श्रीराम उवाच ।
भगवन्यदि ते रूपं सच्चिदानन्दविग्रहम् ॥
निश्चलं निष्क्रियं शान्तं निरविद्यं निरञ्जनम् ॥१॥
सर्वधर्मविहीनं च मनोवाचामगोचरम् ॥
सर्वव्यापिनमत्मानमीक्षते सर्वतः स्थितम् ॥२॥
आत्मविद्यातपोमुलं तद्ब्रह्मोपनिषत्परम् ॥
अमुर्तं सर्वभूतात्माकारं कारणकारणम् ॥३॥
यत्तददृश्यमग्राह्यं वा तग्राह्यंकथं भवेत् ॥
अत्रोपायमजानानस्तेन खिन्नोऽस्मि शंकर ॥४॥
श्रीभगवानुवाच ।
श्रुणु राजन्प्रवक्ष्यामि तत्रोपायं महाभुज ॥
सगुनोपासनाभिस्तु चित्तैकाग्रय् विधाय च ॥
स्थूलसौरांभिकान्यायात्तत्र चित्तं प्रवर्तयेत् ॥५॥
तस्मिनन्नमये पिण्डे स्थूलदेहे तनूभृताम् ॥
जन्मव्याधिजरामृत्युनिलये वर्तते दृढा ॥६॥
आत्मबुद्धिरहंमानात्कदाचिन्नैव हीयते ॥
आत्मा न जायते नित्यो म्रियते वा कथंचन ॥७॥
संजायतेऽस्ति विपरिमणते वर्धते तथा ॥
क्षीयते नश्यतीत्येते षङ्भावा वपुषः स्मृताः ॥८॥
आत्मनो न विकारित्वं घटस्थनभसो यथा ॥
एवमात्मा वपुस्तस्मादिति संचिन्तयेद्बुधः ॥९॥
मूषानिक्षिप्तहेमाभः कोशः प्राणमयोऽत्र तु ॥
वर्ततेऽन्तरतो देहे बुद्धः प्राणादिवायुभिः ॥१०॥
कर्मेन्द्रियैः समायुक्तश्चलनादिक्रियात्मकः ॥
क्षुत्पिपासापराभूतो नायमात्मा जडो यतः ॥११॥
चिद्रूप आत्मा येनैव स्वदेहमनुपश्यति ॥
आत्मैवाहं परं ब्रह्म निर्लेपः सुखनीरधिः ॥१२॥
न तदश्नाति कं चैनं न तदश्नाति कश्चन ॥
ततः प्राणमये कोशे कोशोऽस्त्येव मनोमयः ॥
स संकल्पविकल्पात्मा बुद्धीन्द्रियसमाहितः ॥१३॥
कामः क्रोधस्तथा लोभो मोहो मात्सर्यमेव च ॥
मदश्चेत्यरिषड्वर्गो ममतेच्छादयोऽपि च ॥
ममोमयस्य कोशस्य धर्मा एतस्य तत्र तु ॥१४॥
या कर्मविषया बुद्धिर्वेदशास्त्रार्थनिश्चिता ॥
सा तु ज्ञानेन्द्रियैःसार्धं विज्ञानमयकोशतः ॥१५॥
इह कर्तृत्वाभिमानी स एव तुनसंशयः ॥
इहामुत्र गतिस्तस्य स जीवो व्यावहारिकः ॥१६॥
व्योमादिसात्त्विकांशेभ्यो जायन्ते धीन्द्रियाणि तु ॥
व्योम्नः श्रोत्रं भुवो घ्राणं जलाज्जिह्वाथ तेजसः ॥१७॥
चक्षुर्वायोस्त्वगुत्पन्ना तेषां भौतिकता ततः ॥
व्योमादीनां समस्तानां सात्विकांशेभ्य एव तु ॥१८॥
जायेते बुद्धिमनसी बुद्धिः स्यान्निश्चयात्मिका ॥
वाक्यपाणिपादपायूपस्थानि कर्मेन्द्रियाणि तु ॥
व्योमादिनां रजोंऽशेभ्यो व्यस्तेभ्यस्तान्यनुक्रमात् ॥१९॥
समस्तेभ्यो रजोंऽशेभ्यः पञ्च प्राणादिवायवः ॥
जायन्ते सप्तदशकमेवं लिङ्गशरीरकम् ॥२०॥
एवं लिङ्गशरीरं तु तप्तायःपिण्डवद्यतः ॥
परस्पराध्यासयोगात्साक्षी चैतन्यसंयुतः ॥२१॥
तदानन्दमयः कोशो भोक्तृत्वं प्रतिपद्यते ॥
विद्याकर्मफलादीनां भोक्तेहामुत्र स स्मृतः ॥२२॥
यदाध्यासं विहायैष स्वस्वरूपेण तिष्ठति ॥
अविद्यामात्रसंयुक्तःसाक्ष्यात्मा जायते तदा ॥२३॥
द्रष्टान्तःकरणादीनामनुभूतस्मृतेरपि ॥
अतोऽन्तःकरणाध्यासादन्यस्तत्त्वेन चात्मनि ॥
भोक्तृत्वं साक्षिता चेति द्वैधं तस्योपपद्यते ॥२४॥
आतपश्चापि तच्छाया तत्प्रकाशे विराजते ॥
एको भोजयिता तत्र भुङ्क्तेऽन्यः कर्मणः फलम् ॥२५॥
क्षेत्रज्ञं रथिनं विद्धि शरीरं रथमेव तु ॥
वृद्धिं तु सारथिं विद्धि प्रग्रहं तु मनस्तथा ॥२६॥
इन्द्रियाणि हयान्विद्धि विषयांस्तेषु गोचरान् ॥
इन्द्रियैर्मनसा युक्तं भोक्तारं विद्धि पुरूषम् ॥२७॥
एवं शान्त्यादियुक्तः सन्नुपास्ते यः सदा द्विजः ॥
उद्घाट्योद्धाट्य चैकैकं यथैव कदलीतरोः ॥२८॥
वल्कलानि ततः पश्चाल्लभते सारमुत्तमम् ॥
तथैव पञ्चभूतेषु मनः संक्रमते क्रमात् ॥
तेषां मध्ये ततः सारमात्मानमपि विन्दति ॥२९॥
एवं मनः समाधाय संयतो मनसि द्विजः ॥
अथ प्रवर्तयेच्चितं निराकारे परात्मनि ॥३०॥
ततो मनः प्रगृहणाति परमात्मानमव्ययम् ॥
यत्तददृश्यमग्राह्यमस्थूलाद्युक्तिगोचरम् ॥३१॥
श्रीराम उवाच ।
भगवञ्छ्ररवणेनैव प्रवर्तन्ते जनाः कथम् ॥
वेदशास्त्रार्थसंपन्ना यज्वानः सत्यवादिनः ॥३२॥
श्रृण्वन्तोऽपि तथात्मानं जानते नैव केचन ॥
ज्ञात्वापि मन्यते मिथ्या किमेतत्तव मायया ॥३३॥
श्रीभगवानुवाच ॥
एवमेव महाबाहो नात्र कार्या विचारणा ॥
दैवी ह्येषा गुणमयी मम माया दुरत्यया ॥३४॥
मामेव ये प्रपद्यन्ते मायामेतां तरंति ते ॥
अभक्ता ये महाबाहो मम श्रद्धाविवर्जिताः ॥३५॥
फलं कामयमानास्ते चैहिकामुष्मिकादिकम् ॥
क्षयिष्ण्वल्पं सातिशयं ततः कर्मफलं मतम् ॥३६॥
तदविज्ञाय कर्माणि ये कुर्वन्ति नराधमाः ॥
मातुः पतन्ति ये गर्भे मृत्यार्वक्त्रे पुनःपुनः ॥३७॥
नानायोनिषु जातस्य देहिनो यस्य कस्यचित् ॥
कोटिजन्मार्जितैः पुण्यैर्मयि भक्तिः प्रजायते ॥३८॥
स एव लभते ज्ञानं मद्भक्तः श्रद्ध्यान्वितः ॥
नान्यकर्माणि कुर्वाणो जन्मकोटिशतैरपि ॥३९॥
ततः सर्व परित्यज्य मद्भक्तिं समुदाहर ॥
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ॥
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥४०॥
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ॥४१॥
यत्तपस्यसि राम त्वं तत्कुरुष्व मदर्पणम् ॥
ततः परतरा नास्ति भक्तिर्मयि रघूत्तम ॥४२॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासू० शिवराघवसंवादे पञ्चकोशोपपादनं नाम चतुर्दशोध्यायः ॥१४॥