अगस्त्य उवाच -
न गृहणाति वचः पथ्यं कामक्रोधादिपीड़ितः ॥
हितं न रोचते तस्य मुमूर्षोरिव भैषजम् ॥१॥
मध्ये समुद्रं या नीता सीता दैत्येन मायिना ॥
आयास्यति नरश्रेष्ठ सा कथं तव संनिधिम् ॥२॥
बध्यन्ते देवताः सर्वा द्वारि मर्कटयूथवत् ॥
किंच चामरधारिण्यो यस्य संति सुरांगनाः ॥३॥
भुक्ते त्रिलोकीमखिलां यः शंभुवरदर्पितः ॥
निष्कण्टकं तस्य जयः कथं तव भविष्यति ॥४॥
इन्द्रजिन्नाम पुत्रो यस्तस्यास्तीश्वरोद्धतः ॥
तस्याग्ने संगरे देवा बहुवारं पलायिताः ॥५॥
कुम्भकर्णाह्वयो भ्राता यस्यास्ति सुरसूदनः ॥
अन्यो दिव्यास्त्रसंयुक्तश्चिरंजीवी विभीषणः ॥६॥
दुर्गं यस्यास्ति लंकाख्यं दुजयं देवदानवैः ॥
चतुरंगबलं यस्य वर्तते कोटिसंख्यया ॥७॥
एकाकिना त्वया जेयः स कथं नृपनन्दन ॥
आकांक्षते करे धर्तुं बालश्चन्द्रमसं यथा ॥
तथा त्वं काममोहेन जयं तस्याभिवाञ्छसि ॥८॥
क्षत्रियोऽहं मुनिश्रेष्ठ भार्या मे रक्षसा ह्रता ॥
यदि तं न निहन्म्याशु जीवनेमेऽस्ति किं फलम् ॥९॥
अतस्ते तत्त्वबोधेन न मे किंचित्प्रयोजनम् ॥
कामक्रोधादयः सर्वे दहन्त्येते तनुं मन ॥१०॥
अहंकारोऽपि मे नित्यं जीवनं हन्तुमुद्यतः ॥
ह्रतायां निजकान्तायां शत्रुनाऽवमतस्य वै ॥११॥
यस्य तत्त्वबुभुक्षा स्यात्स लोके पुरुषाधमः ॥
तस्मात्तस्य वधोपायं लंघयित्वाम्बुधिंरणे ॥
ब्रूहि मे मुनिशार्दूल त्वत्तो नान्योऽस्ति मे गुरुः ॥१२॥
अगस्त्य उवाच ।
एवं चेच्छरणं याहि पार्वतीपतिमव्ययम् ॥
स चेत्प्रसन्नो भगवान्वाञ्छितार्थं प्रदास्यति ॥१३॥
देवैरजेयः शक्राद्यैर्हरिणा ब्रह्मणापि व ॥
स ते वध्यः कथं वा स्याच्छंकरानुग्रहं विना ॥१४॥
अत्तस्त्वां दीक्षयिष्यामि विरजामार्गमाश्रितः ॥
तेन मार्गेण मर्त्य त्वं हित्वा तेजोमयो भव ॥१५॥
येन हत्वा रणे शत्रून्सवान्कामानवाप्स्यसि ॥
भूक्त्वा भूमण्डले चान्तेशिवसयुज्यमास्यसि ॥१६॥
सूत उवाच ।
अथ प्रणम्य रामस्तं दण्डवन्मुनिसत्तमम् ॥
उवाच दुःखनिर्मुक्तः प्रह्रष्टेनान्तरात्मना ॥१७॥
कृतार्थोऽहं मुने जातो वाञ्छितार्थो ममागतः ॥
पीताम्बुधिः प्रसन्नस्त्वं यदि मे किमु दुर्लभम् ॥
अतस्त्वं विरजां दीक्षां देहि मे मुनिसत्तम ॥१८॥
अगस्त्य उवाच ।
शुक्लपक्शे चतुर्दश्यामष्टम्यां वा विशेषतः ॥
एकादश्यां सोमवारे आर्द्रायां वा समारभेत् ॥१९॥
यं वायुमाहुर्यं रुद्रं यमग्निं परमेश्वरम् ॥
परात्परतरं चाहुः परात्परतरं शिवम् ॥२०॥
ब्रह्मणो जनकं विष्णोर्वह्नेर्वायोः सदाशिवम् ॥
ध्यात्वाग्निनाऽवसथ्याग्निं विशोध्य च पृथक्पृथक् ॥२१॥
पञ्चभूतानि संयम्य ध्यात्वा गुणविधिक्रमात् ॥
मात्रः पञ्च चतस्त्रश्च त्रिमात्रा द्विस्ततः परम् ॥२२॥
एकमात्रममात्रं हि द्वादशान्तं व्यवस्थितम् ॥
स्थित्यां स्थाप्यामृतो भूत्वा व्रतं पाशुपतं चरेत् ॥२३॥
इदं व्रतं पाशुपतं करिष्यामि समासतः ॥
प्रातरेव तु संकल्प्य निधायाग्निं स्वशाखया ॥२४॥
उपोषितः शुचिः स्नातः शुक्लाम्बरधरः स्वयम् ॥
शुक्लयज्ञोपवीतश्च शुक्लमाल्यानुलेपनः ॥२५॥
जुहुयाविरजामन्त्रः प्राणापानादिभिस्ततः ॥
अनुवाकान्तमेकाग्रः समिदाज्यचरूपन्पृथक् ॥२६॥
आत्मन्याग्निं समारोप्य यते अग्नेति मन्त्रतः ॥
भस्मादायाग्निरित्यादैर्विमृज्याङ्गानिसंस्पृशेत् ॥२७॥
भस्मच्छन्नो भवेद्विद्वान्महापातकसंभवैः ॥
पापैर्विमुच्यते सत्यमुच्यते च न संशयः ॥२८॥
वीर्यमग्नेर्यतो भस्म वीर्यवान्भस्मसंयुतः ॥
भस्मस्नानरतो विप्रो भस्मशायी जितेन्द्रियः ॥२९॥
सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात् ॥
एवं कुरु महाभाग शिवनामसहस्त्रकम् ॥
इदं तु संप्रादास्यामि तेन सर्वार्थमाप्स्यसि ॥३०॥
सूत उवाच ।
इत्युक्त्वा प्रददौ तस्मै शिवनामसहस्त्रकम् ॥३१॥
वेदसराभिधं नित्यं शिवप्रत्यक्षकारकम् ॥
उक्तं च तेन राम त्वं जप नित्यं दिवानिशम् ॥३२॥
ततः प्रसनो भगवान्महापाशुपतास्त्रकम् ॥
तुभ्यं दास्यति तेन त्वं शत्रून्हत्वाप्स्यसि प्रियाम् ॥३३॥
तस्यैवास्त्रस्य माहात्म्यात्समुद्रं शोषयिष्यसि ॥
संहारकाले जगतामस्त्रं तत्पार्वतीपतेः ॥३४॥
तदलाभे दानवानां जयस्तव सुदुर्लभः ॥
तस्माल्लब्धुं तदेवास्त्रं शरणं याहि शंकरम् ॥३५॥
इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे अगस्त्यराघवसंवादे विरजादीक्षा निरूपणं नाम तृतीयोऽध्यायः ॥३॥