मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे| अथर्वशिरोपनिषत् शिव स्तोत्रे चमकाध्यायः श्री रुद्राध्याय ॐ नागेन्द्रहाराय त्रिलोचन... शिवकवच श्री शंभो मयि करुणाशिशिरा... क्षीराम्भोनिधिमन्थनोद्भवव... ॥श्रीगुरुभ्यो नमः॥ विश्वे... नमस्ते रूद्र मन्यव उतोत इ... साम्बो नः कुलदैवतं पशुपते... दक्षिणामूर्तिस्तोत्र सूतसंहिता सदञ्चित मुदञ्चित निकुञ्चि... प्रपन्नजनसन्दोह-प्रत्यह-ध... ॥ध्यानम् ॥ वामे भूधरजा पु... श्री सदाशिवब्रह्मेन्द्रवि... वस्तां पिशङ्गं वसनं दिशो ... नागेन्द्रहाराय त्रिलोचनाय... सदा सद्योजातस्मितमधुरसास्... श्री गणेशाय नमः । जय देव ... स्कन्दः - हृष्टां देवीं त... मार्कण्डेयप्रोक्तं नरसिंह... नरसिंहपुरने मार्कण्डेय उ... विश्वं दर्पणदृश्यमाननगरीत... ॥श्रीमद् अप्पय्यदीक्षितेन... गणेशं शारदां शंभुं देवीं ... कृष्णार्जुनावूचतुः । नमो ... हरिः ॐ नमोऽत्वनन्ताय सहस्... अतिभीषणकटुभाषणयमकिङ्किरपट... शिवसूत्र शाम्भवोपाय चैतन... ॐ नमः शिवाय शर्वाय देवदेव... ॐ नमः शिवाय । निखिलभुवनजन... गौरीनाथं विश्वनाथं शरण्यं... जय शङ्कर पार्वतीपते मृड श... गले कलितकालिमः प्रकटितेन्... अथर्वशिरोपनिषत् नमः शिवाय भर्गाय लीलाशबरर... शिव हरे शिव राम सखे प्रभो... जय शंकर पार्वतीपते मृडशम्... देयासुर्मूर्ध्नि राजत्सरस... कल्याणं नो विधत्तां कटकतट... नमः शिवाभ्यां नवयौवनाभ्या... पशूनांपतिं पापनाशं परेशं ... जगत्गुरो नमस्तुभ्यं शिवाय... विश्वेश्वराय नरकार्णवतारण... अतिभीषणकटुभाषणयमकिंकरपटली... कृपासमुद्रं सुमुखं त्रिने... स्फटिकप्रतिभटकान्त विरचित... अद्य मे सफलं जन्म चाद्य म... स्वप्रकाशशिवरूपसद्गुरुं न... नमः शिवाय भर्गाय लीलाशबरर... निधनपतये नमः । निधनपतान्त... अस्य श्री किरातवराही स्तो... गौरीपते जय गौरीपते जय । ग... प्रालेयाचलमिदुकुन्दधवलं ग... वेदशास्त्रपुराणेतिहासकाव्... श्रीमदात्मने गुणैकसिन्धवे... १ श्रीनन्दिकेश्वर प्रार्थ... शंभो शंकर साम्ब शंकर हर ह... जय शंकर पार्वतीपते मृडशम्... कनकसभागत काञ्चनविग्रह काम... देयासुर्मूर्ध्नि राजत्सरस... कल्याणं नो विधत्तां कटकतट... महिम्नः पारं ते परमविदुषो... नमः शिवाभ्यां नवयौवनाभ्या... पशूनांपतिं पापनाशं परेशं ... सदञ्चितमुदञ्चित निकुञ्चित... गलद्दानगण्डं मिलद्भृङ्गषण... जगत्गुरो नमस्तुभ्यं शिवाय... गौरीनाथं विश्वनाथं शरण्यं... विश्वेश्वराय नरकार्णवतारण... ओङ्कारं बिन्दुसंयुक्तं नि... आदौ कर्मप्रसन्ङ्गात् कलयत... अतिभीषणकटुभाषणयमकिंकरपटली... सप्तार्णवपरिक्षिप्तां द्व... अद्य मे सफलं जन्म चाद्य म... चरितं देवदेवस्य महादेवस्य... स्फटिकप्रतिभटकान्त विरचित... ध्यायेन्निरामयं वस्तु सर्... निखिलभुवनजन्मस्थेमभङ्गप्र... रत्नैः कल्पितमासनं हिमजलै... शिव स्तोत्रे महिमा अथ शिवस्तोत्राणि शिवकवचम् शिवमानसपूजा शिवमहिम्न: स्तोत्रम् शिवभुजंगप्रयातस्तोत्रम् शिवषडाक्षरस्तोत्रम् शिवापराधक्षमापनस्तोत्रम् रावणकृतशिवतांडवस्तोत्रम् द्वादशज्योतिर्लिंङ्गस्तोत्रम् शिवस्तुति: पशुपत्यष्टकम् लिंगाष्टकम् वेदसारशिवस्तव: विश्वनाथाष्टकम् शिवनामावल्यष्टकम् प्रदोषस्तोत्राष्टकम् निर्वाणदशकम् चन्द्रशेखराष्टकम् कालभैरवाष्टकम् असितकृतशिवस्तोत्रम् हिमालयकृतस्तोत्रम् शिवाष्टकम् उमामहेश्वरस्तोत्रम् दारिद्र्य दहन शिवस्तोत्रं वेदसारशिवस्तोत्रम् शम्भुस्तोत्रम् शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् शिवप्रातःस्मरणस्तोत्रम् शिवरक्षास्तोत्रं शिवमहिमस्तोत्रम् शिवाष्टोत्तरशतनामस्तोत्रम् । तत्त्वार्यास्तवः दक्षिणामूर्ति स्तोत्रम् श्री दक्षिणामूर्ति स्तोत्रम् द्वादश ज्योतिर्लिङ्गानि नटराजस्तोत्र महामृत्युञ्जयस्तोत्रम् मार्गबंधु स्तोत्रं श्रीमृत्युञ्जयमानसिकपूजास्तोत्रम् मृतसञ्जीवन स्तोत्रम् श्री रुद्रप्रश्नः चमकप्रश्नः श्री रुद्रकवचम् सांब सदाशिव अक्षरमाला शिव कवचम् शिवमीडेस्तवरत्नम् शिवरक्षास्तोत्रं शिवषडक्षर स्तोत्रम् शिवसूत्र शिवानन्द लहरी ईश गिरीश नरेश परेश महेश ब... उत्तिष्ट भैरवस्वामिन् काश... हर हर महादेव अथर्वशिरोपनिषत् शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against, Himalayas. Tags : godgoddessprayershankarshivstotraशंकरशिवस्तोत्र अथर्वशिरोपनिषत् Translation - भाषांतर अथर्ववेदीय शैव उपनिषत्॥अथर्वशिरसामर्थमनर्थप्रोचवाचकम्।सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम्॥ॐ भद्रं कर्णेभिः शृणुयाम देवाभद्रं पश्येमाक्षभिर्यजत्राः।स्थिरैरङ्गैस्तुष्टुवांसस्तनूभि-र्व्यशेम देवहितं यदायुः॥स्वस्ति न इन्द्रो वॄद्धश्रवाःस्वस्ति नः पूषा विश्ववेदाः।स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिःस्वस्ति नो बृहस्पतिर्दधातु॥ॐ शान्तिः शान्तिः शान्तिः॥ॐ देवा ह वै स्वर्गं लोकमायंस्ते रुद्रमपृच्छन्कोभवानिति। सोऽब्रवीदहमेकः प्रथममासं वर्तामि चभविश्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति।सोऽन्तरादन्तरं प्राविशत् दिशश्चान्तरं प्राविशत्सोऽहं नित्यानित्योऽहं व्यक्ताव्यक्तो ब्रह्माब्रह्माहं प्राञ्चःप्रत्यञ्चोऽहं दक्षिणाञ्च उदञ्चोहंअधश्चोर्ध्वं चाहं दिशश्च प्रतिदिशश्चाहंपुमानपुमान् स्त्रियश्चाहं गायत्र्यहं सावित्र्यहंत्रिष्टुब्जगत्यनुष्टुप् चाहं छन्दोऽहं गार्हपत्योदक्षिणाग्निराहवनीयोऽहं सत्योऽहं गौरहंगौर्यहमृगहं यजुरहं सामाहमथर्वाङ्गिरसोऽहंज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठोऽहमापोऽहं तेजोऽहंगुह्योहंअरण्योऽहमक्षरमहं क्षरमहं पुष्करमहंपवित्रमहमुग्रं च मध्यं च बहिश्चपुरस्ताज्ज्योतिरित्यहमेव सर्वेभ्यो मामेव स सर्वः समां योमां वेद स सर्वान्देवान्वेद सर्वांश्च वेदान्साङ्गानपिब्रह्म ब्राह्मणैश्च गां गोभिर्ब्राह्माणान्ब्राह्मणेनहविर्हविषा आयुरायुषा सत्येन सत्यं धर्मेण धर्मंतर्पयामि स्वेन तेजसा। ततो ह वै ते देवा रुद्रमपृच्छन्ते देवा रुद्रमपश्यन्।ते देवा रुद्रमध्यायन् ततो देवा ऊर्ध्वबाहवो रुद्रं स्तुवन्ति॥ १॥ॐ यो वै रुद्रः स भगवान्यश्च ब्रह्मा तस्मै वै नमोनमः॥ १॥यो वै रुद्रः स भगवान् यश्च विष्णुस्तस्मै वै नमोनमः॥२॥यो वै रुद्रः स भगवान्यश्च स्कन्दस्तस्मै वै नमोनमः॥ ३॥यो वै रुद्रः स भगवान्यश्चेन्द्रस्तस्मै वै नमोनमः॥ ४॥यो वै रुद्रः स भगवान्यश्चाग्निस्तस्मै वै नमोनमः॥ ५॥यो वै रुद्रः स भगवान्यश्च वायुस्तस्मै वै नमोनमः॥ ६॥यो वै रुद्रः स भगवान्यश्च सूर्यस्तस्मै वै नमोनमः॥ ७॥यो वै रुद्रः स भगवान्यश्च सोमस्तस्मै वै नमोनमः॥ ८॥यो वै रुद्रः स भगवान्ये चाष्टौ ग्रहास्तस्मै वै नमोनमः॥ ९॥यो वै रुद्रः स भगवान्ये चाष्टौ प्रतिग्रहास्तस्मै वैनमोनमः॥ १०॥यो वै रुद्रः स भगवान्यच्च भूस्तस्मै वै नमोनमः॥ ११॥यो वै रुद्रः स भगवान्यच्च भुवस्तस्मै वै नमोनमः॥ १२॥यो वै रुद्रः स भगवान्यच्च स्वस्तस्मै वै नमोनमः॥ १३॥यो वै रुद्रः स भगवान्यच्च महस्तस्मै वै नमोनमः॥ १४॥यो वै रुद्रः स भगवान्या च पृथिवी तस्मै वै नमोनमः॥१५॥यो वै रुद्रः स भगवान्यच्चान्तरिक्षं तस्मै वै नमोनमः॥ १६॥यो वै रुद्रः स भगवान्या च द्यौस्तस्मै वै नमोनमः॥ १७॥यो वै रुद्रः स भगवान्याश्चापस्तस्मै वै नमोनमः॥ १८॥यो वै रुद्रः स भगवान्यच्च तेजस्तस्मै वै नमोनमः॥ १९॥यो वै रुद्रः स भगवान्यश्च कालस्तस्मै वै नमोनमः॥ २०॥यो वै रुद्रः स भगवान्यश्च यमस्तस्मै वै नमोनमः॥ २१॥यो वै रुद्रः स भगवान्यश्च मृत्युस्तस्मै वै नमोनमः॥ २२॥यो वै रुद्रः स भगवान्यच्चामृतं तस्मै वै नमोनमः॥२३॥यो वै रुद्रः स भगवान्यच्चाकाशं तस्मै वै नमोनमः॥२४॥यो वै रुद्रः स भगवान्यच्च विश्वं तस्मै वै नमोनमः॥२५॥यो वै रुद्रः स भगवान्याच्च स्थूलं तस्मै वै नमोनमः॥२६॥यो वै रुद्रः स भगवान्यच्च सूक्ष्मं तस्मै वै नमोनमः॥२७॥यो वै रुद्रः स भगवान्यच्च शुक्लं तस्मै नमोनमः॥ २८॥यो वै रुद्रः स भगवान्यच्च कृष्णं तस्मै वै नमोनमः॥ २९॥यो वै रुद्रः स भगवान्यच्च कृत्स्नं तस्मै वै नमोनमः॥३०॥यो वै रुद्रः स भगवान्यच्च सत्यं तस्मै वै नमोनमः॥ ३१॥यो वै रुद्रः स भगवान्यच्च सर्वं तस्मै वै नमोनमः॥३२॥॥ २॥भूस्ते आदिर्मध्यं भुवः स्वस्ते शीर्षं विश्वरूपोऽसिब्रह्मैकस्त्वं द्विधा त्रिधावृद्धिस्तं शान्तिस्त्वं पुष्टिस्त्वं हुतमहुतं दत्तमदत्तंसर्वमसर्वं विश्वमविश्वंकृतमकृतं परमपरं परायणं च त्वम्। अपामसोमममृता अभूमागन्म ज्योतिरविदाम देवान्।किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृतं मार्त्यस्य।सोमसूर्यपुरस्तात् सूक्ष्मः पुरुषः।सर्वं जगद्धितं वा एतदक्षरं प्राजापत्यं सूक्ष्मंसौम्यं पुरुषं ग्राह्यमग्राह्येण भावं भावेन सौम्यंसौम्येन सूक्ष्मं सूक्ष्मेण वायव्यं वायव्येन ग्रसति स्वेनतेजसा तस्मादुपसंहर्त्रे महाग्रासाय वै नमो नमः।हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः। हृदित्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः। तस्योत्तरतः शिरोदक्षिणतः पादौ य उत्तरतः स ओङ्कारः य ओङ्कारः स प्रणवःयः प्रणवः स सर्वव्यापी यः सर्वव्यापी सोऽनन्तःयोऽनन्तस्तत्तारं यत्तारं तत्सूक्ष्मं तच्छुक्लंयच्छुक्लं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्म यत्परंब्रह्म स एकः य एकः स रुद्रः य रुद्रः यो रुद्रः स ईशानः यईशानः स भगवान् महेश्वरः॥ ३॥अथ कस्मादुच्यत ओङ्कारो यस्मादुच्चार्यमाण एवप्राणानूर्ध्वमुत्क्रामयति तस्मादुच्यते ओङ्कारः।अथ कस्मादुच्यते प्रणवः यस्मादुच्चार्यमाण एवऋग्यजुःसामाथर्वाङ्गिरसं ब्रह्म ब्राह्मणेभ्यः प्रणामयतिनामयति च तस्मादुच्यते प्रणवः।अथ कस्मादुच्यते सर्वव्यापी यस्मादुच्चार्यमाण एवसर्वांलोकान्व्याप्नोति स्नेहो यथा पललपिण्डमिवशान्तरूपमोतप्रोतमनुप्राप्तो व्यतिषक्तश्च तस्मादुच्यतेसर्वव्यापी।अथ कस्मादुच्यतेऽनन्तो यस्मादुच्चार्यमाण एवतिर्यगूर्ध्वमधस्ताच्चास्यान्तो नोपलभ्यतेतस्मादुच्यतेऽनन्तः।अथ कस्मादुच्यते तारं यस्मादुच्चारमाण एवगर्भजन्मव्याधिजरामरणसंसारमहाभयात्तारयति त्रायतेच तस्मादुच्यते तारम्।अथ कस्मादुच्यते शुक्लं यस्मादुच्चार्यमाण एव क्लन्दतेक्लामयति च तस्मादुच्यते शुक्लम्।अथ कस्मादुच्यते सूक्ष्मं यस्मादुच्चार्यमाण एव सूक्ष्मोभूत्वा शरीराण्यधितिष्ठति सर्वाणि चाङ्गान्यमिमृशतितस्मादुच्यते सूक्ष्मम्।अथ कस्मादुच्यते वैद्युतं यस्मादुच्चार्यमाण एव व्यक्तेमहति तमसि द्योतयति तस्मादुच्यते वैद्युतम्। अथकस्मादुच्यते परं ब्रह्म यस्मात्परमपरं परायणं चबृहद्बृहत्या बृंहयति तस्मादुच्यते परं ब्रह्म।अथ कस्मादुच्यते एकः यः सर्वान्प्राणान्संभक्ष्यसंभक्षणेनाजः संसृजति विसृजति तीर्थमेके व्रजन्तितीर्थमेके दक्षिणाः प्रत्यञ्च उदञ्चःप्राञ्चोऽभिव्रजन्त्येके तेषां सर्वेषामिह सद्गतिः। साकंस एको भूतश्चरति प्रजानां तस्मादुच्यत एकः।अथ कस्मादुच्यते रुद्रःयस्मादृषिभिर्नान्यैर्भक्तैर्द्रुतमस्य रूपमुपलभ्यतेतस्मादुच्यते रुद्रः।अथ कस्मादुच्यते ईशानः यः सर्वान्देवानीशतेईशानीभिर्जननीभिश्च परमशक्तिभिः। अमित्वा शूर णोनुमो दुग्धा इव धेनवः। ईशानमस्य जगतःस्वर्दृशमीशानमिन्द्र तस्थिष इति तस्मादुच्यते ईशानः।अथ कस्मादुच्यते भगवान्महेश्वरः यस्माद्भक्ता ज्ञानेनभजन्त्यनुगृह्णाति च वाचं संसृजति विसृजति चसर्वान्भावान्परित्यज्यात्मज्ञानेन योगेश्वैर्येण महति महीयतेतस्मादुच्यतेभगवान्महेश्वरः। तदेतद्रुद्रचरितम्॥ ४॥एको ह देवः प्रदिशो नु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः।स एव जातः जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः।एको रुद्रो न द्वितीयाय तस्मै य इमांल्लोकानीशत ईशनीभिः।प्रत्यङ्जनास्तिष्ठति संचुकोचान्तकाले संसृज्य विश्वाभुवनानि गोप्ता।यो योनिं योनिमधितिष्ठतित्येको येनेदं सर्वं विचरतिसर्वम्।तमीशानं पुरुषं देवमीड्यं निचाय्येमांशान्तिमत्यन्तमेति।क्षमां हित्वा हेतुजालास्य मूलं बुद्ध्या संचितंस्थापयित्वा तु रुद्रे।रुद्रमेकत्वमाहुः शाश्वतं वै पुराणमिषमूर्जेणपशवोऽनुनामयन्तं मृत्युपाशान्।तदेतेनात्मन्नेतेनार्धचतुर्थेन मात्रेण शान्तिं संसृजन्तिपशुपाशविमोक्षणम्।या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन यस्तांध्यायते नित्यं स गच्छेत्ब्रह्मपदम्।या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेनयस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदम्। या सातृतीया मात्रा ईशानदेवत्या कपिला वर्णेन यस्तांध्यायते नित्यं स गच्छेदैशानं पदम्।या सार्धचतुर्थी मात्रा सर्वदेवत्याऽव्यक्तीभूता खंविचरति शुद्धा स्फटिकसन्निभा वर्णेन यस्तां ध्यायतेनित्यं स गच्छेत्पदमनामयम्।तदेतदुपासीत मुनयो वाग्वदन्ति न तस्य ग्रहणमयं पन्थाविहित उत्तरेण येन देवा यान्ति येन पितरो येन ऋषयःपरमपरं परायणं चेति।वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातरूपंवरेण्यम्।तमात्मस्थं येनु पश्यन्ति धीरास्तेषां शान्तिर्भवतिनेतरेषाम्।यस्मिन्क्रोधं यां च तृष्णां क्षमां चाक्षमां हित्वाहेतुजालस्य मूलम्।बुद्ध्या संचितं स्थापयित्वा तु रुद्रे रुद्रमेकत्वमाहुः।रुद्रो हि शाश्वतेन वै पुराणेनेषमूर्जेण तपसा नियन्ता।अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्मव्योमेति भस्म सर्वंह वा इदं भस्म मन एतानिचक्षूंषि यस्माद्व्रतमिदं पाशुपतं यद्भस्म नाङ्गानिसंस्पृशेत्तस्माद्ब्रह्म तदेतत्पाशुपतं पशुपाशविमोक्षणाय॥ ५॥योऽग्नौ रुद्रो योऽप्स्वन्तर्य ओषधीर्वीरुध आविवेश। य इमाविश्वा भुवनानि चक्लृपे तस्मै रुद्राय नमोऽस्त्वग्नये।यो रुद्रोऽग्नौ यो रुद्रोऽप्स्वन्तर्यो ओषधीर्वीरुध आविवेश।यो रुद्र इमा विश्वा भुवनानि चक्लृपे तस्मै रुद्रायनमोनमः।यो रुद्रोऽप्सु यो रुद्र ओषधीषु यो रुद्रो वनस्पतिषु। येनरुद्रेण जगदूर्ध्वंधारितं पृथिवी द्विधा त्रिधा धर्ताधारिता नागा येऽन्तरिक्षे तस्मै रुद्राय वै नमोनमः।मूर्धानमस्य संसेव्याप्यथर्वा हृदयं च यत्।मस्तिष्कादूर्ध्वं प्रेरयत्यवमानोऽधिशीर्षतः।तद्वाअथर्वणः शिरो देवकोशः समुज्झितः। तत्प्राणोऽभिरक्षतिशिरोऽन्तमथो मनः। न च दिवो देवजनेन गुप्ता नचान्तरिक्षाणि न च भूम इमाः।यस्मिन्निदं सर्वमोतप्रोतं तस्मादन्यन्न परं किञ्चनास्ति।न तस्मात्पूर्वं न परं तदस्ति न भूतं नोत भव्यंयदासीत्। सहस्रपादेकमूर्ध्ना व्याप्तं स एवेदमावरीवर्तिभूतम्।अक्षरात्संजायते कालः कालाद्व्यापक उच्यते। व्यापको हिभगवान्रुद्रो भोगायमनो यदा शेते रुद्रस्तदा संहार्यतेप्रजाः।उच्छ्वासिते तमो भवति तमस आपोऽप्स्वङ्गुल्या मथितेमथितं शिशिरे शिशिरं मथ्यमानं फेनं भवति फेनादण्डंभवत्यण्डाद्ब्रह्मा भवति ब्रह्मणो वायुः वायोरोङ्कारःॐकारात्सावित्री सावित्या गायत्री गायत्र्या लोका भवन्ति।अर्चयन्ति तपः सत्यं मधु क्षरन्ति यद्भुवम्। एतद्धिपरमं तपः। आपोऽज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरोनम इति॥ ६॥य इदमथर्वशिरो ब्राह्मणोऽधीते अश्रोत्रियः श्रोत्रियो भवतिअनुपनीत उपनीतो भवति सोऽग्निपूतो भवति स वायुपूतोभवति स सूर्यपूतो भवति स सर्वेर्देवैर्ज्ञातो भवति ससर्वैर्वेदैरनुध्यातो भवति स सर्वेषु तीर्थेषु स्नातोभवति तेन सर्वैः क्रतुभिरिष्टं भवति गायत्र्याःषष्टिसहस्राणि जप्तानि भवन्ति इतिहासपुराणानांरुद्राणां शतसहस्राणि जप्तानि भवन्ति। प्रणवानामयुतंजप्तं भवति। स चक्षुषः पङ्क्तिं पुनाति। आसप्तमात्पुरुषयुगान्पुनातीत्याह भगवानथर्वशिरःसकृज्जप्त्वैव शुचिः स पूतः कर्मण्यो भवति। द्वितीयंजप्त्वा गणाधिपत्यमवाप्नोति। तृतीयंजप्त्वैवमेवानुप्रविशत्यों सत्यमों सत्यमों सत्यम् ॥७॥ॐ भद्रं कर्णेभिरिति शान्तिः॥॥ इत्यथर्वशिरउपनिषत्समाप्ता॥ N/A References : N/A Last Updated : January 24, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP