श्रीराम उवाच ।
भगवन्नत्र में चित्रं महदेतत्प्रजायते ॥
शुद्धस्फटिकसंकाशस्त्रिनेत्रश्चन्द्रशेखरः ॥१॥
मूतस्त्वं तु परिछिन्नाकृतिः पुरुषरूपधृक् ॥
अम्बया सहितोऽत्रैव रमसे प्रमथैः सह ॥२॥
त्वं कथं पञ्चभूतादि जगदेतच्चराचरम् ॥
तद्ब्रूहि गिरिजाकान्त मयि तेऽनुग्रहो यदि ॥३॥
श्रीभगवानुवाच ।
साधु पृष्ट महाभाग दुर्ज्ञेयममरैरपि ॥
तत्प्रवक्ष्यामि ते भक्त्या ब्रह्मचर्येण सुव्रत ॥
पारं यास्यस्यनायासाद्येन संसारनीरधेः ॥४॥
दृश्यन्ते पञ्चभूतानि येन लोकाश्चतुर्दश ॥
समुद्राः सरितो देवा राक्षसा ऋषयस्तथा ॥५॥
दृश्यन्ते यानि चान्यानि स्थावराणि चराणि च ॥
गन्धर्वाः प्रमथा नागाः सर्वे ते मद्विभूतयः ॥६॥
पुरा ब्रह्मादयो देवा द्रष्टुकामा ममाकृतिम् ॥
मंदरं प्रययुः सर्वे मम प्रियतरं गिरिम् ॥७॥
स्तुत्वा प्राञ्जलयो देवा मां तदा पुरतः स्थिताः ॥
तान्दृष्ट्वाथ मया देवाँल्लीलाकुलितचेतसः ॥८॥
तेषामपह्रतं ज्ञानं ब्रह्मादीनां दिवौकसाम् ॥
अघ तेऽपह्रतज्ञाना मामाहुः को भवानिति ॥
अथाब्रुवमहं देवानहमेव पुरातनः ॥९॥
आसं प्रथममेवाहं वर्तामि च सुरेश्वराः ॥
भविष्यामिचलोकेऽस्मिन्मत्तोनान्योऽस्तिकश्चन ॥१०॥
व्यतिरिक्तं च मत्तोऽस्तिनान्यत्किञ्चित्सुरेश्वराः ॥
नित्योऽनित्योऽहमनघो ब्रह्मणां ब्रह्मणस्पतिः ॥११॥
दक्षिणा च उदंचोऽहं प्राञ्चः प्रत्यञ्च एवच ॥
अधश्चोर्ध्व च विदिशो दिशश्चाहं सुरेश्वराः ॥१२॥
सावित्री चापि गायत्री स्त्री पुमानपुमानपि ॥
त्रिष्टुब्जगत्यनुष्टुप् च पंक्तिश्छ्नदस्त्रयीमयः ॥१३॥
सत्याऽहं सर्वगः शान्तस्त्रेताग्निर्गोहरं गुरुः ॥
गौर्यहं गह्वरं चाहं द्यौरहं जगतां विभुः ॥१४॥
जेष्ठः सर्वशुरश्रेष्ठो वरिष्ठोऽहमपांपतिः ॥
आर्च्योऽहं भगवानीशस्तेजोऽहं चादिरप्यहम् ॥१५॥
ऋग्वेदोऽहं यजुर्वेदः सामवेदोऽहमात्मभूः ॥
अथर्वणश्च मन्त्रोऽहं तथा चांगिरसो वरः ॥१६॥
इतिहासपुराणानि कल्पोऽहं कल्पवानहम् ॥
नाराशंसी च गाथाहं विद्योपनिषदोऽस्म्यहम् ॥१७॥
श्लोकाः सूत्राणि चैवाहमनुव्याख्यानमेव च ॥
व्याख्यानानि परा विद्या इष्टं हुतमथाहुतिः ॥१८॥
दत्तादत्तमयं लोकः परलोकोऽहमक्षरः ॥
क्षरः सर्वाणि भूतानि दान्तिः शान्तिरहं खगः ॥
गुह्योऽहं सर्वेवेदेषु आरण्योऽहमजोऽप्यहम् ॥१९॥
पुष्करं च पवित्रं च मध्यं चाहमतः परम् ॥
बहिश्चाहं तथा चांतः पुरस्तादहमव्ययः ॥२०॥
