लोलनेत्रः सदा रोगी धर्मार्थकृतनिश्चयः ।
पृथुजङ्घः कृतज्ञश्च निष्पापो राजपूजितः ॥१॥
कामिनीदृदयानन्दो दाता भीतो जलादपि ।
चण्डकर्मा मृदुश्चान्ते मेषराशौ भवेन्नरः ॥२॥
भोगी दाता शुचिर्दक्षो महासत्त्वो महाबलः ।
धनी विलासी तेजस्वी सुमित्रश्च वृषे भवेत् ॥३॥
मित ( ष्ट ) वाक्यो लोलदृष्तिर्दयालुर्मैथुनप्रियः ।
गान्धर्ववित्कण्ठरोगी कीर्तिभागी धनी गुणी ॥४॥
गौरो दीर्घः पटुर्वक्ता मेधावी च दृढव्रतः ।
समर्थो न्यायवादी च जायते मिथुने नरः ॥५॥
कार्यकारी धनी शूरो धर्मिष्ठो गुरुवत्सलः ।
शिरोरोगी महाबुद्धिः कृशाङ्गः कृत्यवित्तमः ॥६॥
प्रवासशीलः कोपान्धोऽबलो दुःखी सुमित्रकः ।
अनासक्तो गृहे वक्रः कर्कराशौ भवेन्नरः ॥७॥
क्षमायुक्तः क्रियासक्तो मद्यमांसरतः सदा ।
देशभ्रमणशीलश्च शीतभीतः सुमित्रकः ॥८॥
विनयी शीघ्रकोपी च जननीपितृवल्लभः ।
व्यसनी प्रकटो लोके सिंहराशौ भवेन्नरः ॥९॥
विलासी सुजनाह्लादी सुभगो धर्मपूरितः ।
दाता दक्षः कविर्वृद्धो वेदमार्गपरायणः ॥१०॥
सर्वलोकप्रियो नाट्यगान्धर्वव्यसने रतः ।
प्रवासशीलः स्त्रीदुःखी कन्याजातो भवेन्नरः ॥११॥
अस्थानरोषणो दुःखी मृदुभाषी कृपान्वितः ।
चलाक्षश्चललक्ष्मीको गृहमध्येऽतिविक्रमः ॥१२॥
वाणिज्यदक्षो देवानां पूजको मित्रवत्सलः ।
प्रवासी सुदृदामिष्टस्तुलाजातो भवेन्नरः ॥१३॥
बालप्रवासी क्रूरात्मा शूरः पिङ्गललोचनः ।
परदाररतो मानी निष्ठुरः स्वजने भवेत् ॥१४॥
साहसप्राप्तलक्ष्मीको जनन्यामपि दुष्टधीः ।
धूर्तश्चौरकलारम्भी वृश्चिके जायते नरः ॥१५॥
शूरः सत्याधिया युक्तः सात्त्विको जननन्दनः ।
शिल्पविज्ञानसंपन्नो धनाढ्यो दिव्यभार्यकः ॥१६॥
मानी चरित्रसंपन्नो ललिताक्षरभाषकः ।
तेजस्वी स्थूलदेहश्च धनुर्जातः कुलान्तकः ॥१७॥
कुले नेष्टो वशः स्त्रीणां पण्डितः परिवादकः ।
गीतज्ञो ललितग्राह्यो पुत्राढ्यो मातृवत्सलः ॥१८॥
धनी त्यागी सुभृत्यश्च दयालुर्बहुबान्धवः ।
परिचिन्तितसौख्यश्च मकरे जायते नरः ॥१९॥
दाताऽलसः कृतज्ञश्च गजवाजिधनेश्वरः ।
शुभदृष्टिः सदा सौम्यो धनविद्याकृतोद्यमः ॥२०॥
पुण्याढ्यः स्नेहकीर्तिश्च धनभोगी स्वशक्तितः ।
शालूरकुक्षिर्निर्भीतः कुम्भे जातो भवेन्नरः ॥२१॥
गम्भीरचेष्टितः शूरः पटुवाक्यो नरोत्तमः ।
कोपनः कृपणो ज्ञानी गुणश्रेष्ठः कुलप्रियः ॥२२॥
नित्यसेवी शीघ्रगामी गान्धर्वकुशलः शुभः ।
मीनराशौ समुत्पन्नो जायते बन्धुवत्सलः ॥२३॥