अश्विनी वारणश्चाश्वो रेवती भरणी गजः ।
पुष्यश्च कृत्तिका छागो नागश्च रोहिणी मृगः ॥१॥
आर्द्रा मूलमपि श्वा च मूषकः फाल्गुनी मघा ।
मार्जारोऽदितिराश्लेषा गोजातिरुत्तराद्वयम् ॥२॥
महिषौ स्वातिहस्तौ च मृगा ज्येष्ठाऽनुराधिका ।
व्याघ्रश्चित्रा विशाखा च श्रुत्याषाढे च मर्कटौ ॥३॥
वसुभाद्रपदाः सिंहो नकुलश्चाभिजित्स्मृतः ।
योनयः कथिता भानां वैरमैत्रीं विचारयेत् ॥४॥