मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
१ श्रीनन्दिकेश्वर प्रार्थ...

शिवालयदर्शनस्तोत्रक्रमः - १ श्रीनन्दिकेश्वर प्रार्थ...

शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.
Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against,  Himalayas.



श्रीनन्दिकेश्वर
प्रार्थना

नन्दिकेश महाभाग शिवध्यानपरायण ।
गौरीशङ्करसेवार्थं अनुज्ञां दातुमर्हसि ॥


श्री विघ्नेश्वरध्यानम्

गजाननं भूतगणादिसेवितं
कपित्थजम्बूफलसारभक्षितम् ।

उमासुतं शोकविनाशकारणं
नमामि विघ्नेश्वर पादपङ्कजम् ॥१॥

अगजाननपद्मार्कं गजाननमहर्निशम्
अनेकदन्तं भक्तानां एकदन्तमुपास्महे ॥२॥

वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥३॥


श्री शिवध्यानम्
वन्दे शंभुमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शंकरम् ॥१॥

हालास्यनाथाय महेश्वराय हालाहलालंकृतकन्धराय ।
मीनेक्षणाया पतये शिवाय
नमोनमः सुन्दरताण्डवाय ॥२॥

मृत्युञ्जयाय रुद्राय नीलकण्ठाय शंभवे ।
अमृतेशाय शर्वाय महादेवाय ते नमः ॥३॥


श्री
दक्षिणामूर्तिध्यानम्

गुरवे सर्वलोकानां भिषजे भवरोगिणाम् ।
निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥१॥

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥२॥


श्री सुब्रह्मण्यध्यानम्
द्विष्ड्भुजं षण्मुखमंबिकासुतं
कुमारमादित्यसहस्रसन्निभम् ।
वन्दे मयूरासनमध्यशोभितं
सेनान्यमद्याहमभीष्टसिद्धये ॥१॥

षडाननं कुङ्कुमरक्तवर्णं
महामतिं दिव्यमयूरवाहनम् ।
रुद्रस्य सूनुं सुरसैन्यनाथं
गुहं सदा शरणमहं प्रपद्ये ॥२॥


श्री चण्डिकेश्वरध्यानम्

नीलक्ण्ठपदांभोजपरिस्फुरितमानस ।
शंभो: सेवाफलं देहि चण्डेश्वर नमोऽस्तु ते॥


श्री भैरवध्यानम्

रक्तज्वालजटाधरं सुविमलं रक्तांगतेजोमयं
धृत्वा शूलकपालपाशडमरून् लोकस्यरक्षाकरम् ।
निर्वाणं शुनवाहनं त्रिनयनं आनन्दकोलाहलं
वन्दे भूतपिशाचनाथवटुकं क्षेत्रस्य पालं शिवम्॥


श्री नवग्रहप्रार्थना
नमः सूर्याय सोमाय मङ्गलाय बुधाय च
गुरुशुक्रशनिभ्यश्च राहवे केतवे नमः
 

श्री नटराजध्यानम्
 
कृपासमुद्रं सुमुखं त्रिनेत्रं
जटाधरं पार्वतिवामभागम् ।
सदाशिवं रुद्रमनन्तरूपं
चिदंबरेशं हृदि भावयामि ॥१॥
 
आनन्दनृत्तसमये नटनायकस्य
पादारविन्दमणिनूपुरशिञ्जितानि ।
आनन्दयन्ति मदयन्ति विमोहयन्ति
रोमाञ्चयन्ति नयनानि कृतार्थयन्ति ॥२॥
 
गौरीवल्लभ कामारेकाळकूटविषाशन ।
मामुद्धर भवाम्बोधेः त्रिपुरघ्नान्तकान्तक ॥३॥

महादेवं महेशानं महेश्वरमुमापतिं
महासेनगुरुं वन्दे महाभयनिवारणम् ॥४॥

N/A

References : N/A
Last Updated : January 01, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP