पित्ताधिकोऽतिचतुरस्तेजस्वी समरप्रियः ।
दाता दाने महोत्साही सूर्यवारे भवेन्नरः ॥१॥
मतिमान्प्रियवाक् शान्तो नरेन्द्राश्रयजीविकः ।
समदुःखसुखः श्रीमान् सोमवारे भवेत्पुमान् ॥२॥
वक्रबुद्धिर्जराजीवी रणोत्साही महाबली ।
सेनानीस्तंत्रपालो वा धरापुत्रादिनोद्भवः ॥३॥
लिपिलेखनजीवी स्यात्प्रियवाक्पण्डितः सुधीः ।
रुपसंपत्तिसंयुक्तो बुधवासरसंभवः ॥४॥
धनविद्यागुणोपेतो विवेकी जनपूजकः ।
आचार्यः सचिवो वा स्याद्नुरुवासरसंभवः ॥५॥
चलचित्तः सुरद्वेषी धनक्रीडारतः सदा ।
बुद्धिमान् सुभगो वाग्ग्मी भृगुवारे भवेन्नरः ॥६॥
स्थिरजः स्थिरगीः क्रूरो दुःखचित्तः पराक्रमी ।
अधोदृड न चलो ( ? ) केशी वृद्धनारीरतः सदा ॥७॥