मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
शिवमहिमस्तोत्रम्

शिवमहिमस्तोत्रम्

शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.

Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against, Himalayas.


श्रीगणेशाय नमः ॥ श्रीविष्णुरुवाच ॥

महेशानन्ताद्य त्रिगुणरहितामेय विमल स्वराकारापारामितगुणगणाकारि निवृते ॥

निराधाराधारामरवर निराकार परम प्रभापूराकारावर पर नमो वेद्य शिव ते ॥१॥

नमो वेदावेद्याखिलजगदुपादान नियतं स्वतन्त्रासामन्तानवधुतिनिजाकारविरते ॥

निर्वतन्ते वाचः शिवभजनमप्राप्य मनसा यतोऽशक्ताः स्तोतुं सकृदपि गुणातीत शिव ते ॥२॥

त्वदन्यद्वस्त्वेकं नहि भव समस्तत्रिभुवने विभुस्तवं विश्वात्मा न च परममस्तीश भवतः ॥

ध्रुवं मायातीतस्त्वमसि सततं नात्र विषयो न ते कृत्यं सत्यं क्वचिदपि विपर्येति शिव ते ॥३॥

त्वयैवेमं लोकं निखिलममलं व्याप्य सततं तथैवान्यां लोकस्थितिमनघ देवोत्तम विभो ॥

त्वयैवैतत्सृष्टं जगदखिलमीशान भगवन्विलासोऽयं कश्चित्तव शिव नमो वेद्य शिव ते ॥४॥

जगत्सृष्टेः पुर्वं यदभवदुमाकान्त सततं त्वया लीलामात्रं तदपि सकलं रक्षितमभूतम् ॥

तदेवाग्रे भालप्रकटनयनादद्भुतकराज्जगद्दग्ध्वा स्थास्यत्यज हर नमो वेद्य शिव ते ॥५॥

विभूतीनामन्तो भव न भवतो भूतिविलसन्निजाकार श्रीमन्न गुणगणसीमाप्यवगता ॥

अतद्व्यावृत्त्याऽद्धा त्वयि सकलवेदाश्च चकिता भवन्त्येवासामप्रकृतिक नमो वर्ष शिव ते ॥६॥

विराड्‌रूपं यत्तं सकलनिगमागोचरमभूत्तदेवेदं रूपं भवति किमिदं भिन्नमथवा ॥

न जाने देवेश त्रिनयन सुराराध्यचरण त्वमोंकारो वेदस्त्वमसि हि नमोऽघोर शिव ते ॥७॥

यदन्तस्तत्त्वज्ञा मुनिवरगणा रूपमनघं तदेवं सञ्चिन्त्य स्वमनसि सदा सन्नविहताः ॥

ययुर्दिव्यानन्दं तदिदमथवा किं तु न तथा किमेतज्जानेऽहं शरणद नमः शर्व शिव ते ॥८॥

तथा शक्त्या सृष्ट्वा जगदथ च संरक्ष्य बहुधा ततः संह्रत्यैवतन्निवसति तदाधारमथवा ॥

इदं ते किं रूपं निरुपम न जाने हर विभो विसर्गः को वा ते तमपि हि नमो भव्य शिव ते ॥९॥

तवानन्तान्याहुः शुचिपरमरूपाणि निगमास्तदन्तभूर्तं सत्सदसनिरुक्तं पदमपि ॥

निरुक्तं छन्दोभिर्निलयनमिदं वाऽनिलयनं न विज्ञातं ज्ञातं सकृदपि नमो ज्येष्ठ शिव ते ॥१०॥

तवाभूत्सत्यं चानृतमपि च सत्यं कृतमभूदृतं सत्यं सत्यं तदपि च यथा रूपमखिलम् ॥

यतः सत्यः सत्यं शममपि समस्तं तव विभो कृतं सत्यं सत्यानृतमपि नमो रुद्र शिव ते ॥११॥

तवामेयं मेयं यदपि तदमेयं विरचितं न वाऽमेयं मेयं रचितमपि मेयं विरचितुम् ॥

न मेयं मेयं ते न खलु परमेयं परमयं न मेय नामेयं परमपि नमो देव शिव ते ॥१२॥

तवाहारं हारं विदितमविहारं विरहसं न वाहारं हारं हर हरसि हारं न हरसि ॥

न वाहारं हारं परतर विहारं परतरं परं पारं जाने नहि खलु नमो विश्व शिव ते ॥१३॥

तदेतत्त्वत्वं ते सकलमपि तत्त्वेन विदितं न ते तत्त्वं तत्त्वं विदितमपि तत्त्वेन विदितम् ॥

न चैतत्तवं चेन्नियतमपि तत्त्वं किमु भवे न ते तत्त्वं तत्त्वं तदपि च नमो वेद्य शिव ते ॥१४॥

इदं रूपं सदसदमलं रूपमपि चेन्न जाने रूपं ते तरतमविभिन्नं परतरम् ॥

यतो नान्यद्रूपं नियतमपि वेदैर्निगदितं न जाने सर्वात्मन्क्वचिदपि नमोऽनन्त शिव ते ॥१५॥

महद्भूतं भूतं यदपि न च भूतं तव विभो सदा भुतं भूतं किमु न भवतो भूतविषये ॥

यदा भूतं भूतं भवति हि न भव्यं भगवतो भवाभूतं भाव्यं भवसि न नमो ज्येष्ठ शिव ते ॥१६॥

वशीभूता भूता सततमपि भूतात्मकतया न ते भूताभूतास्तव यदपि भूता विभुतया ॥

यतो भूता भूतास्तव तु न अहि भुतात्मकतया न वा भूता भुताः क्वचिदपि नमो भूत शिव ते ॥१७॥

न ते माया माया सततमपि भायामयतया ध्रुवं माया माया त्वयि वर न मायामयमपि ॥

यदा माया माया त्वयि न खलु मायामयतया न मायामाया वा परमथ नमस्ते शिव नमः ॥१८॥

यतन्तः संवेद्यं विदितमपि वेदैर्न विदितं न वेद्यं वेद्यं चेन्नियममपि वेद्यं न विदितम् ॥

तदेवेदं वेद्यं विदितमपि वेदान्तनिकरैः करावेद्यं वेद्यं जितमिति नमोऽतर्क्य शिव ते ॥१९॥

शिवं सेव्यं भावं शिवमतिशिवाकारमशिवं न सत्य्म शैवं तच्छिवमिति शिवं सेव्यमनिशम् ॥

शिव शान्तं मत्वा शिवपरमतत्त्वं शिवमयं न जाने रूपत्वं शिवमिति नमो वेद्य शिव ते ॥२०॥

यदज्ञात्वा तत्त्वं सकलमपि संसारपतितं जगज्जन्मावृति दहति सततं दुःखनिलयम् ॥

तदेतज्ज्ञात्वैवावहति च निवृत्तिं परतरां न जाने तत्तत्वं परमिति नमो वेद्य शिव ते ॥२१॥

न वेदं यद्रूपं निगमविषयं मङ्गलकरं न दृष्टं केनापि ध्रुवमिति न जाने शिव विभो ॥

ततश्चित्त शंभो नहि मम विषादोऽघाविकृतिः प्रयत्नाल्लब्धेऽस्मिन किमपि नमः पूर्ण शिव ते ॥२२॥

तवाकर्ण्यागूढं यदपि परतत्त्वं श्रुतिपरं तदेवातीतं सन्नयनपदवीं नात्र तनुते ॥

कदाचित्किञ्चिद्वा स्फुरति कतिधा चेतसि तव स्फुरद्रूपं भव्यं भवहर परावेद्य शिव ते ॥२३॥

त्वमिन्दुभीतुस्तवं हुतभुगसि वायुश्च सलिलं त्वमेवाकाशोऽसि क्षितिरसि तथाऽऽत्मासि भगवन् ॥

ततः सर्वाकारस्त्वमसि भवतो भिन्नमनघान्न तत्सत्यं सत्यं त्रिनयन नमोऽनन्त शिव ते ॥२४॥

विधुं धत्से नित्यं शिरसि मृदुकण्ठोऽपि गरलं नवं नागाहारं भसितममलं भासुरतनुम् ॥

करे शूलं भाले ज्वलनमनिशं तत्किमिति ते न तत्त्वं जानेऽहं भवहर नमः कूर्प शिव ते ॥२५॥

तवापाङ्गः शुद्धो यदि भवति भव्ये शुभकरः कदाचित्कस्मिंश्चिल्लघुतरनरे विप्रभवति ॥

स एवैताँल्लोकान् रचयितुमलं सापि च महान्कृपाधारोऽयं ते सुकयति नमोऽनन्त शिव ते ॥२६॥

भवन्तं देवेशं शिवमितरगीर्वाणसदृशं प्रमादाद्यः कश्चिद्यदि यदपि चित्तेऽपि मनुते ॥

स दुःखं लब्ध्वाऽन्ते नरकमपि याति ध्रुवमिदं ध्रुवं देवाराध्यामितगुण नमोऽनन्त शिव ते ॥२७॥

प्रदोषे रत्नाढ्ये मृदुलतरसिंहासनवरे भवानीमारूढामसकृदपि संवीक्ष्य भवता ॥

कृतं सम्यङ्‌नाट्यं प्रथितमिति वेदोऽपि भवति प्रभावः को वाऽयं तव हर नमो दीप शिव ते ॥२८॥

श्मशाने संचारः किमु शिव न ते क्वापि गमनं यतो विश्वंव्याप्याखिलमपि सदा तिष्ठति भवान् ॥

विभुं नित्यं शुद्धं शिवमुपहुतं व्यापकामिति श्रुतिः साक्षाद्वक्ति स्वयमपि नमः शुद्ध शिव ते ॥२९॥

धनुर्मेरुः शेषो धनुवरगुणौ यानमवनिस्तवैचेदं चक्रं निगमनिकरा वाजिनिकराः ॥

पुरो लक्ष्यं यन्ता विधिरिषुहरिश्चेति निगमः किमेवं त्वन्वेष्यो निगदति नमः पूर्ण शिव ते ॥३०॥

