मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
शिवाष्टोत्तरशतनामस्तोत्रम् ।

शिवाष्टोत्तरशतनामस्तोत्रम् ।

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.

A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


श्रीगणेशाय नमः ॥

शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः ॥

वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥१॥

शंकरः शूलपाणिश्च खट्‌वांगो विष्णुवल्लभः ॥

शिपिविष्टोऽम्बिकानाथः श्रीकंठो भक्तवत्सलः ॥२॥

भवः शर्वस्त्रिलोकेशः शितिकंठः शिवाप्रियः ॥

उग्रः कपाली कामारिर्म्धकासुरसूदनः ॥३॥

गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः ॥

भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥४॥

कैलासवासी कवची कठोरस्त्रिपुरांतकः ॥

वृषांको वृषभारूढो भस्मोद्धूलितविग्रहः ॥५॥

सामप्रियः स्वरमयस्त्रयीमूर्तिरनीश्वरः ॥

सर्वज्ञः परमात्मा च सोमसूर्यग्निलोचनः ॥६॥

हविर्यज्ञमयः सोमः पंचवक्त्रः सदाशिवः ॥

विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥७॥

हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनघः ॥

भुजंगभूषणो गर्भो गिरिधन्वा गिरिप्रियः ॥८॥

कृत्तिवासाः पुरारातिर्भगवान् प्रमथाधिपः ॥

मृत्युंजयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥९॥

व्योमकेशो महासेनजनकश्चारिविक्रमः ॥

रुद्रो भूतपतिः स्थाणुरहिर्बुध्न्यो दिगम्बरः ॥१०॥

अष्टमूर्तिरनेकात्मा सात्त्विकः शुद्धविग्रहः ॥

शाश्वतः खंडपरशू रजःपाशविमोचनः ॥११॥

मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः ॥

पूषदन्तभिदव्यग्रो दक्षाघ्वरहरो हरः ॥१२॥

भगनेत्रभिदव्यक्तः सहस्त्राक्षः सहस्त्रपात् ॥

अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥१३॥

इति श्रीशिवोष्टोत्तरशतनामस्तोत्रं संपूर्णम् ।

N/A

References : N/A
Last Updated : February 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP