श्रीराम उवाच ।
देवदेव महादेव सृष्टिसंहारककारक ॥
करुणा क्रियतां नाथ वद मे मुक्तिसाधनम् ॥१॥
श्रीशिव उवाच ।
श्रृणु राम महाप्राज्ञ एकाग्रकृतमानसः ॥
तथेदं कथयिष्यामि महानंदकरं परम् ॥२॥
सर्वज्ञं सर्वमाश्रित्य सर्वेशं सर्वलक्षणम् ॥
भावभावविनिर्मुक्तमुदयास्तविवर्जितम् ॥३॥
स्वभावेनोदितं शांतं यन्नो पश्यति नाव्ययम् ॥
निरालम्बं परं सूक्ष्मं सर्वाधारं परात्परम् ॥४॥
नो ध्यानं ध्येयसंपन्नं न लक्ष्यं न च भावना ॥
नाबद्धकरणं नैव नाभ्यासाच्चालनेन च ॥५॥
न इडा पिंगला चैव सुषुम्ना नागमागमौ ॥
अनाहते न कण्ठे च नैव नादे बिंदुके ॥६॥
ह्रदये नैव शीर्षं च चक्षुरुन्मीलने न च ॥
ललाटे नैव नासाग्रे प्रवेशे निर्गमे न च ॥७॥
न बिंदुमालिनी हंसो नाकाशो नैव तारका ॥
न निरोधो न च ज्ञानं मुद्राया नैव चासने ॥८॥
रेचके पूरके नैव कुम्भके न च सम्पुटे ॥
न चिन्ता न च शून्यं न च स्थानं न च कल्पना ॥९॥
जाग्रत्स्वप्नसुषुप्तिर्न तथा नैव तुरीयकम् ॥
न सालोक्यं सामीप्यं च सरूपं न सयोज्यता ॥१०॥
न बिंदुभेदग्रथितैर्नासाग्रं न निरीक्षणम् ॥
न ज्योतिश्च शिखातेन न किंचित्प्राणधारणे ॥११॥
न ऊर्ध्वं नादिमध्ये च नादिमध्यावसानकम् ॥
नातिदूरं न चासन्नं प्रत्यक्षं च परोक्षकम् ॥१२॥
न ह्रस्वं न च दीर्घं न च लुप्तं नैव चाक्षरम् ॥
न त्रिकोणं चतुष्कोणं न दीर्घं न च वर्तुलम् ॥
ह्रस्वदीर्घविहीनं च सुषुम्ना चैव बुध्यते ॥१३॥
न ध्यानमागमाश्चैव नायतः पुष्टकस्तथा ॥१४॥
न वामे दक्षिणे चैव नाच्छाद्यं नभमध्यगम् ॥
न स्त्रीलिंगं न पुल्लिंग न षंढ न नपुंसकम् ॥१५॥
न साचारं निराचारं न तर्कं तर्कहेतुकम् ॥
न लयो विलयश्चैव अस्तिनास्तिविवर्जितम् ॥१६॥
न माता न पिता तस्य न भ्राता न च मातुलः ॥
न पुत्रोपि कलत्रं च न पौत्रो न च पुत्रिका ॥१७॥
दुष्टमाया न कर्तव्या स्थानबंधं तथैव च ॥
ग्रामबंधं गेहबंधमात्मबंधं तथैव च ॥१८॥
ज्ञातिबंधं न कर्तव्यं वर्णबधं विपर्ययम६६ ॥
न व्रतं न च तीर्थ च नोपासनं न च क्रिया ॥
नानुमानेन कर्तव्यं क्षेत्रबंधं च सेवया ॥१९॥
न शीतं न च उष्णं च न किंचित्प्राणधारणा ॥२०॥
यो विपक्षविनिर्मुक्तं हेतुदृष्टांतवर्जितम् ॥
सबाह्याभ्यंतरे चैव एकाकारं परात्परम् ॥२१॥
परात्परतरो देवो विश्वमात्मा सदाशिवः ॥
सूर्यानंतसहस्त्राभश्चंद्रानंतनिभाननः ॥२२॥
गणेशानंतलावण्यो विष्ण्वनंताभिमर्दनः ॥
दावाग्न्यनंतज्वलितो रुद्रानंतोग्ररूपवान् ॥२३॥
समुद्रानंतगंभीरो वाय्वनंतमहाबलः ॥
आकाशानंतविस्तारो यमानंतभयानक ॥२४॥
अनंतमेरुविस्तारो कुबेरानंतऋद्धिदः ॥
निष्कलंको निराधारो निर्गुणा गुणवर्जितः ॥२५॥
न कामो न च क्रोधश्च पैशुन्यं न च दंभिता ॥
न माया न च लोभश्च न मोहः शोक एव च ॥२६॥
अप्रग्राह्यश्च लोभश्च त्यजेत्सर्वं शनैः शनैः ॥
न च साधनसिद्धिं च औषधिफलमेव च ॥२७॥
रसं रसायनं चैव धातुवादं तथैव च ॥
अंजनं खङ्गसिद्धिश्च पातालं न च खेचरम् ॥२८॥
सिद्धं रसं तथा मूलं न ग्राह्यं च कदानन ॥
तृणवत्त्यज्यता सर्वं यदि प्राप्तमुपार्जितम् ॥२९॥
महासिद्ध्यष्टकं चैव अणिमादिगुणाष्टाकम् ॥
तृणवत्त्यज्यते सर्वं संयोगान्मुच्यते ध्रुवम् ॥३०॥
कृत कर्म परित्यज्य सततं जनवर्जितम् ॥
शून्याशून्यमयो भुत्वा न किंचिदपि चिंतयेत् ॥३१॥
चिंतयेत्कल्पयेन्नैव मननं मनगोचरम् ॥
नष्टं मनस्तथा चिंता मन इंद्रियमेव च ॥३२॥
सर्वचिम्ता परित्यज्य अचिंत्यं चित्तमाश्रयेत् ॥
बहुनात्त्र किमुक्तेन ह्रदि चिन्तां निवेशयेत् ॥३३॥
अनवस्तां ततः कृत्वा न किंचिदपि चिंतयेत् ॥
अनित्यकर्मसंत्यागी नित्यानुष्ठानतोपि वा ॥३४॥
सर्वभूताम्तरावासवाङ्मनोबुद्धिमोहिनी ॥
ब्रह्मैव निखिलं कर्म किं त्याज्यं विषयादिकम् ॥३५॥
ॐ तत्सदिति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु शिवराघवसंवादे जीवन्मुक्तिस्वरूपनिरूपणयोगो नाम अष्टादशोऽध्यायः ॥१८॥