विपदः प्रथमे मासे द्वात्रिंशे च त्रयोदशे ।
षष्ठेऽपि च ततः सूर्ये जातो जीवति षष्टिकम् ॥१॥
एकादशेऽष्टमे मासे चन्द्रपीडा च षोडशे ।
सप्तविंशतिवर्षे च चतुर्युक्ताशितौ मृतिः ॥२॥
द्वात्रिंशे च द्वितीये च वर्षे पीडा च मङ्गले ।
चतुःसप्ततिवर्षाणि सदा रोगी स जीवति ॥३॥
बुधवारेऽष्टमे मासे पीडा वर्षे तथाष्टमे ।
पूर्णे चतुःषष्टिवर्षे ततो मृत्युर्भविष्यति ॥४॥
गुरौ च सप्तमे मासे षोडशे च त्रयोदशे ।
पीड ततश्चतुर्युक्ताशीतिवर्षाणि जीवति ॥५॥
शुक्रवारे च जातस्य देहो रोगविवर्जितः ।
षष्टिवर्षेऽथ संपूर्णे म्रियते मानवो ध्रुवम् ॥६॥
शनौ च प्रथमे मासे पीडयते च त्रयोदशे ।
दृढदेहस्तदा जातः शतवर्षाणि जीवति ॥७॥