सूत उवाच ।
एवं श्रुत्वा कौसलेयस्तुष्टो मतिमतां वरः न्
पप्रच्छ गिरिजाकान्तं सुभगं मुक्तिलक्षणम् ॥१॥
श्रीराम उवाच ।
भगवन्करुणाविष्टह्रदय त्वं प्रसीद मे ॥
स्वरूपं लक्षणं मुक्तेः प्रब्रूहि परमेश्वर ॥२॥
श्रीभगवानुवाच ।
सालोक्यमपि सारूप्यं साष्टर्यं सायुज्यमेव च ॥
कैवल्यं चेति तां विद्धि मुक्तिं राघव पञ्चधा ॥
मां पूजयति निष्कामः सर्वदाऽज्ञानवर्जितः ॥
स मे लोकं समासाद्य भुंक्ते भोगान्यथेप्सितान् ॥४॥
ज्ञात्वा मां पूजयेद्यस्तु सर्वकामविवर्जितः ॥
मया समानरूपः सन्मम लोके महीयते ॥५॥
इष्टाप्र्तादिकर्माणि मत्प्रीत्यै कुरुते तु यः ॥
सोऽपि तत्फलमाप्नोति नात्र कार्या विचारणा ॥६॥
यत्करोति यदश्नाति यज्जुहोति ददाति यत् ॥
यत्तपस्यति तत्सर्वं यः करोति मदर्पणम् ॥७॥
मल्लोके स श्रियं भुंक्ते मत्तुल्य प्राभवं भजेत् ॥
यस्तु शान्त्यादियुक्तः सन्मामात्मत्वेन पश्यति ॥८॥
स जायते परं ज्योतिरद्वैतं ब्रह्म केवलम् ॥
आत्मस्वरूपावस्थानं मुक्तिरित्याभिधीयते ॥९॥
सत्यं ज्ञानमनन्तं सदानन्दं ब्रह्म केवलम् ॥
सर्वधर्मविहीनं च मनोवाचामगोचरम् ॥१०॥
सजातीयविजातीयपदार्थानामसंभवात् ॥
अतस्तद्व्यतिरिक्तानामद्वैतमिति संज्ञितम् ॥११॥
मत्वा रूपमिदं राम शुद्धं यदभिधीयते ॥
मय्येव दृश्यते सर्वं जगत्स्थावरजङ्गमम् ॥१२॥
व्योम्नि गन्धर्वनगरं यथा दृष्टं न दृश्यते ॥
अनाद्यविद्यया विश्वं सर्वं मय्येव कल्प्यते ॥१३॥
मम स्वरूपज्ञानेन यदाऽविद्या प्रणश्यति ॥
तदैक एव वर्त्तेऽहं मनोवाचामगोचरः ॥१४॥
सदैव परमानन्दः स्वप्रकाशश्चिदात्मकः ॥
न कालः पञ्चभूतानि न दिशो दिशश्च न ॥
मदन्यन्नास्ति यत्किञ्चित्तदा वर्त्तेऽहमेकलः ॥१५॥
न संदृशे तिष्ठति मे स्वरूपं न चक्षुषा पश्यति मां तु कश्चित् ॥
ह्रदा मनीषा मनसाभिक्लृप्तं ये मां विदुस्ते ह्यमृता भवन्ति ॥१६॥
श्रीराम उवाच ॥
कथं भगवतो ज्ञानं शुद्धं मर्त्यस्य जायते ॥
तत्रोपायं हर ब्रूहि मयि तेऽनुग्रहो यदि ॥१७॥
श्रीभगवानुवाच ।
विरज्य सर्वभूतेभ्य आविरिञ्चपदादपि ॥
घृणां वितत्य सर्वत्र पुत्रामित्रादिकेष्वपि ॥१८॥
श्रद्धालुर्मुक्तिमार्गेषु वेदान्तज्ञानलिप्सया ॥
उपायनकरो भूत्वा गुरुं ब्रह्मविदं व्रजेत् ॥१९॥
तमर्थं पुरतःकृत्वा दण्डवत्प्रणमेद्गुरुम् ॥
उत्थाय चाञ्चलिं कृत्वा वाञ्च्छतार्थन्निवेदयेत् ॥२०॥
सेवाभिः परितोष्यैनः चिरकालं समाहितः ॥
सर्ववेदान्तवाक्यार्थं श्रृणुयात्सुसमाहितः ॥२१॥
सर्ववेदान्तवाक्यानां मयि तात्पर्यनिश्चयम् ॥
श्रवणं नाम तत्प्राहुः सर्वे ते ब्रह्मवादिनः ॥२२॥
लोहमण्यादिदृष्टान्तयुक्तिभिर्यद्विचिन्तयेत् ॥
तदेव मननं प्राहुर्वाक्यार्थस्योपबृहणम् ॥२३॥
निर्मोहो निरहंकार समः संगविविर्जितः ॥
सदा शान्त्यादियुक्त सन्नात्मन्यात्मानमीक्षते ॥
यत्सदा ध्यानयोगेन तन्निदिध्यासनं स्मृतम् ॥२४॥
सर्वकर्मयक्षवशात्साक्षात्कारोऽपि चात्मनः ॥
कस्यचिज्जायते शीघ्रं चिरकालेन कस्यचित् ॥२५॥
कूठस्थानीह कर्माणि चिरकालार्जितान्यपि ॥
ज्ञानेनैव विनश्यंति न तु कर्मायुतैरपि ॥२६॥
ज्ञानादूर्ध्वं तु यत्किञ्चिपुण्यं वा पापमेव वा ॥
क्रियते बहु वाल्पं वा न तेनायं विलिप्यते ॥२७॥
शरीरारम्भकं यत्तु प्रारब्धं कर्म तन्मतम् ॥
तद्भोगेनैव नष्टं स्यान्न तु ज्ञानेन नश्यति ॥२८॥
निर्मोहो निरहंकारो निर्लेपः संगवर्जितः ॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ॥
यः पश्यन्संचरत्येष जीवन्मुक्तोऽभिधीयते ॥२९॥
अहिनिर्मोचनी यद्वद्द्रष्टुः पूर्वं भयप्रदा ॥
ततोऽस्य न भयं किंचित्तद्वद्द्रष्टुरयं जनः ॥३०॥
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य वशं गताः ॥
अथ मर्त्योऽमृतो भवत्येतावदनुशासनम् ॥३१॥
मोक्षस्य नहि वासोऽस्ति न ग्रामान्तरमेव वा ॥
अज्ञानह्रदयग्रन्थिनाशो मोक्ष इति स्मृतः ॥३२॥
वृक्षाग्रच्युतपादो यःस तदैव पतत्यधः ॥
तद्वज्ज्ञानवतो मुक्तिर्जायते निश्चितापि तु ॥३३॥
तीर्थे चण्डालगेहे वा यदि वा नष्टचेतनः ॥
परित्यजन्देहमिमं ज्ञानादेव विमुच्यते ॥३४॥
संवीतो येन केनाश्नन्भक्ष्यं वाऽभक्ष्यमेव वा ॥
शयानो यत्र कुत्रापि सर्वात्मा मुच्यतेऽत्र सः ॥३५॥
क्षीरादुद्धृतमाज्यं यत्क्षिप्तं पयसि तत्पुनः ॥
न तेनैवैकतां याति संसारे ज्ञानवांस्तथा ॥३६॥
नित्यं पठति योऽध्यायमिमं राम श्रृणोति वा ॥
स मुच्यते देहबन्धादनायासेन राघव ॥३७॥
अतः संयतचित्तस्त्वं नित्यं पठ महीपते ॥
अनायासेन तेनैव सर्वथा मोक्षमाप्स्यसि ॥३८॥
इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु० शिवराघवसंवादे त्रयोदशोऽध्यायः ॥१३॥