चन्द्रात्प्रथमगो भौमो जन्मकाले यदा भवेत् ।
रक्ताक्षी रुधिरस्त्रावी रक्तवर्णों भवेन्नरः ॥१॥
चन्द्राद्वितीयगो भौमो जन्मकाले यदा भवेत् ।
धराधीशो भवेत्पुत्रः कृषिकर्ता न संशयः ॥२॥
चन्द्रात्तृतीयगो भौमो जन्मकाले यदा भवेत् ।
चतुर्भ्रातृसमायुक्तः सुशीलः सर्वदा सुखी ॥३॥
चन्द्राच्चतुर्थगो भौमो जन्मकाले यदा भवेत् ।
सुखभङ्गीं दरिद्री स्यात्पुंसः स्त्री म्रियते ध्रुवम् ॥४॥
चन्द्रत्पश्चमगो भौमो जन्मकाले यदा भवेत् ।
पुत्रहीनो नरः स्त्रीणां लग्ने पतति निश्चितम् ॥५॥
चन्द्राच्च षष्ठगो भौमो जन्मकाले यदा भवेत् ।
अधर्मे शत्रुता चैव सदा रोगेण पीडितः ॥६॥
चन्द्रात्सप्तमगो भौमो जन्मकाले यदा भवेत् ।
स्त्री कुशीला भवेत्तस्य सदा चाप्रियवादिनी ॥७॥
चन्द्रादष्टमगो भौमो जन्मकाले यदा भवेत् ।
जीवहन्ता महापापी शीलसत्यविवर्जितः ॥८॥
चन्द्रान्नवमगो भौमो जन्मकाले यदा भवेत् ।
लक्ष्मीवांश्च भवेत्पुत्रो वृद्धकाले न संशयः ॥९॥
चन्द्राद्दशमगो भौमो जन्मकाले यदा भवेत् ।
तस्य द्वारेषु तिष्ठन्ति गजा वाजी न संशयः ॥१०॥
चन्द्रादेकादशे भौमो जन्मकाले यदा भवेत् ।
राजद्वारे प्रसिद्धः स्याद्यशोरुपसमन्वितः ॥११॥
चन्द्राद्वदशगो भौमो जन्मकाले यदा भवेत् ।
मातुश्चासुखकारी च सदा कष्टप्रदायकः ॥१२॥