लग्नं देहो वर्गषट्कोडुकानि प्राणश्चन्द्रो धातवोऽन्ये ग्रहेन्द्राः ।
प्राणे नष्टे देहधात्वङ्गनाशो यस्मात्तस्माच्चन्द्रवीर्यप्रधानः ॥१॥
लग्नमात्मा मनश्चन्द्रस्तदात्मा जीवयोगवान् ।
लग्नांशाद्वादशांशाद्वा ग्रहाणां फलमादिशेत् ॥२॥
इन्दुः सर्वत्र बीजाब्मो लग्नं च कुसुमप्रभम् ।
फलेन संदृशोंऽशश्च भावः स्वादुरसः स्मृतः ॥३॥