ऋषय ऊचुः ॥
किमर्थमागतोऽगस्त्यो रामचन्द्रस्य सन्निधिम् ।
कथं वा विरजां दीक्षां कारयामास राघवम् ॥
ततः किमाप्तवान्रामः फलं तद्वक्तुमर्हसि ॥१॥
सूत उवाच ।
रावणेन यदा स्ताऽपह्रता जनकात्मजा ॥
तदा वियोगदुःखेन विलपन्नास राघवः ॥२॥
निर्निद्रो निरहंकारो निराहारो दिवानिशम् ॥
मोक्तुमैच्छत्ततः प्राणान्सानुजो रघुनन्दनः ॥३॥
लोपामुद्रापतिर्ज्ञात्वा तस्य सन्निधिमागमत् ॥
अथ तं बोधयामास संसारासारतां मुनिः ॥४॥
अगस्त्य उवाच ।
किं विषीदसि राजेन्द्र कान्ता कस्य विचार्यताम् ॥
जङः किं नु विजानाति देहोऽयं पाञ्चभौतिकः ॥५॥
निर्लेपः परिपूर्णश्च सच्च्दानन्दविग्रहः ॥
आत्मा न जायते नैव म्रियते न च दुःखभाक् ॥६॥
सूर्योऽसौ सर्वलोकस्य चक्षुष्ट्वेन व्यवस्थितः ॥
तथापि चाक्षुषैर्दोषैर्न कदाचिद्विलिप्यते ॥७॥
सर्वभूतान्तरात्मापि यद्वद्दृश्यैर्न लिप्यते ॥
देहोऽपि मलपिण्डोऽयं मुक्तजीवो जडात्मकः ॥८॥
दह्यते वह्निना काष्ठैः शिवाद्यैर्भक्ष्यतेऽपि वा ॥
तथापि नैव जानाति विरहे तस्य का व्यथा ॥९॥
सुवर्णगौरी दूर्वाया दलवच्छ्यामलापि वा ॥
पीनोत्तुङ्गस्तनाभोगभुग्नसूक्ष्मविलग्निका ॥१०॥
बृहन्नितम्बजघना रक्तपादसरोरुहा ॥
राकाचन्द्रमुखी बिम्बप्रतिबिम्बरदच्छदा ॥११॥
नीलेन्दीवरनीकाशनयनद्वयशोभिता ॥
मत्तकोलिसँल्लापा मत्तद्विरदगामिनी ॥१२॥
कटाक्षैरनुगृहणाति मां पञ्चेषुशरोत्तमैः ॥
इति या मन्यते मूढः स तु पञ्चेषुशासितः ॥१३॥
तस्या विवेकं वक्ष्यामि शृणुष्वावदितो नृप ॥
न च स्त्री न पुमानेश नैव चायं नपुंसकः ॥१४॥
अमूर्तः पुरुषः पूर्णो द्रष्टा देही स जीवनः ॥
या तन्वङ्गी मृदुर्बाला मलपिण्डातिम्का जडा ॥१५॥
सा न पश्यति यत्किंचिन्न श्रृणोति न जिघ्रति ॥
चर्ममात्रा तनुस्तस्या बुद्धा त्यक्षस्व राघव ॥१६॥
या प्राणादधिका सैव हंत ते स्याद् घृणास्पदम् ॥
जायन्ते यदि भूतेभ्यो देहिनः पाञ्चभौतिकाः ॥१७॥
आत्मा यदेकलस्तेषु परिपूर्णः सनातनः ॥
का कान्ता तत्र कः कान्तः सर्व एव सहोदराः ॥१८॥
निर्मितायां गृहावल्यां तदवच्छिन्नतां गतम् ॥
नभस्तस्यां तु दग्धायां नाकांचित्क्षतिमृच्छति ॥१९॥
तद्वदात्मापि देहेषु परिपूर्णः सनातनः ॥
हन्यमानेषु तेष्वेव स स्वयं नैव हन्यते ॥२०॥
हन्ता चेन्मन्यते हंतुं हतश्चेन्मन्यते हतम् ॥
तावुभौ न विजानीतो नायं हन्ति न हन्यते ॥२१॥
अस्मान्नृपातिदुःखेन कि खेदस्यस्ति कारणम् ॥
स्वस्वरुपं विदित्वेदं दुःखं त्यक्त्त्वा सुखी भव ॥२२॥
राम उवाच ।
मुने देहस्य नो दुःखं नैव चेत्परमात्मनः ॥
सीतावियोगदुःखाग्निर्मां भस्मीकुरुते कथम् ॥२३॥
सदाऽनुभूयते योऽर्थः स नास्तीति त्वयेरतिः ॥
जायतां तत्र विश्वासः कथं मे मुनिपुंगव ॥२४॥
अन्योऽत्र नास्ति को भोक्ता येन जन्तुः प्रतप्यते ॥
सुखस्य वापि दुःखस्य तद्ब्रूहि मुनिसत्तम ॥२५॥
अगस्त्य उवाच ।
दुर्ज्ञेया शांभवी माया यया संमोह्यते जगत् ॥
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥२६॥
तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥
सत्यज्ञानात्मकोऽनन्तो विभुरात्मा महेश्वरः ॥२७॥
तस्यैवांशो जीवलोके ह्रदये प्राणिनां स्थितः ॥
विस्फुलिङ्गा यथा वह्नेर्जायन्ते काष्ठयोगतः ॥२८॥
अनादिकर्मस्म्बद्धास्तद्वदंशा महेशितुः ॥
अनादिवासनायुक्ताः क्षेत्रज्ञा इति ते स्मृताः ॥२९॥
मनो बुद्धिरहंकारश्चित्तं चेति चतुष्टयम् ॥
अन्तःकरणमित्याहुस्तत्र ते प्रतिबिम्बिताः ॥३०॥
जीवत्वं प्राप्नुयुः कर्मफलभोक्तार एव ते ॥
ततो वैषयिकं तेषा सुखं वा दुःखमेव वा ॥
त एव भुञ्जते भोगायतनेऽस्मिञ्छरीरके ॥३१॥
स्थावरं जङ्गमं चेति द्विविधं वपुरुच्यते ॥३२॥
स्थावरास्तत्र देहाः स्युः सूक्ष्म गुल्मलतादयः ॥
अण्डजाः स्वेदाजतद्वदुद्भिज्जा इति जंगमाः ॥३३॥
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ॥
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥३४॥
सुख्यहं दुःखहं चेति जीव एवाभिमन्यते ॥
निर्लेपाऽपि परं ज्योतिर्मोहितः शंभुमायया ॥३५॥
कामः क्रोधस्तथा लोभो मदो मात्सर्यमेव च ॥
मोहश्चेत्यरिषड्वर्गमहंकारगतं विदुः ॥३६॥
स एव बोध्यते जीवः स्वप्नजाग्रदवस्थयोः ॥
सुषुप्तौ तदभावाच्च जीवः शंकरता गतः ॥३७॥
स एव मायसंस्पृष्टः कारणं सुखदुःखयोः ॥
शुक्तौ रजतवद्विश्वं माययां दृश्यते शिवे ॥३८॥
ततो विवेकज्ञानेन न कोऽप्यत्रास्ति दुःखभाक् ॥
ततो विरम दुःखात्त्वं किं मुधा परितप्यसे ॥३९॥
श्रीराम उवाच ।
मुने सर्वमिदं तथ्यं यन्मदग्रे त्वयेरितम् ॥
तथापि न जहात्येत्प्रारब्धाद्दृष्टमुल्बणम् ॥४०॥
मत्तं कुर्याद्यथा मद्यं नष्टाविद्यमपि द्विजम् ॥
तद्वत्प्रारब्धभोगोऽपि न जहा ति विवेकिनम् ॥४१॥
ततः किंबहुनोक्तेन प्रारब्धसचिवः स्मरः ॥
बाधते मां दिवारात्रमहंकारोऽपि तादृशः ॥४२॥
अत्यन्तपीडितो जीवः स्थूलदेहं विमुञ्चति ॥
तस्माज्जीवाप्तये मह्यमुपायः क्रियतां द्विज ॥४३॥
इति श्रीपद्मपुराणेउपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे अगस्त्यराघवसंवादे वैराग्योपदेशोनाम द्वितीयोऽध्यायः ॥२॥