोत्पाट्य समूलमन्दरगिरिश्छत्रीकृतो गोकुले
राहुर्येन महाबली सुररिपुः कार्यार्द्धशीर्षीकृतः ।
कृत्वा त्रीणि पदानि येन वसुधा बद्धो बलिर्लीया
स त्वां पातु युगेयुगे युगपतिस्त्रेलोक्यनाथो हरिः ॥२३॥
पूषा पुष्टिं दिशतु सततं सन्ततिं शीतरोचि-
भौमो भाग्यं सितकरसुतः शान्तिमाङ्गल्यमेवम् ।
जीवो राज्यं चिरसुभगतां भार्गवो भूमिपात्रं
राहुः सौख्यं शिखिन इति ते कीर्तिमभ्रंलिहां च ॥२४॥
ग्रहा राज्यं प्रयच्छन्ति ग्रहा राज्यं हरन्ति च ।
ग्रहैर्व्याप्तमिदं सर्व त्रैलोक्यं सचराचरम् ॥२५॥
उमा गौरी शिवा दुर्गा भद्रा भगवती तथा ।
कुलदेव्यथ चामुण्डा रक्षन्तु बालकं सदा ॥२६॥
अविरलमदजलनिवहं भ्रमरकुलानीकसेवितकपोलम् ।
अभिमतफलदातारं कामेशं गणपतिं वन्दे ॥२७॥
यः पश्चिमाभिमुखसंस्थितविद्यमानो
ह्यव्यक्तमूर्तिपरिवर्तितविश्वभोगः ।
दुर्लक्ष्यविक्रमततिः कृतकर्मलक्ष्यो
राज्यं श्रियं दिशतु वो रहमाण एषः ॥२८॥