शिवगीता - द्वादशोध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


श्रीराम उवाच ।

भगवन्देवदेवेश नमस्तेऽस्तु महेश्वर ॥

उपासनविधि ब्रूहि देशं कालं च तस्य तु ॥१॥

अंगानि नियमांश्चैव मयि तेऽनुग्रहो यदि ॥

ईश्वर उवाच ।

श्रृणु राम प्रवक्ष्यामि देशं कालमुपासने ॥२॥

सर्वाकारोऽहमेवैकः सच्चिदान्दविग्रहः ॥

मदंशेन परिच्छिन्ना देहाः सर्वदिवौकसाम् ॥३॥

ये त्वन्यदेवताभक्ता यजंते श्रद्ध्यान्विताः ॥

तेऽपि मामेव राजेन्द्र यजन्त्यविधिपूर्वकम् ॥४॥

यस्मात्सर्वमिदं विश्वं मत्तो न व्यतिरिच्यते ॥

सर्वक्रियाणां भोक्ताहं सर्वस्याहं फलप्रदः ॥५॥

येनाकारेण ये मर्त्या मामेवैकमुपासते ॥

तेनाकारेण तेभ्योऽहं प्रसन्नो वाञ्छितं ददे ॥६॥

विधिनाऽविधिना वापि भक्त्या ये मामुपासते ॥

तेभ्यः फलं प्रयच्छामि प्रसन्नोऽहं न संशयः ॥७॥

अपिचेत्सुदाराचारो भजते मामनन्यभाक् ॥

साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥८॥

स्वजीवत्वेन यो वेत्ति आमेवैकमनन्यधीः ॥

तं न स्पृशंति पापानि ब्रह्महत्यदिकान्यपि ॥९॥

उपासाविधयस्तत्र चत्वारः परिकीर्तिताः ॥

संपदारोपसंवर्गाध्यासा इति मनीषिभिः ॥१०॥

अल्पस्य चाधिकत्वेन गुणयोगाद्विचिन्तनम् ॥

अनन्तं वै मन इति संपद्विधिरुदीरितः ॥११॥

विधावारोप्य योपासा सारोपः परिकिर्तितः ॥

यद्वदोंकारमुद्‌गीथमुपासीतेत्युदाह्रतः ॥१२॥

आरोपो बुद्धिपूर्वेण य उपासाविधिश्च सः ॥

योषित्यग्निमतिर्यत्तदध्यासः स उदाह्रतः ॥१३॥

क्रियायागेन चोपासविधिः संवर्ग उच्यते ॥

संह्रत्य वायुः प्रलये भूतान्येकोऽवसीदति ॥१४॥

उपसंगम्य बुद्ध्या यदासनं देवतात्मना ॥

तदुपासनमन्तः स्यात्तद्वहिः संपदादयः ॥१५॥

ज्ञानान्तरानन्तरितसजातिज्ञानसंहतेः ॥

सम्पन्नदेवतात्मत्वमुपासनमुदीरितम् ॥१६॥

सपंदादिषु बाह्मेषु दृढबुद्धिरुपासनम् ॥

कर्मकाले तदंगेषु दृष्टिमात्रमुपासनम् ॥

उपासनामिति प्रोक्तं तदंगानि ब्रुवे श्रृणु ॥१७॥

तीर्थक्षेत्रादिगमनं श्राद्धं तत्र परित्यजेत् ॥

सचित्तैकाग्रता यत्र तत्रासीत सुखं द्विजः ॥१८॥

कम्बले मृदुतल्पे वा व्याघ्रचर्मणि वा स्थितः ॥

विविक्तदेशे नियतः समग्रीवशिरस्तनुः ॥१९॥

अत्याश्रमस्थः सकलानीन्द्रियाणि निरुध्य च ॥

भक्त्याथ स्वगुरुं नत्वा योगं विद्वान्प्रयोजयेत् ॥२०॥

यस्त्वविज्ञानवान्भवत्ययुक्तमनसा सदा ॥

तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥२१॥

विज्ञानी यस्तु भवति युक्तेन मनसा सदा ॥

तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥२२॥

यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः ॥

न स तत्पदमाप्नोति संसारमधिगच्छति ॥२३॥

विज्ञानी यस्तु भवति समनस्क सदा शुचिः ॥

स तत्पदमवाप्नोति यस्माद्भूयो न जायते ॥२४॥

विज्ञानसारथिर्यस्तु मनः प्रग्रह एव च ॥

सोऽध्वनः पारमाप्नोति ममैव परमं पदम् ॥२५॥

ह्रत्पुण्डरीकं विरजं विशुद्धं तथा ॥

विशोकं च विचिन्त्यात्र ध्यायेन्मां परमेश्वरम् ॥२६॥

अचिन्त्यरूपमव्यक्तमनन्तममृतं शिवम् ॥

आदिमध्यान्तरहितं प्रशांतं ब्रह्म कारणम् ॥२७॥

एकं विभुं चिदानन्दमरूपमजमद्भुतम् ॥

शुद्धस्फटिकसंकाशमुमादेहार्धधारिणम् ॥२८॥

व्याघ्रचर्माम्बरधरं नीलकण्ठं त्रिलोचनम् ॥

जटाधरं चंद्रमौलिं नागयज्ञोपवीतिनम् ॥२९॥

व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ॥

पराभ्यामूर्ध्वहस्ताभ्यां बिभ्राणं परशुं मृगम् ॥

भूतिभूषितसर्वाङ्गं सर्वाभरणभूषितम् ॥३०॥

एवमात्मारणिं कृत्वा प्रणवं चोत्तरारणिम् ॥

ज्ञाननिर्मथनाभ्यासात्क्षात्पश्यति मां जनः ॥३१॥

वेदवाक्यैरलभ्योऽहं न शास्त्रैर्नापि चेतसा ॥

ध्यानेन श्रृणुते यो मां सर्वदाहं वृणोमि तम् ॥३२॥

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ॥

नाशान्तमानसो वापि प्रज्ञानेन लभेत माम् ॥३३॥

जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चो यः प्रकाशते ॥

तद्बह्याहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥३४॥

त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत ॥

तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥३५॥

कोटिमध्याह्नसूर्य्याभं चन्द्रकोटिसुशीतलम् ॥

चन्द्रसूर्याग्निनयनं स्मरेद्वक्रसरोरुहम् ॥३६॥

एकोः देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ॥

सर्वाध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥३७॥

एको वशी सर्वभूतान्तरात्माप्येकं बीजं नित्यदा यः करोति ॥

तं मां नित्यं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥३८॥

अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ॥

एकस्तथासवभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥३९॥

वेदेहं यो मां पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ॥

स एव विद्वानमृतोऽस्त्र भूयो नान्यस्तु पन्था अयनाय विद्यते ॥४०॥

हिरण्यगर्भं विदधामि पूर्वं वेदांश्च तस्मै प्रहिणोमि योऽहम् ॥

तं देवमीड्यं पुरुषं पुराणं निशिचत्य मां मृत्युमुखात्प्रमुच्यते ॥४१॥

एवं शान्त्यादियुक्तः सन्वेत्ति मां तत्त्वतस्तु यः ॥

निर्मुक्तदुःखसंतानः सोऽते मय्येव लीयते ॥४२॥

इति श्रीपद्मपुराणे शिवगीतासुपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे उपासनाज्ञानफलं नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP