शिवगीता - सप्तमोध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


श्रीराम उवाच ।

भगवन्यन्मया पृष्टं तत्तथैव स्थितं विभो ॥

अत्रोत्तरं मया लब्धं तत्त्वो नैव महेश्वर ॥१॥

परिच्छिन्नपरीमाणे देहे भगवतस्तव ॥

उत्पत्तिः पञ्चभूतानां स्थितिर्वा विलयः कथम् ॥२॥

स्वस्वाधिकारसंबद्धाः कथं नाम स्थिताः सुराः ॥

ते सर्वे त्वं कथं देव भुवनानि चतुर्दश ॥३॥

त्वत्त श्रुत्वापि देवात्र संशयो मे महानभूत् ॥

अप्रत्यायितचित्तस्य संशयं छेत्तुमर्हसि ॥४॥

श्रीभगवानुवाच ।

वटबीजेऽतिसूक्ष्मेऽपि महावटतरुर्यथा ॥

सर्वदास्तेऽन्यथा वृक्षः कुत आयाति तद्वद ॥

तद्वन्मम तनौ राम भूतानामागतिर्लयः ॥५॥

महासैंधवपिण्डोऽपि जले क्षिप्तो विलीयते ॥

न दृश्यते पुनः पाकात्कुत आयाति पूर्ववत् ॥६॥

प्रातःप्रातर्यथा लोको जायते सूर्यमण्डलात् ॥

एवं मत्तो जगत्सर्वं जायतेऽस्ति विलीयते ॥

मय्येव सकलं राम तद्वज्जानाहि सुव्रत ॥७॥

श्रीराम उवाच ॥

कथितेऽपि महाभाग दिग्जडस्य यथा दिशि ॥

निवर्तते भ्रमो नैव तद्वन्मम करोमि किम् ॥८॥

श्रीभगवानुवाच ।

मयि सर्वं यथा राम जगदेतच्चराचरम् ॥

वर्तते तद्दर्शयामि न द्रष्टुं क्षमते भवान् ॥९॥

दिव्यं चक्षुः प्रदास्यामि तुभ्यं दशरथात्मज ॥

तेन पश्य भयं त्यक्त्वा मत्तेजोमण्डलं ध्रुवम् ॥१०॥

न चर्मचक्षुषा द्रष्टुं शक्यते मामकं महः ॥

नरेण वा सुरेणापि तन्ममानुग्रहं विना ॥११॥

सूत उवाच ।

इत्युक्त्वा प्रददौ तस्मै दिव्यं चक्षुर्महेश्वरः ॥

अथादर्शयत्तस्मै वक्रं पातालसंनिभम् ॥१२॥

विद्युत्कोटिप्रभं दीप्तिमतिभीमं भयावहम् ॥

तदृष्टैवभयाद्रामो जानुभ्यामवनिं गतः ॥१३॥

प्रणम्य दन्डवद्भूमौ तुष्टाव च पुनः पुनः ॥

अथोत्थाय महावीरो यावदेव प्रपश्यति ॥१४॥

वक्रं पुरभिदस्तत्र अन्तर्ब्रह्माण्डकोटयः ॥

चटका इव लक्ष्यन्ते ज्वालामालासमाकुलाः ॥१५॥

मेरुमन्दरविन्ध्याद्या गिरयः सप्त सागराः ॥

दृश्यन्ते चन्द्रसूर्याद्याः पञ्च भूतानि ते सुराः ॥१६॥

अरण्यानि महानागा भुवनानि चतुर्दश ॥

प्रतिब्रह्माण्डमेवं तद्‌दृष्ट्वा दशरथात्मजः ॥१७॥

सुरासुराणां संग्रामास्तत्र पूर्वापरानपि ॥

विष्णोर्दशावतारांश्च तत्तत्कर्माण्यपि द्विजाः ॥१८॥

परभवांश्च देवानां पुरदाहं महेशितुः ॥

उत्पद्यमानानुत्पन्नान्सर्वानपि विनश्यतः ॥१९॥

दृष्ट्‌वा रामो भयाविष्टः प्रणनाम पुनः पुनः ॥

उत्पन्नतत्त्वज्ञानोऽपि बभूव रघुनन्दनः ॥२०॥

अथोपनिषदां सारैरथैस्तुष्टाव शंकरम् ॥२१॥

श्रीराम उवाच ।

देव प्रपंन्नार्तिहर प्रसीद प्रसीद विश्वेश्वर विश्व वन्द्य ॥

प्रसीद गंगाधर चन्द्रमौले मां त्राहि संसारभयादनाथम् ॥२२॥

त्वत्तो हि जातं जगदेतदीश त्वय्येव भूतानि वसन्ति नित्यम् ॥

त्वय्येव शंभो विलयं प्रयान्ति भूमौ यथा वृक्षलतादयोऽपि ॥२३॥

ब्रह्मेन्द्ररुद्रश्च मरुद्‍गणाश्च गन्धर्वयक्षाऽसुरसिद्धसंघा ॥

गंगादिनद्यो वरुणालयाश्च वसन्ति शूलिंस्तव वक्रयन्त्रे ॥२४॥

त्वन्मायया कल्पितमिन्दुमौले त्वय्येव दृश्यत्वमुपैति विश्वम् ॥

भ्रान्त्या जनः पश्यति सर्वमेतच्छुक्तौ यथा रौप्यमहिं च रज्जौ ॥२५॥

तेजोभिरापूर्य जगत्समस्तं प्रकाशमानं कुरुषे प्रकाशम् ॥

विना प्रकाशं तव देवदेवन दृश्यते विश्वमिदं क्षणेन ॥२६॥

अल्पाश्रयो नैव बृहत्पदार्थ धत्तेऽणुरेकोन हि विन्ध्यशैलम् ॥

त्वद्वक्त्रमात्रे जगदेतदस्ति त्वन्माययैवेति विनिश्चिनोमि ॥२७॥

रज्जौ भुजङ्गो भयदो यथैव न जायते नास्ति न चैति नाशम् ॥

त्वन्मायया केवलमात्त रूपं तथैव विश्वं त्वयि नीलकण्ठ ॥२८॥

विचार्यमाणे तव यच्छरीरमाधारभावं जगतामुपैति ॥

तदप्यवश्यं यदविद्ययैव पूर्णश्चिदानन्दमयो मतस्त्वम् ॥२९॥

पूजेष्टपूर्तादिवरक्रियाणां भोक्तुः फलं यच्छसि विश्वमेव ॥

मृषैतदेवं वचनं पुरारे त्वत्तोऽस्ति भिन्नं न च किञ्चिदेव ॥३०॥

अज्ञानमूढा मुनयो वदन्ति पूजोपचारादिबलिक्रियाभिः ॥

तोषं गिरिशो भजतीति मिथ्या कुतस्त्वमूर्तस्य तु भोगलिप्सा ॥३१॥

किञ्चिद्दलं वा चुलुकोअकं वा यस्त्वं महेश प्रतिगृह्य दत्से ॥

त्रैलोक्यलक्ष्मीमप यज्जनेभ्यः सर्वत्वविद्याकृतमेव मन्ये ॥३२॥

व्याप्नोषि सर्वा विदिशो दिशश्च त्वं विश्वमेकः पुरुषः पुराणः ॥

नष्टेऽपि तस्मिंस्तव नास्ति हानिर्घटे विनष्ट नभसो यथैव ॥३३॥

यथैकमाकाशगमर्कबिम्बं क्षुद्रेषु पात्रेषु जलान्वितेषु ॥

भजत्यनेकप्रतिबिम्बभावं तथा त्वमन्तःकरणेषु देव ॥३४॥

संसर्जने वाऽप्यवने विनाहे विश्वस्य किञ्चित्तव नास्ति कार्यम् ॥

अनादिभिः प्राणभृतामदृष्टैस्तथापि तत्स्वप्नवदातनोषि ॥३५॥

स्थूलस्य सूक्ष्मस्य जडस्य भोगो देहस्य शंभो न विदं विनास्ति ॥

अतस्त्वदारोपणमातनोति श्रुतिः पुरारे सुखदुःखयोः सदा ॥३६॥

नमः सच्चिदम्भोऽधिहंसाय तुभ्यं नमः कालकालाय कालात्मकाय ॥

नमस्ते समस्ताघसंहारकर्त्रे नमस्ते मृषा चित्तवृत्त्येकमोक्त्रे ॥३७॥

सूत उवाच ।

एवं प्रणम्य विश्वेशं पुरतः प्राञ्जलिः स्थितः ॥

विस्मितः परमेशानं जगाद रघुनन्दनः ॥३८॥

श्रीराम उवाच

उपसंहर विश्वात्मन्विश्वरूपमिदं तव ॥

प्रतीतं जगदेकात्म्यं शंभो भवदनुग्रहात् ॥३९॥

श्रीभगवानुवाच ।

पश्य राम महाबाहो मत्तो नान्योऽस्ति कश्‍चन ॥

सूत उवाच ।

इत्युक्त्वैवोपसंजह्ने स्वदेहे देवतादिकान् ॥

मीलिताक्षः पुनर्हर्षाद्यावद्रामः प्रपश्यति ॥४०॥

तावदेव गिरेः श्रृङ्गे व्याघ्रचर्मोपरि स्थितम् ॥

ददर्श पञ्चवदनं नीलकण्ठं त्रिलोचनम् ॥४१॥

व्याघ्रचरमाम्बरधरं भूतिभूषितविग्रहम् ॥

फणिकङ्कणभूषाढ्यं नागयज्ञोपवीतिनम् ॥४२॥

व्याघ्रचर्मोत्तरीयं च विद्युत्पिङ्गजटाधरम् ॥

एकाकिनं चन्द्रमौलिं वरेण्यमभयप्रदम् ॥४३॥

चतुर्भुजं खण्डपरशुमुग्रहस्तं जगत्पतिम् ॥

अथाज्ञया पुरस्तस्य प्रणम्योपविवेश सः ॥४४॥

अथाह रामं देवेशो यद्यत्प्रष्टुमभीप्ससि ॥

तत्सर्वं पृच्छ राम त्वं मत्तो नान्योऽस्ति ते गुरुः ॥४५॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्म० योगशास्त्रे शिवराघवसंवादे विश्‍वरूपदर्शनं नाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP