श्रीभगवानुवाच ।
अव्यक्तादभवत्कालः प्रधानपुरुषः परः ।
तेभ्यः सर्वमिदं जातं तस्माद्ब्रह्ममयं जगत् ॥१॥
सर्वतः श्रुतिमल्लोके सर्वमावृत्त्य तिष्ठति ॥
सर्वतः पाणिपादं तत्सर्वतोक्षिरोमुखम् ॥२॥
सर्वेद्रियगुणाभासं सर्वेंद्रियविवर्जितम् ॥
सर्वाधारं सदानन्दमव्यक्तं द्वैतवर्जितम् ॥३॥
सर्वोपम्यं परं नित्यं प्रमाणं चाप्यगोचरम् ॥
निर्विकल्पं निराभासं सर्वावासं परामृतम् ॥४॥
अभिन्नं भिन्नसंस्थानं शाश्वतं ध्रुवमव्ययम् ॥
निर्गुणं परमं ज्योतिस्तत्स्थानं सूरयो विदुः ॥५॥
सर्वात्मा सर्वभूतानां स बाह्याभ्यन्तरः परः ॥
सोहं सर्वगतः शांतो ज्ञानात्मा परमेश्वरः ॥६॥
मया ततमिदं विश्वं जगत्स्थावरजंगमम् ॥
मत्स्थानि सर्वभूतानि इत्थं वेदविदो विदुः ॥७॥
प्रधानं पुरुषश्चैव तत्र द्वयमुदाह्रतम् ॥
तयोरनादिरुद्दिष्टः कालः संयोजकः परः ॥८॥
त्रयमेतदनाद्यन्तमव्यक्ते समवस्थितम् ॥
तदात्मकं तदन्यत्स्यात्तद्रूपं मामकं विदुः ॥९॥
महदाद्यं विशेषांतं संप्रसूतेऽखिलं जगत् ॥
या सा प्रकृतिरुद्दिष्टा मोहिनी सर्वदेहिनाम् ॥१०॥
पुरुषं प्रकृतिस्थो वै भुक्ते यः प्राकृतान्गुणान् ॥
अहंकारविविक्तत्वात्प्रोच्यते पंचविंशकः ॥११॥
आद्यो विकारः प्रकृतेर्महानात्मेति कथ्यते ॥
विज्ञानशक्तिविज्ञाता ह्यहंकारस्तदुत्थितः ॥१२॥
एक एव महानात्मा सोहंकारोभिधीयते ॥
स जीवः सोंतरात्मेति गीयते तत्त्वचिंतकैः ॥१३॥
तेन वेदयते सर्वं सुखं दुःखं च जन्मसु ॥
स विज्ञानात्मकस्तस्य मनः स्यादुपकारकम् ॥१४॥
तेनाविवेकजस्तस्मात्संसारः पुरुषस्य तु ॥
स चाविवेकः प्रकृतेः संगात्कालेन सोभवत् ॥१५॥
कालः सृजति भूतानि कालः संहरते प्रजाः ॥
सर्वे कालस्य वशगा न कालः कस्यचिद्वशे ॥१६॥
सोंतरा सर्वमेवेदं नियच्छति सनातनः ॥
प्रोच्यते भगवान्प्राणः सर्वज्ञः पुरुषोत्तमः ॥१७॥
सर्वेन्द्रियेभ्यः परमं मन आहुर्मनीषिणः ॥
मनसश्चाप्यहंकारस्त्वहंकारान्महत्परम् ॥१८॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ॥
पुरुषाद्भगवान्प्राअस्तस्मात्सर्वमिदं जगत् ॥१९॥
प्राणात्परतरं व्योम व्योमातीतोग्निरीश्वरः ॥
सोहं सर्वगतः शांतो मया ततमिदं जगत् ॥२०॥
नाति मत्तः परं भूतं मां विज्ञाय विमुच्यते ॥
नित्यं हि नास्ति जगति भूतं स्थावरजंगमम् ॥२१॥
ऋते मामेकमव्यक्तं व्योमरूपं महेश्वरम् ॥
सोहं सृजामि सकलं संहराम्यखिलं जगत् ॥२२॥
मयि मायामये देवः कालेन सह संगतः ॥
मत्सन्निधावेष कालः करोति सकलं जगत् ॥२३॥
नियोजयत्यनन्तात्मा ह्येतद्वेदानुशासनम् ॥
महादेवेति कालात्मा कालांतो मम सूदनः ॥२४॥
वक्ष्ये समाहिता यूयं श्रृणुध्वं ब्रह्मवादिनः ॥
माहात्म्यं देवदेवस्य येन सर्वं प्रवर्तते ॥२५॥
नाहं तपोभिर्विविधैर्न दानैर्नापि चेज्यया ॥
शक्यो हि पुरुषैर्ज्ञातुमृते भक्तिमनुत्तमाम् ॥२६॥
अहं हि सर्वभुतानामंतस्तिष्ठामि सर्वगः ॥
मां सर्वसाक्षिणं लोको न जानाति मुनीश्वरा ॥२७॥
तस्यांतरा सर्वमिदं यो हि सर्वांतरः परः ॥
सोहं धाता विधाता च कालाग्निर्विश्वतोमुखः ॥२८॥
न मां पश्यंति मुनयः सर्वेपि त्रिदिवौकसः ॥
ब्रह्माद्या मनवः शक्रा ये चान्ये प्रथितौजसः ॥२९॥
गृणंति सततं वेदा मामेकं परमेश्वरम् ॥
यजंति विविधैर्यज्ञैर्ब्राह्मणा वैदिकैर्मखैः ॥३०॥
सर्वे लोका नमस्यंति ब्रह्मा लोकपितामहः ॥
ध्यायंति योगिनो देवं भुताधिपतिमीश्वरम् ॥३१॥
अहं हि सर्वहविषां भोक्ता चैव फलप्रदः ॥
अहं सर्वतनुर्भूत्वा सर्वात्मा सर्वसंस्थितः ॥३२॥
मां हि पश्यंति विद्वांसो धार्मिका वेदवादिनः ॥
तेषां संनिहितो नित्यं ये मां नित्यमुपासते ॥३३॥
ब्राह्मणाः क्षत्रिया वैश्या धार्मिका मामुपासते ॥
तेषां ददामि तत्स्थानमानंदं परमं पदम् ॥३४॥
अन्येपि ये स्वधर्मस्थाः शूद्राद्या नीचजातयः ॥
भक्तिमंतः प्रमुच्यन्ते कालेनापि हि संगताः ॥३५॥
न मद्भक्ता विनश्यंति मद्भक्त्या वीतकल्मषाः ॥
आदावेतत्प्रतिज्ञातं न मे भक्तः प्रणश्यति ॥३६॥
यो वै निंदति त मूढो देवदेवं स निंदति ॥
यो हि तं पूजयेद्भक्त्या स पूजयति मां सदा ॥३७॥
शिवस्य परिपूणस्य किं नाम क्रियते शुभम् ॥
यत्कृतं शिवभक्ताय तत्कृतं स्याच्छिवे मयि ॥३८॥
पत्रं पुष्पं फलं तोयं मदाराधनकारणात् ॥
यो मे ददाति नियतं स मे भक्तः प्रियो मम ॥३९॥
अहं हि जगतामादौ ब्रह्माणं परमेष्ठिनम् ॥
उत्तमः पुरुषस्त्वन्यः परमात्मा हि गीयते ॥४०॥
अहमेव हि सर्वेषां योगिनां गुरुरव्ययः ॥
धार्मिकाणां च गोप्ताहं निहंता वेदविद्विषाम् ॥४१॥
अहं हि सर्वसंसारान्मोचको योगिनामिह ॥
संसारहेतुरेवाहं सर्वसंसारवर्जितः ॥४२॥
अहंमेव हि संहर्ता स्रष्टाहं परिपालकः ॥
माया वै मामिका शक्तिर्माया लोकविमोहिनी ॥४३॥
ममैव च परा शक्तिर्या सा विद्येति गीयते ॥
नाशयामि च तां मायां योगिनां ह्रदि संस्थितः ॥४४॥
अहं हि सर्वशक्तीनां प्रवर्तकनिवर्तकः ॥
आधारः सर्वभूतानां निधानममृतस्य च ॥४५॥
अहमेव जगत्सर्वं मय्येव सकलं जगत् ॥
मत्त उत्पद्यते विश्वं मय्येव च विलीयते ॥४६॥
अहं हि भगवानीशः स्वयंज्योतिः सनातनः ॥
परमात्मा परं ब्रह्म मत्तो ह्यन्यन्न विद्यते ॥४७॥
एका सर्वांतरा शक्तिः करोति विविधं जगत ॥
आस्थाय ब्रह्मणो रूपं मन्मयी मदधिष्ठिता ॥४८॥
अन्या च शक्तिर्विपुला संस्थापयति या जगत् ॥
भूत्वा नारायणो देवो जगन्नाथो जगन्मयः ॥४९॥
तृतीया महती शक्तिर्निहति सकलं जगत् ॥
तामसी मे समाख्याता कालाख्या रौद्ररूपिणी ॥५०॥
ध्यानेन मां प्रपश्यंति केचिज्ज्ञानेन चापरे ॥
अपरे भक्तियोगेन कर्मयोगेन चापरे ॥५१॥
सर्वेषामेव भक्तानामिष्टः प्रियतरो मम ॥
यो हि ज्ञानेन मां नित्यमाराधयति नान्यथा ॥५२॥
अन्ये च येत्र भक्ता मे मदाराधनकांक्षिणः ॥
तेऽपि मां प्राप्नुवंत्येव नावर्तन्ते च वै पुनः ॥५३॥
मया ततमिदं कृत्स्नं प्रधानपुरुषात्मकम् ॥
मय्येव संस्थितं सर्वं मया संप्रेर्यते जगत् ॥५४॥
नाह प्रेरयिता विप्राः परमं योगमाश्रिताः ॥
प्रेरयामि जगत्कृत्स्नमेतद्यो वेद सोऽमृतः ॥५५॥
पश्याम्यशेषमेवेदं वर्तमानं स्वभावतः ॥
करोति कालो भगवान्महायोगेश्वरः स्वयम् ॥५६॥
योगोत्संप्रोच्यते योगी मया शास्त्रेऽपि सूरिभिः ॥
योगेश्वरोऽसौ भगवान्महादेवो महान्प्रभुः ॥५७॥
महत्त्वात्सर्वसत्वानां परत्वात्परमेष्टिनः ॥
प्रोच्यते भगवान्ब्रह्मा महादेवो महेश्वरः ॥५८॥
यो मामेवं विजानाति महायोगेश्वरेश्वरम् ॥
सोऽविकल्पेन योगेन युज्यते नात्र संशयः ॥५९॥
अहं प्रेरयिता देवः परमानंदमाश्रितः ॥
नृत्यामि योगी सततं यस्तं वेद स वेदवित् ॥६०॥
ॐ तत्सदिति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु शिवराघवसंवादे ब्रह्मनिरूपणं नाम सप्तदशोध्यायः ॥१७॥