मृदुःसत्त्वं त्वेतद्भवमनघयुक्तं च रजसा तमोयुक्त शुद्धं हरमपि शिवं निष्कलमिति ॥

वदत्येको वेदस्त्वमसि यदुपास्यं ध्रुवमिदं त्वमोंकाराकारो ध्रुवमिति नमोऽनन्त शिव ते ॥३१॥

जगत्सुर्प्ति बोधं व्रजति भवतो निर्गतमपि प्रवृत्तिं व्यापारं पुनरपि सुषुप्तिं च सकलम् ॥

त्वदन्यं त्वत्प्रेक्ष्यं व्रजति शरणं नेति निगमो वदत्यद्धा शर्वं शिव इति नमः स्तुत्य शिव ते ॥३२॥

त्वमेवालोकानामधिपतिरुमानाथ जगतां शरण्यः प्राप्यस्त्वं जलनिधिरिवानन्तपयसाम् ॥

त्वदन्यो निर्वाणं तट इति च निर्वाणयतिरप्यतः सर्वोत्कृष्टस्त्वमसि हि नमो नित्य शिव ते ॥३३॥

तवैवांशो भानुस्तपति विधुरप्येति पवनः पवत्येषोऽग्निश्च ज्वलति सलिलं च प्रवहति ॥

तवाज्ञाकारित्वं सकलसुरवर्गस्य सततं त्वमेकस्वातन्त्र्यं वहसि हि नमोऽनन्त शिव ते ॥३४॥

स्वतन्त्रोऽयं सोमः सकलभुवनैकप्रभुरयं नियन्ता देवानामपि हर नियन्तासि न परः ॥

शिवः शुद्धो मायारहित इति वेदोऽपि वदति स्वयं तामाशास्य त्रयहर नमोऽनन्त शिव ते ॥३५॥

नमो रुद्रानन्तामरवर नमः शंकर विभो नमो गौरीनाथ त्रिनयन शरण्यांघ्रिकमल ॥

नमः शर्वः श्रीमन्ननघ महदैश्वर्यनिलय स्मरारे पापारे जय जय नमः सेव्य शिव ते ॥३६॥

महादेवाभेयानघगुणगणग्रामसवतन्नमो भूयो भूयः पुनरपि नमस्ते पुनरपि ॥

पुराराते शंभो पुनरपि नमस्ते शिव विभो नमो भूयो भूयः शिव शिव नमोऽनन्त शिव ते ॥३७॥

कदाचिद्गण्यन्ते निविडनियता वृष्टिकणिकाः कदाचित्तत्क्षेत्राण्यपि सिकतलेशं कुशलिना ॥

अनन्तैराकल्पं शिव गुणगणश्चारुरसनैर्न शक्यं ते नूनं गणयितुमुषित्वाऽपि सततम् ॥३८॥

मया विज्ञायैषाऽनिशमपि कृता जेतुमनसा सकामेनामेया सततमपराधा बहुविधाः ॥

त्वयैते क्षन्तव्याः क्वचिदपि शरीरेण वचसा कृतैर्नैतैर्नूनं शिव शिव कृपासागर विभो ॥३९॥

प्रमादाद्ये केचिद्विततमपराधा विधिहताः कृताः सर्वे तेऽपि प्रशममुपयान्तु स्फुटतरम् ॥

शिवः श्रीमच्छम्भो शिव शिव महेशेति च जप‌ क्वचिल्लिङ्गाकारे शिव हर वसामि स्थिरतरम् ॥४०॥

इति स्तुत्वां शिवं विष्णुः प्रणम्य च मुहुर्मुहुः ॥ निर्विण्णो न्यवसन्नूनं कृताञ्जलिपुटः स्थिरम् ॥४१॥

तदा शिवः शिवं रूपमादायोवाच सर्वगः ॥ भाषयन्नखिलान्भूतान्घनगम्भीरया गिरा ॥४२॥

मदीयं रूपममलं कथं ज्ञेयं भवादृशैः ॥ यत्तु वेदैरविज्ञातमित्युक्त्वाऽन्तर्दधे शिवः ॥४३॥

ततः पुनर्विधिस्तत्र तपस्तप्तु समारभत् ॥ विष्णुश्च शिवतत्वस्य ज्ञानार्थमतियत्नतः ॥४४॥

यादृशी शिव मे वाञ्छा पूजयित्वा वदाम्यहम् ॥

नान्यो मयाऽर्च्यो देवेषु विना शंभु सनातनम् ॥४५॥

त्वयाऽपि शांकरं लिंग पूजनीयं प्रयत्नतः ॥ विहायैवान्यदेवानां पूजनं शेष सर्वदा ॥४६॥

इति श्रीस्कन्दपुराणे विष्णुकृतं शिवमहिमस्तोत्र संपूर्णम् ।

N/A

References : N/A
Last Updated : February 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP