मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे| कल्याणं नो विधत्तां कटकतट... शिव स्तोत्रे चमकाध्यायः श्री रुद्राध्याय ॐ नागेन्द्रहाराय त्रिलोचन... शिवकवच श्री शंभो मयि करुणाशिशिरा... क्षीराम्भोनिधिमन्थनोद्भवव... ॥श्रीगुरुभ्यो नमः॥ विश्वे... नमस्ते रूद्र मन्यव उतोत इ... साम्बो नः कुलदैवतं पशुपते... दक्षिणामूर्तिस्तोत्र सूतसंहिता सदञ्चित मुदञ्चित निकुञ्चि... प्रपन्नजनसन्दोह-प्रत्यह-ध... ॥ध्यानम् ॥ वामे भूधरजा पु... श्री सदाशिवब्रह्मेन्द्रवि... वस्तां पिशङ्गं वसनं दिशो ... नागेन्द्रहाराय त्रिलोचनाय... सदा सद्योजातस्मितमधुरसास्... श्री गणेशाय नमः । जय देव ... स्कन्दः - हृष्टां देवीं त... मार्कण्डेयप्रोक्तं नरसिंह... नरसिंहपुरने मार्कण्डेय उ... विश्वं दर्पणदृश्यमाननगरीत... ॥श्रीमद् अप्पय्यदीक्षितेन... गणेशं शारदां शंभुं देवीं ... कृष्णार्जुनावूचतुः । नमो ... हरिः ॐ नमोऽत्वनन्ताय सहस्... अतिभीषणकटुभाषणयमकिङ्किरपट... शिवसूत्र शाम्भवोपाय चैतन... ॐ नमः शिवाय शर्वाय देवदेव... ॐ नमः शिवाय । निखिलभुवनजन... गौरीनाथं विश्वनाथं शरण्यं... जय शङ्कर पार्वतीपते मृड श... गले कलितकालिमः प्रकटितेन्... अथर्वशिरोपनिषत् नमः शिवाय भर्गाय लीलाशबरर... शिव हरे शिव राम सखे प्रभो... जय शंकर पार्वतीपते मृडशम्... देयासुर्मूर्ध्नि राजत्सरस... कल्याणं नो विधत्तां कटकतट... नमः शिवाभ्यां नवयौवनाभ्या... पशूनांपतिं पापनाशं परेशं ... जगत्गुरो नमस्तुभ्यं शिवाय... विश्वेश्वराय नरकार्णवतारण... अतिभीषणकटुभाषणयमकिंकरपटली... कृपासमुद्रं सुमुखं त्रिने... स्फटिकप्रतिभटकान्त विरचित... अद्य मे सफलं जन्म चाद्य म... स्वप्रकाशशिवरूपसद्गुरुं न... नमः शिवाय भर्गाय लीलाशबरर... निधनपतये नमः । निधनपतान्त... अस्य श्री किरातवराही स्तो... गौरीपते जय गौरीपते जय । ग... प्रालेयाचलमिदुकुन्दधवलं ग... वेदशास्त्रपुराणेतिहासकाव्... श्रीमदात्मने गुणैकसिन्धवे... १ श्रीनन्दिकेश्वर प्रार्थ... शंभो शंकर साम्ब शंकर हर ह... जय शंकर पार्वतीपते मृडशम्... कनकसभागत काञ्चनविग्रह काम... देयासुर्मूर्ध्नि राजत्सरस... कल्याणं नो विधत्तां कटकतट... महिम्नः पारं ते परमविदुषो... नमः शिवाभ्यां नवयौवनाभ्या... पशूनांपतिं पापनाशं परेशं ... सदञ्चितमुदञ्चित निकुञ्चित... गलद्दानगण्डं मिलद्भृङ्गषण... जगत्गुरो नमस्तुभ्यं शिवाय... गौरीनाथं विश्वनाथं शरण्यं... विश्वेश्वराय नरकार्णवतारण... ओङ्कारं बिन्दुसंयुक्तं नि... आदौ कर्मप्रसन्ङ्गात् कलयत... अतिभीषणकटुभाषणयमकिंकरपटली... सप्तार्णवपरिक्षिप्तां द्व... अद्य मे सफलं जन्म चाद्य म... चरितं देवदेवस्य महादेवस्य... स्फटिकप्रतिभटकान्त विरचित... ध्यायेन्निरामयं वस्तु सर्... निखिलभुवनजन्मस्थेमभङ्गप्र... रत्नैः कल्पितमासनं हिमजलै... शिव स्तोत्रे महिमा अथ शिवस्तोत्राणि शिवकवचम् शिवमानसपूजा शिवमहिम्न: स्तोत्रम् शिवभुजंगप्रयातस्तोत्रम् शिवषडाक्षरस्तोत्रम् शिवापराधक्षमापनस्तोत्रम् रावणकृतशिवतांडवस्तोत्रम् द्वादशज्योतिर्लिंङ्गस्तोत्रम् शिवस्तुति: पशुपत्यष्टकम् लिंगाष्टकम् वेदसारशिवस्तव: विश्वनाथाष्टकम् शिवनामावल्यष्टकम् प्रदोषस्तोत्राष्टकम् निर्वाणदशकम् चन्द्रशेखराष्टकम् कालभैरवाष्टकम् असितकृतशिवस्तोत्रम् हिमालयकृतस्तोत्रम् शिवाष्टकम् उमामहेश्वरस्तोत्रम् दारिद्र्य दहन शिवस्तोत्रं वेदसारशिवस्तोत्रम् शम्भुस्तोत्रम् शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् शिवप्रातःस्मरणस्तोत्रम् शिवरक्षास्तोत्रं शिवमहिमस्तोत्रम् शिवाष्टोत्तरशतनामस्तोत्रम् । तत्त्वार्यास्तवः दक्षिणामूर्ति स्तोत्रम् श्री दक्षिणामूर्ति स्तोत्रम् द्वादश ज्योतिर्लिङ्गानि नटराजस्तोत्र महामृत्युञ्जयस्तोत्रम् मार्गबंधु स्तोत्रं श्रीमृत्युञ्जयमानसिकपूजास्तोत्रम् मृतसञ्जीवन स्तोत्रम् श्री रुद्रप्रश्नः चमकप्रश्नः श्री रुद्रकवचम् सांब सदाशिव अक्षरमाला शिव कवचम् शिवमीडेस्तवरत्नम् शिवरक्षास्तोत्रं शिवषडक्षर स्तोत्रम् शिवसूत्र शिवानन्द लहरी ईश गिरीश नरेश परेश महेश ब... उत्तिष्ट भैरवस्वामिन् काश... हर हर महादेव शिवपादादिकेशान्तवर्णनस्तोत्रम् - कल्याणं नो विधत्तां कटकतट... शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against, Himalayas. Tags : sanskritshankarshivstotraशंकरशिवसंस्कृतस्तोत्र शिवपादादिकेशान्तवर्णनस्तोत्रम् Translation - भाषांतर कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः ।तारैर्हेरंबनादैस्तरलितनिनदत्तारकारातिकेकीकैलासः शर्वनिर्वृत्यभिजनकपद: सर्वदा पर्वतेन्द्रः ॥१॥यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगंयस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः ।मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यंसोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥२॥आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणांमातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः ।क्रूरः शूरायुतानामपि च परिभवं स्वीयभासा वितन्वन्घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥३॥कालारातेः कराग्रे कृतवसतिरुरःशाणशातो रिपूणांकाले काले कुलाद्रिप्रवरतनयया कल्पितस्नेहलेपः ।पायान्नः पावकार्चिःप्रसरसुखमुखः पापहन्ता नितान्तंशूलः श्रीपादसेवाभजनरसजुषां पालनैकान्तशीलः ॥४॥देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार-प्रस्तारानत्युदारान् पिपठिषुरिव यो नित्यमत्यादरेण ।आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्गं समोदंसोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥५॥कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैःकण्ठारावैरकुण्ठैरपि भरितजगच्चक्रवालान्तरालः ।चण्डः प्रोद्दण्डशृङ्गः ककुदकबलितोत्तुङ्गकैलासशृङ्गःकण्ठेकालस्य वाहः शमयतु शमलं शाश्वतः शाक्करेन्द्रः ॥६॥निर्यद्दानांबुधारापरिमलतरलीभूतरोलंबपालीझंकारैः शंकराद्रेः शिखरशतदरीः पूरयन् भूरिघोषैः ।शार्वः सौवर्णशैलप्रतिमपृथुवपुः सर्वविघ्नापहर्ताशर्वाण्याः पूर्वसूनुः स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः ॥७॥यः पुण्यैर्देवतानां समजनि शिवयोः श्लाघ्यवीर्यैकमत्या-द्यन्नाम्नि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते ।भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रौञ्चशैलःसंसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥८॥आरूढः प्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गंचेलं नीलं वसानः करतलविलसत् काण्डकोदण्डदण्डः ।रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ताकुर्वन्नाखेटलीलां परिलसतु मनः कानने मामकीने ॥९॥अंभोजाभ्यां च रंभारथचरणलताद्वन्द्वकुंभीन्द्रकुंभै-र्बिम्बेनेन्दोश्च कंबोरुपरिविलसता विद्रुमेणोत्पलाभ्याम् ।अम्भोदेनापि संभावितमुपजनिताडंबरं शंबरारेःशंभोः संभोगयोग्यं किमपि धनमिदं संभवेत् संपदे नः ॥१०॥वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासान्वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान् ।एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासेशोणान्प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलेः ॥११॥नृत्तारंभेषु हस्ताहतमुरजधिमिद्धिंकृतैरत्युदारै-श्चित्तानन्दं विधत्ते सदसि भगवतः संततं यः स नन्दी ।चण्डीशाद्यास्तथान्ये चतुरगुणगणप्रीणितस्वामिसत्का-रोत्कर्षोद्यत्प्रसादाः प्रमथपरिबृढाः पान्तु सन्तोषिणो नः ॥१२॥मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयंप्रत्युप्तानर्घरत्नैर्दिशि दिशि भवनैः कल्पितैर्दिक्पतीनां ।उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतंहृद्यं हृद्यस्तु नित्यं मम भुवनपतेर्धाम सोमार्धमौलेः ॥१३॥स्तंभैर्जंभारिरत्नप्रवरविरचितैः संभृतोपांतभागंशुंभत्सोपानमार्गं शुचिमणिनिचयैर्गुंभितानल्पशिल्पम् ।कुंभैः संपूर्णशोभं शिरसि सुघटितैः शातकुंभैरपङ्कैःशंभोः संभावनीयं सकलमुनिजनैः स्वस्तिदं स्यात्सदो नः ॥१४॥न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामोहृद्यः पादैश्चतुर्भिः कनकमणिमयैरुच्चकैरुज्ज्वलात्मा ।वासोरत्नेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्रीःपीठः पीडाभरं नः शमयतु शिवयोः स्वैरसंवासयोग्यः ॥१५॥आसीनस्याधिपीठं त्रिजगदधिपतेरंघ्रिपीठानुषक्तौपाथोजाभोगभाजौ परिमृदुलतलोल्लासिपद्मादिरेखौ ।पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर-श्रेणीशोणायमानोन्नतनखदशकोद्भास्मानौ समानौ ॥१६॥यन्नादो वेदचाचां निगदति निखिलं लक्षणं पक्षिकेतो-र्लक्ष्मीसंभोगसौख्यं विरचयति ययोश्चापरे रूपभेदे ।शंभोः संभावनीये पदकमलसमासङ्गतस्तुंगशोभेमांगल्यं नः समग्रं सकलसुखकरे नूपुरे पूरयेताम् ॥१७॥अंगे शृंगारयोनेः सपदि शलभतां नेत्रवह्नौ प्रयातेशत्रोरुद्धृत्य तस्मादिषुधियुगमधोन्यस्तमग्रे किमेतत् ।शङ्कामित्थं नतानाममरपरिषदामन्तरङ्कूरयत्त-त्संघातं चारु जङ्खायुगमखिलपतेरंहसां संहरेन्नः ॥१८॥जानुद्वन्द्वेन मीनध्वजनृवरसमुद्गोपमानेन साकंराजन्तौ राजरंभाकरिकरकनकस्तंभसंभावनीयौ ।ऊरू गौरीकरांभोरुहसरससमामर्दनानन्दभाजौचारू दूरीक्रियास्तां दुरितमुपचितं जन्मजन्मान्तरे नः ॥१९॥आमुक्तानर्घरत्नप्रकरकरपरिष्वक्तकल्य़ाणकाञ्ची-दाम्नाबद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टांबरेण ।संवीते शैलकन्यासुचरितपरिपाकायमाणे नितंबेनित्यं नर्नर्तु चित्तं मम निखिलजगत्स्वामिनः सोममौलेः ॥२०॥संध्याकालानुरज्यद्दिनकरसरुचा कालधौतेन गाढंव्यानद्धः स्निग्धमुग्धः सरसमुदरबन्धेन वीतोपमेन ।उद्दीप्रैः सुप्रकाशैरुपचितमहिमा मन्मथारेरुदारोमध्यो मिथ्यार्थसध्र्यङ्मम दिशतु सदा संगतिं मंगलानाम् ॥२१॥नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता-दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती ।श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामंसा मा सोमार्धमौलेः सुखयतु सततं रोमवल्लीमतल्ली ॥२२॥आश्लेषादद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क-व्यासंगादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यं ।दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानंवक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतं नः ॥२३॥वामाङ्के विस्फुरन्त्याः करतलविलसत्चारुरक्तोत्पलायाःकान्ताया वामवक्षोरुहभरशिखरोन्मर्दनव्यग्रमेकम् ।अन्यांस्त्रीनप्युदारान्वरपरशुमृगालंकृतानिन्दुमौले-र्बाहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः ॥२४॥संभ्रान्तायाः शिवायाः पतिविलयभिया सर्वलोकोपतापा-त्संविग्नस्यापि विष्णोः सरभसमुभयोर्वारणप्रेरणाभ्यां ।मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मासोऽयं सर्वापदां नः शमयतु निचयं नीलकणठस्य कण्ठः ॥२५॥हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री-रुद्योतन्त्या नितान्तं धवलधवलया मिश्रितो दन्तकान्त्या ।मुक्तामाणिक्यजालव्यतिकरसदृशा तेजसा भासमानःसद्योजातस्य दद्यादधरमणिरसौसंपदां संचयं नः ॥२६॥कर्णालंकारनानामणिनिकररुचां संचयैरञ्चितायांवर्ण्यायां स्वर्णपद्मोदरविलसत्कर्णिकासन्निभायांपद्धत्यां प्राणवायोः प्रणतजनहृदंभोजवासस्य शंभो-र्नित्यं नश्चित्तमेतद्विरचयतु सुखेनासिकां नासिकायाम् ॥२७॥अत्यन्तं भासमाने रुचिरतररुचां संगमात्सन्मणीना-मुद्यच्चण्डांशुधामप्रसरनिरसनस्पष्टदृष्टापदाने ।भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलंबेभक्तालीभालसज्जज्जनिमरणलिपेः कुण्डले कुण्डले ते ॥२८॥याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानांयेषामाहुः स्वरूपं जगति मुनिवरा देवतानां त्रयीं तांरुद्राणीवक्त्रपङ्केरुहसततविहारोत्सुकेन्दन्दिरेभ्य-स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमुपरचये त्रीक्षणस्येक्षणेभ्यः ॥२९॥वामं वामाङ्कगाया वदनसरसिजे व्यावलद्वल्लभायाव्यानम्रेष्वन्यदन्यत्पुनरलिकभवं वीतनिःशेषरौक्ष्यम् ।भुयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणेदक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयं नः ॥३०॥यस्मिन्नर्धेन्दुमुग्धद्युतिनिचयतिरस्कारनिस्तन्द्रकान्तौकाश्मीरक्षोदसंकल्पितमिव रुचिरं चित्रकं भाति नेत्रं ।तस्मिन्नुल्लोलचिल्लीनटवरतरुणीलास्यरङ्गायमाणेकालारेः फालदेशे विहरतु हृदयं वीतचिन्तान्तरं न: ॥३१॥स्वामिन् गंगामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्तींधन्यां कन्यां खरांशोः शिरसि वहति किं न्वेष कारुण्यशाली ।इत्थं शंकां जनानां जनयदतिघनं कैशिकं कालमेघ-च्छायं भूयादुदारंत्रिपुरविजयिनः श्रेयसे भूयसे नः ॥३२॥शृंगाराकल्पयोग्यैः शिखरिवरसुतासत्सखीहस्तलूनैःसूनैराबद्धमालावलिपरिविलसत्सौरभाकृष्टभृङ्गम् ।तुंगं माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रशृंगंसंघं न: संकटानां विघटयतु सदा काङ्कटीकं किरीटम् ॥३३॥वक्राकारः कलङ्की जडतनुरहमप्यङ्घ्रिसेवानुभावा-दुत्तंसत्त्वं प्रयातः सुलभतरकृपास्यन्दिनश्चन्द्रमौलेः ।तत्सेवन्तां जनौघाः शिवमिति निजयावस्थयैव ब्रुवाणंवन्दे देवस्य शंभोर्मुकुटसुघटितं मुग्धपीयूषभानुम् ॥३४॥कन्त्या संफुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराज-न्वृत्ताकारो वितन्वन्मुहुरपि च परां निर्वृतिं पादभाजां ।सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमानः पुरारेःश्वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः ॥३५॥दिव्याकल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानांरुद्राणीसत्सखीनां मदतरलकटाक्षाञ्चलैरञ्चितानाम् ।उद्वेलद्बाहुवल्लीविलसनसमये चामरान्दोलनीना-मुद्भूतः कंकणालीवलयकलकलो वारयेदापदो नः ॥३६॥स्वर्गौकःसुन्दरीणां सुललितवपुषां स्वामिसेवापराणांवल्गद्भूषाणि वक्त्रांबुजपरिविगलन्मुग्धगीतामृतानि ।नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक-प्रत्युद्यत्प्रीतिमाद्यत् प्रमथनटनटीदत्तसंभावनानि ॥३७॥स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्मञ्जुवीणा-स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम् ।नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धंगानम् वीणामहर्षेः कलमतिललितं कर्णपूरायतां नः ॥३८॥चेतो जातप्रमोदं सपदि विदधती प्राणिनां वाणिनीनांपाणिद्वन्द्वाग्रजाग्रत्सुललितरणितस्वर्णतालानुकूलास्वीयारावेण पाथोधररवपटुना नादयन्ती मयूरींमायूरी मन्दभावं मणिमुरजभवा मार्ज्जना मार्जयेन्नः ॥३९॥देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्यःसाध्येभ्यश्चारणेभ्यो मनुज पशुपतज्जातिकीटादिकेभ्यः ।श्रीकैलासप्ररूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्यःसर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ॥४०॥ध्यायन्नित्थं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यःकिं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामः समासात् ।संपज्जातं समग्रंसदसि बहुमतिं सर्वलोकप्रियत्वंसंप्राप्यायुःशतान्ते पदमयति परब्रह्मणो मन्मथारेः ॥४१॥ N/A References : N/A Last Updated : February 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP