अथ प्रादुरभूत्तत्र हिरण्मयरथो महान् ॥
अनेकदिव्यरत्नांशुकिर्मीरितदिगन्तरः ॥१॥
नद्युपान्तिकपङ्काढ्यमहाचक्रचतुष्टयः ॥
मुक्तावितानविलसदूर्ध्वदिव्यवृषध्वजः ॥३॥
शुद्धहेमखलीनाढ्यतुरंगगणसंयुतः ॥
मुक्तावितानविलसदूर्ध्वदिव्यवृषध्वजः ॥३॥
मत्तवारणिकायुक्तः पट्टतल्पोपशोभितः ॥
पारिजाततरूद्भतपुष्पमालाभिरञ्चितः ॥४॥
मृगनाभिसमद्भूतकस्तूरीमदपंकिलः ॥
कर्पूरागरुधूपोत्थगन्धाकृष्टमधुव्रतः ॥५॥
संवर्तघनघोषाढ्यो नानावाद्यसमन्वितः ॥
वीणावेणुस्वनासक्तकिन्नरीगणसंकुलः ॥६॥
एवं दृष्ट्वा रथश्रेष्ठं वृषादुत्तीर्य शंकरः ॥
अम्बया सहितस्तत्र पट्टतल्पेऽविशत्तदा ॥७॥
नीराजनैः सुरस्त्रीणां श्वेतचामरचालनैः ॥
दिव्यव्यजनपातैश्च प्रह्रष्टो नीललोहितः ॥८॥
क्वणत्कङ्कणनिध्वानैर्मञ्जुमञ्जीरशिञ्जितैः ॥
वीणावेणुस्वनैर्गीतैःपूर्णमासीज्जगत्रयम् ॥९॥
शुककेकिकुलारावैः श्वेतपारावतस्वनैः ॥
उन्निदभूषाफणिनां दर्शनादेव बर्हिणः ॥
ननृतुर्दर्शयन्तः स्वांश्चन्द्रकान्कोटिसंख्यया ॥१०॥
प्रणमन्तं ततो राममुत्थाप्य वृषभध्वजः ॥
अनिनाय रथं दिव्यं प्रह्रष्टेनान्तरात्मना ॥११॥
कमण्डलुजलैः स्वच्छैः स्वयमाचम्य यत्नतः ॥
समांचम्याथ पुरतः स्वांके राममुपानयत् ॥१२॥
अथ दिव्यं धनुस्तस्मै ददौ तूणीरमक्षयम् ॥
महापाशुपतं नाम दिव्यमस्त्रं ददौ ततः ॥१३॥
उक्तश्च तेन रामोऽपि सादरं चंद्रमौलिना ॥
जगन्नाशकरं रौद्रमुग्रमस्त्रमिदं नृप ॥१४॥
अतो नेदं प्रयोक्तव्यं सामान्यसमरादिके ॥
अन्यन्नास्ति प्रतीघातमेतस्य भुवनत्रये ॥१५॥
तस्मात्प्राणात्यये राम प्रयोक्तव्यमुपस्थिते ॥
अन्यदैतत्प्रयुक्तं तु जगत्संक्षयकृद्भवेत् ॥१६॥
अथाहूय सुरश्रेष्ठाँल्लोकपालान्महेश्वरः ॥
उवाच परमप्रीतः स्वं स्वमस्त्रं प्रयच्छथ ॥१७॥
राघवोऽयं च तैरस्त्रै रावणं निहनिष्यति ॥
तस्मै देवैरवध्यत्वमिति दत्तो वरो मया ॥१८॥
तस्माद्वानरतामेत्य भवन्तो युद्धदुर्मदाः ॥
साहाय्यमस्य कुर्वन्तु तेन सुस्था भविष्यथ ॥१९॥
तदाज्ञां शिरसा गृह्य सुराः प्राञ्जलयस्तथा ॥
प्रणम्य चरणौ शंभोः स्वं स्वमस्त्रं ददुर्मुदा ॥२०॥
नारायणास्त्रं दैत्यारिरैन्द्रमस्त्रं पुरंदरः ॥
ब्रह्मापि ब्रह्मदंदास्त्रदैत्यारिरैन्द्रमस्त्रं धनंजयः ॥२१॥
याम्यं यमोपि मोहास्त्रं रक्षोराजस्तथा ददौ ॥
वरुणो वारुणं प्रादाद्वायव्यास्त्रं प्रभंजनः ॥२२॥
कौबेरं च कुबेरोऽपि रौद्रमीशान एव च ॥
सौरमस्त्रं ददौ सूर्यः सौम्यं सोमश्च पार्वतम् ॥
विश्वदेवा ददुस्तस्मै वसवो वासवाभिधम् ॥२३॥
अथतुष्टः प्रणम्येशं रामो दशरथात्मजः ॥
प्राञ्जलिः प्रणतो भूत्वा भक्तियुक्तो व्यजिज्ञपत् ॥२४॥
श्रीराम उवाच ।
भगवन्मानुषेणैव नोल्लंघ्यो लवणाम्बुधिः ॥
तत्र लंकाभिधं दुर्गं दुर्जयं देवदानवैः ॥२५॥
अनेककोटयस्तत्र राक्षसा बलवत्तराः ॥
सर्वे स्वाध्यायनिरताः शिवभक्ता जितेन्द्रियाः ॥२६॥
अनेकमायासंयुक्ता बुद्धिमन्तोऽग्निहोत्रिणः ॥
कथमेकाकिना जेया मया भ्रात्रा च संयुगे ॥२७॥
श्रीमहादेव उवाच ।
रावणस्य वधे राम रक्षसामपि मारणे ॥
विचारो न त्वया कार्यस्तस्य कालोऽयमागतः ॥२८॥
अधर्मे तु प्रवृत्तास्ते देवब्राह्मणपीडने ॥
तस्मादायुः क्षयं यातं तेषां श्रीरपि सुव्रत ॥२९॥
राजस्त्रीकामनासक्तं रावणं निहनिष्यसि ॥
पापसक्तो रिपुर्जेतुं सुकरः समरांगणे ॥३०॥
अहर्मे निरतः शत्रुर्भाग्येनैव हि लभ्यते ॥
अधीतधर्मशास्त्रोऽपि सदा वेदरतोऽपिवा ॥
विनाशकाले संप्राप्ते धर्ममार्गाच्च्युतो भवेत् ॥३१॥
पीड्यन्ते देवताः सर्वाः सतत्म येन पापिना ॥
ब्राह्मणाऋषयश्चैव तस्य नाशः स्वयं स्थितः ॥३२॥
किष्किंधानगरे राम देवानामंशसंभवाः ॥
वानरा बहवो जाता दुर्जया बलवत्तराः ॥३३॥
साहाय्यं ते करिष्यंति तैर्बद्धा च पयोनिधिम् ॥
अनेकशैलसंबद्धे सेतौ यांतु वलीमुखाः ॥
रावणं सगणं हत्वा तामानय निजां प्रियामः ॥३४॥
शस्त्रैर्युद्धे जयो यत्र तत्रास्त्राणि न योजयेत् ॥
निरस्त्रैष्वल्पशस्त्रेषु पलायनपरेषु च ॥
अस्त्राणि मुञ्चन्दिव्यानि स्वयमेव विनश्यति ॥३५॥
अथवा किं बहूक्तेन मयैवोत्पादितं जगत् ॥
मयैव पाल्यते नित्यं मया संह्रियतेऽपिच ॥३६॥
अहमेको जगन्मृत्युर्मृत्योरपि महीपते ॥
ग्रसेऽहमेव सकलं जकदेतच्चराचरम् ॥३७॥
मम वक्रगताः सर्वे राक्षसा युद्धदुर्मदाः ॥
निमित्तमात्रं त्वं भूयाः कीर्तिमाप्स्यसि संगरे ॥३८॥
इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे रामाय वरप्रदानं नाम पञ्चमोऽध्यायः ॥५॥