ज्योतिश्चाहं तमश्चाहं तन्मात्राणीद्रियाण्यहम् ॥
बुद्धिश्चाहमहंकारो विषयाण्यहमेव हि ॥२१॥
ब्रह्मा विष्णुर्महेशोऽहमुमा स्कन्दो विनायकः ॥
इन्द्रोऽग्निश्च यमश्चाहं निऋतिर्वरुणोऽनिलः ॥२२॥
कुबेरोऽहं तथेशानो भुर्भुवः स्वर्महर्जनः ॥
तपः सत्यं च पृथिवी चापस्तेजोऽनिलोप्यहम् ॥२३॥
आकाशोऽहं रविः सोमो नक्षत्राणि ग्रहास्तथा ॥
प्राणः कालस्तथा मृत्युरमृतं भुतमप्यहम् ॥२४॥
भव्यं भविष्यत्कृत्स्नं च विश्वं सर्वात्मकोप्यहम् ॥
ओमादौ च तथा मध्ये भूर्भुवः स्वस्तथैव च ॥
ततोऽहं विश्वरूपोऽस्मि शीर्षं च जपतां सदा ॥२५॥
अशितं पायितं चाहं कृतं चाकृतमप्यहम् ॥
परं चैवापर चाहमहं सर्वपरायणः ॥२६॥
अहं जगद्धितं दिव्यमक्षरं सूक्ष्मव्ययम् ॥
प्राजापत्यं पवित्रं च सौम्यमग्राह मग्रियम् ॥२७॥
अहमेवोपसंहर्ता महोग्रस्तेजसां निधिः ॥
ह्रदि यो देवतात्वेन प्राणत्वेन प्रतिष्ठितः ॥२८॥
शिरश्चोत्तरतो यस्य पाद दक्षिणतस्तथा ॥
यश्च सर्वोत्तरः साक्षादोङ्कारोऽहं त्रिमात्रकः ॥२९॥
ऊर्ध्वं चोन्नामये यस्मादधश्चापनयाम्यहम् ॥
तस्मादोङ्कार एवाहमेको नित्यःसनातनः ॥३०॥
ऋचो यजूंषि सामानि यो ब्रह्मा यज्ञकर्मणि ॥
प्रणामये ब्राह्मणेभ्यस्तेनाहं प्रणवो मतः ॥३१॥
स्नेहो यथा मांसपिण्डं व्याप्नोति व्यापयत्यपि ॥
सर्वांल्लोकानहं तद्वत्सर्वव्यापी ततोस्म्यहम् ॥३२॥
ब्रह्मा हरिश्च भगवानाद्यन्तं नोपलब्धवान् ॥
ततोऽन्ये च सुरायस्मानन्तोऽहमितीरितः ॥३३॥
गर्भजन्मजरामृत्युसंसारभवसागरात् ॥
तारयामि यतो भक्तं तस्मात्तारोऽहमीरितः ॥३४॥
चतुर्विधेषु देहेषु जीवत्वेन वसाम्यहम् ॥
सूक्ष्मो भूत्वा च ह्रदृशे यत्तत्सूक्ष्मं प्रकीर्तितः ॥३५॥
महातमसि मग्नेभ्यो भक्तेभ्यो यत्प्रकाशये ॥
विद्युद्वदतुलं रूपं तस्माद्वैद्युतमस्म्यहम् ॥३६॥
एक एव यतो लोकान्विसृजामि सृजामि च ॥
विवासयामि गृहणामि तस्मादेकोऽहमीश्वरः ॥३७॥
न द्वितीयो यतश्चास्ति तुरीयं ब्रह्म यत्स्वयम् ॥
भुतान्यात्मनि संह्रत्य चैको रुद्रो वसाम्यहम् ॥३८॥
सर्वाल्लोकान्यदीशेऽहमीशिनीभिश्च शक्तिभिः ॥
ईशानमस्य जगतः स्वदृशं चक्षुरीश्वरम् ॥३९॥
ईशानश्चास्मि जगतां सर्वेषामपि सर्वदा ॥
ईशानः सर्वविद्यानां यदीशानस्ततोऽस्म्यहम् ॥४०॥
सर्वभावान्निरीक्ष्येहमात्मज्ञानं निरीक्षये ॥
योगं च गमये तस्माद्भगवान्महतो मतः ॥४१॥
अजस्त्रं यच्च गृहणामि विसृजामि सृजामि च ॥
सर्वांल्लोकान्वासयामि तेनाहं वै महेश्वरः ॥४२॥
महत्यात्मज्ञानयोगैश्वर्ये यस्तु महीयते ॥
सर्वान्भावान्परित्यज्य महादेवश्च सोस्म्यहम् ॥४३॥
एकोऽस्मि देवः प्रदोशो नु सर्वाः पूर्वो हो जातोऽस्म्यहमेव गर्भे ॥
अहं हि जातश्च जनिष्यमाणः प्रत्यग्जनस्तिष्ठति सर्वतोमुखः ॥४४॥
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ॥
संबाहुभ्यां धमति संपतत्रैर्द्यावाभूमी जनयन्देव एकः ॥४५॥
वालाग्रमात्रं ह्रदयस्य मध्ये विश्वं देवं जातिवेदंवरेण्यम् ॥
मामात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥४६॥
अहं योनि योनिमधितिष्ठामि चैको मयेदं पूर्णं पञ्चविधं च सर्वम् ॥
मामीशानं पुरुषं देवमीड्यं विदित्वा निचाय्य मां शान्तिमत्यन्तमेति ॥४७॥
प्राणेष्वन्तर्मनसो लिङ्गमाहुरस्मिन्क्रोधो या च तृष्णा क्षमा च ॥
तृष्णां हित्वा हेतुजालस्य मूलं बुद्ध्या चित्तं स्थापयित्वा मयीह ॥
एवं ये मां ध्यायमाना भजंते तेषां शान्तिः शाश्वती नेतरेषाम् ॥४८॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥
आनन्दं ब्रह्म मां ज्ञात्वा न बिभेति कुतश्चन ॥४९॥
श्रुत्वेति देवा मद्वाक्यं कैवल्यज्ञानमुत्तमम् ॥
जपन्तो मम नामानि मम ध्यानपरायणाः ॥५०॥
सर्वी स्वस्वदेहान्ते मत्सायुज्यं गताः पुराः ॥
ततोऽग्रे परिदृश्यन्ते पदार्था मद्विभूतयः ॥५१॥
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ॥
मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥५२॥
अणोरणीयानहमेव तद्वन्महानहं विश्वमहं विशुद्धः ॥
पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ॥५३॥
अपाणिपादोऽहमचिन्त्यशक्ति पश्याम्यचक्षुः स शृणोम्यकर्णः ॥
अहं विजानामि विविक्तरूपोन चास्ति वेत्ता मम चित्सदाहम् ॥५४॥
वैदैरशेषैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥
न पुण्यपापे मम नास्ति नाशो न जन्म देहेंद्रिय बुद्धिरस्ति ॥५५॥
न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति निष्कलमद्वितीयम् ॥
एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् ॥
समस्तसाक्षि सदसद्वि हीनं प्रयाति शुद्धं परमात्मरूपम् ॥५६॥
एवं मां तत्त्वतो वेत्ति यस्तु राम महामते ॥
स एव नान्यो लोकेषु कैवल्यफलमश्नुते ॥५७॥
इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु० विभूति योगो नाम षष्ठोऽध्यायः ॥६॥