श्रीगणेशाय नमः ।
श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥ श्रीगुरूभ्यो नमः ॥ श्रीसाम्बसदाशिवायनमः ॥ ॐ अस्य श्रीशिवगितामालामन्त्रस्य श्रीवेदव्यासरूप्यगस्त्यऋषिः ॥
जगतीच्छन्दः ॥ श्रीसदाशिवः परमात्मा देवता ॥ प्रणवे बीजम् ॥ सर्वव्यापक इति शक्तिः ॥ ह्री कीलकम् ॥ ब्रह्मात्मसाक्षात्कारार्थे जपे विनियोगः ॥ अथ न्यासः ॥ ॐ श्रीवेदव्यासरूप्यगस्त्यऋषिः शिरसि ॥ ॐ जगतीच्छन्द मुखे ॥ ॐ श्रीसदाशिवः परमात्मादेवता ह्रदये ॥ ॐ प्रणवे बीजं नाभौ ॥ ॐ सर्वव्यापक इति शक्तिः गुह्ये ॥ ॐ ह्री कीलकं पादयोः ॥ ॐ ह्रां अङ्गुष्ठाभ्यां नमः ॥ ॐ ह्री तर्जनीभ्यां नमः ॥ ॐ ह्रूं मध्यमाभ्यां नमः ॥ ॐ ह्रीं अनामिकाभ्यां नमः ॥ ॐ ह्रौं कनिष्ठिकाभ्यां नमः ॥ ॐ ह्रः करतलकरपृष्ठाभ्या नमः ॥ एवं ह्रदयादि ॥
अथ ध्यानम् ।
अकारं विन्यसेन्नाभौ सत्त्वरूपं निरञ्जनम् ॥
उकारं ह्रदये विन्द्याद्रजोरूपं द्वितीयकम् ॥१॥
मकारंमूर्घ्नि विन्यस्य तमोरूपं च त्र्यम्बकम् ॥
अकारश्च उकारश्च मकारो बिन्दुलक्षणः ॥२॥
त्रिधा मात्रा स्थिता यत्र तत्परं ज्योतिरोमिति ॥
अकार उच्यते रुद्रो मकारश्च पितामह ॥३॥
उकार उच्यते विष्णुस्तत्परं ज्योतिरोमिति ॥
इच्छा क्रिया तथा शक्तिर्ब्राह्मी गौरी च वैष्णवी ॥४॥
त्रिधाः शक्तिः स्थिता यत्र तत्परं ज्योतिरोमिति ॥
ब्रह्मा विष्णुश्च रुद्रश्च देवेंद्रो देवतास्तथा ॥५॥
अमलार्कस्थिराकारं प्रज्वलं भुवनत्रयम् ॥
धारयन्ह्रदये ब्रह्म वह्निना सह दृश्यते ॥६॥
दृशिस्वरूपं गगनोपमं परं सर्वात्मकं सात्त्विकमेकमक्षरम् ॥
अलेपनं सर्वगतं यदद्वयं तदेव चाहं प्रणव यदुक्तम् ॥७॥
ॐ इति ॥ उत्पन्नात्मावबोधस्य अद्वेष्ट्टत्वादयो गुणाः ॥
अशेषतो भवन्त्यस्य ननु संधानरूपिणः ॥८॥ इति ध्यानम ॥
सूत उवाच ।
अथातः संप्रवक्ष्यामि शुद्धं कैवल्यमुक्तिदम् ॥
अनुग्रहान्महेशस्य भवदुःखस्य भेषजम् ॥१॥
न कर्मणामनुष्ठानैर्न दानैस्तपसापि वा ॥
कैवल्यं लभते मर्त्यः किंतु ज्ञानेन केवलम् ॥२॥
रामाय दण्डकारण्ये पार्वतीपतिना पुरा ॥
याप्रोक्ताशिवगीताख्यागुह्याद्गुह्यतमाहिसा ॥३॥
यस्याः श्रवनमात्रेण नृणां मुक्तिर्ध्रुवं भवेत् ॥
पुरा सनत्मुकाराय स्कन्देनाभिहिता हि सा ॥४॥
सनत्कुमारः प्रोवाच व्यासाय मुनिसत्तमः ॥
मह्यं कृपतिरेकेण प्रददौ बादरायणः ॥५॥
उक्तं च तेन कस्मैचिन्न दातव्यमिदं त्वया ॥
सूतपुत्रान्यथा देवाः क्षुभ्यन्ति च शपन्ति च ॥६॥
अथ पुष्टो मया विप्रा भगवान्बादरायणः ॥
भगवन्देवताः सर्वाः किं क्षुभ्यन्ति शपन्ति च ॥७॥
तासामत्रास्ति का हानिर्यया कुप्यन्ति देवताः ॥
पाराशर्योऽथ मामाह यत्पृष्टं शृणु वत्स तत् ॥८॥
नित्याग्निहोत्रिणो विप्राः संति ये गृहमेधिनः ॥
त एव सर्वफलदाः सुराणां कामधेनवः ॥९॥
भक्ष्यं भोज्यं च पेयं च यद्यदिष्टं सुपर्वणाम् ॥
अग्नौ हुतेन हविषा तत्सर्वं लभते दिवि ॥१०॥
नान्यदस्ति सुरेशानामिष्टसिद्धिप्रदं दिवि ॥
दोग्ध्री धेनुर्यथा नीता दुःखदा गृहमेधिनाम् ॥११॥
तथैवं ज्ञानवान्विप्रो देवानां दुःखदो भवेत् ॥
त्रिदशास्तेन विघ्नंति प्रविष्टा विषयं नृणाम् ॥१२॥
ततो न जायते भक्तिः शिवे कस्यापि देहिनः ॥
तस्मादविदुषां नैव जायते शूलपाणिनः ॥१३॥
यथाकथंचिज्जातापि मध्ये विच्छिद्यते नृणाम् ॥
जातं वापि शिवज्ञानं न विश्वासं भजत्यलम् ॥१४॥
ऋषय ऊचुः ।
यद्येवं देवता विघ्नमाचरन्ति तनूभृताम् ॥
पौरुषं तत्र करस्यास्ति येन मुक्तिर्भविष्यति ॥१५॥
सत्यं सूतात्मजं ब्रूहि तत्नोपायोऽस्ति वा न वा ॥
कोटिजन्मार्जितैः पुण्यैः शिवे भक्तिः प्रजायते ॥१६॥
इष्टापूर्तादिकर्माणि तेनाचरति मानवः ॥
शिवार्पणधिया कामान्परित्यज्य यथाविधि ॥१७॥
अनुग्रहात्तेन शंभोर्जायते सुदृढो नरः ॥
ततो भीताः पलायन्ते विघ्नं हित्वा सुरेश्वराः ॥१८॥
जायते तेन शूश्रुषां चरिते चन्द्रमौलिनः ॥
श्रृण्वतो जायते ज्ञानं ज्ञानादेव विमुच्यते ॥१९॥
बहुनात्र किमुक्तेन यस्य भक्तिः शिवे दृढा ॥
महापापोपपापौघकोतिग्रस्तोऽपि मुच्यते ॥२०॥
अनादरेण शाठ्येन परिहासेन मायया ॥
शिवभक्तिरतश्चेत्स्यादन्त्यजोऽपि विमुच्यते ॥२१॥
एवं भक्तिश्च सर्वेषां सर्वदा सर्वतोमुखी ॥
तस्यां तु विद्यमानायां यस्तु मर्त्यो न मुच्यते ॥२२॥
संसारबन्धनात्तस्मादन्यः को वास्ति मूढधीः ॥
नियमाद्यस्तु कुर्वीत भक्तिं वा द्रोहमेव वा ॥२३॥
तस्यापि चेत्प्रसन्नोऽसौ फलं यच्छति वाञ्छितम् ॥
ऋद्धं किंचित्समादाय क्षुल्लकं जलमेव वा ॥२४॥
यो दत्ते नियमेनासौ तस्मै दत्ते जगत्त्रयम् ॥
तत्नाप्यशक्तो नियमान्नमस्कारं प्रदक्षिणाम् ॥२५॥
यः करोति महेशस्य तस्मै तुष्टौ भवेच्छिवः ॥
प्रदक्षिणास्वशक्तोऽपि यः स्वान्तेचिन्तयेच्छिवम् ॥२६॥
गच्छन्समुपविष्टो वा तस्याभीष्टं प्रयच्छति ॥
चन्दनं बिल्वकाष्ठस्य पुष्पाणि वनजान्यपि ॥२७॥
फलानि तादृशान्येव यस्य प्रीतिकराणि वै ॥
दुष्करं तस्य सेवायां किमस्ति भुवनत्रये ॥२८॥
वन्येषु यादृशी प्रीतिवर्तते परमेशितुः ॥
उत्तमेष्वपि नास्येव तादृशे ग्रामजेष्वपि ॥२९॥
तं त्यक्त्वा तादृशं देवं यः सेवेतान्यदेवताम् ॥
स हि भागीरथी त्यक्त्वा कांक्षते मृगतृष्णिकाम् ॥३०॥
किंतु यस्यास्ति दुरितं कोटुजन्मसु संचितम् ॥
तस्य प्रकाशते नायमर्थो मोहान्धचेतसः ॥३१॥
न कालनियमो यत्र न देशस्य स्थलस्य च ॥
यत्नास्य चित्त्म रमते तस्य ध्यानेन केवलम् ॥३२॥
आत्मत्वेन शिवस्यासौ शिवसायुज्यमाप्नुयात् ॥
अतिस्वल्पतरायुः श्रीर्भूतेशांशाधिपोऽषि यः ॥३३॥
स तु राजाहमस्मीति वादिनं हन्ति सान्वयम् ॥
कर्तापि सर्वलोकानामक्षय्यैश्वर्यवानपि ॥३४॥
शिवः शिवोऽहमस्मीति वादिनं यं च कश्चन ॥
आत्मना सह तादात्म्यभागिनं कुरुते भृशम् ॥३५॥
धर्मार्थकाममोक्षाणां पारं यस्थाथ येन वै ॥
मुनयस्तत्प्रवक्ष्यामि व्रतं पाशुपताभिधम् ॥३६॥
कृत्वा तु विरजां दीक्षां भूतिरुद्राक्षधारिणः ॥
जपन्तो वेदसाराख्यं शिवनामसहस्त्रकम् ॥३७॥
संत्यज्य तेन मर्त्यत्वं शैवीं तनुमवाप्स्यथ ॥
ततः प्रसन्नो भगवाञ्छंकरो लोकशंकरः ॥३८॥
भवतां दृश्यातामेत्य कैवल्यं वः प्रदास्यति ॥
रामाय दण्डकारण्ये यत्प्रादात्कुम्भसंभवः ॥३९॥
तत्सर्वं वः प्रवक्ष्यामि शृणध्वं भक्तियोगिनः ॥४०॥
प्रथमोध्यायः ॥१॥