मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
श्री गणपति सहस्रनामस्तोत्रम् गकारादि

श्री गणपति सहस्रनामस्तोत्रम् गकारादि

हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.

 


॥ श्रीगणपतये नम; ॥

अस्य श्रीगणपतिगकारादिसहस्रनाममालामन्त्रस्य दुर्वासा ऋषि:, अनुष्टुप् छन्द:, श्रीगणपतिर्देवता, गं बीजम् स्वाहा शक्ति:, ग्लौं कीलकम्, मम सकलभीष्टसिद्ध्यर्थे जपे विनियोग: ।

करन्यास:

ॐ अङ्गुष्ठाभ्यां नम:, श्रीं तर्जनीभ्यां नम:, ह्रीं मध्यमाभ्यां नम:. क्रीं अनामिकाभ्यां नम:, ग्लौं कनिष्ठिकाभ्यां नम:, गं करतलकरपृष्ठाभ्यां नम: । एवं ह्रदयादिन्यास: । अथवा षड्‌दीर्घभाजागमितिबीजेन कराङ्गन्यास: ।

ध्यानम्

ओंकारसंनिभमिभाननमिन्दुभालं

मुक्ताग्रबिन्दुममलद्युतिमेकदन्तम् ।

लम्बोदरं कलचतुर्भुजमादिदेवं

ध्यायेन्महागणपतिं मतिसिद्धिकान्तम् ॥

स्तोत्रम्

ॐ गणेश्वरो गणाध्यक्षो गणाराध्यो गणप्रिय: ।

गणनाथो गणस्वामी गणेशो गणनायका: ॥ १ ॥

गणमूर्तिर्गणपतिर्गणत्राता गणञ्जय: ।

गणपोऽथ गणक्रीडो गणदेवो गणाधिप: ॥ २ ॥

गणज्येष्ठो गणश्रेष्ठो गणप्रेष्ठो गणाधिराट् ।

गणराड् गणगोप्ताथ गणाङ्गो गणदैवतम् ॥ ३ ॥

गणबन्धुर्गणसुह्रद् गणाधीशो गणप्रथ: ।

गणप्रियसख: शश्वद् गणप्रियसुह्रत् तथा ॥ ४ ॥

गणप्रियरतो नित्यं गणप्रीतिविवर्धन: ।

गणमण्डलमध्यस्थो गणकेलिपरायण: ॥ ५ ॥

गणाग्रणीर्गणेशानो गणगीतो गणोच्छ्रय: ।

गण्यो गणहितो गर्जद्गणसेनो गणोद्धत: ॥ ६ ॥

गणभीतिप्रमथनो गणभीत्यपहारक: ।

गणनार्हो गणप्रौढो गणभर्ता गणप्रभु: ॥ ७ ॥

गणसेनो गणचरो गणप्राज्ञो गणैकराट् ।

गणाग्रयो गणनामा च गणपालनतत्पर: ॥ ८ ॥

गणजिद् गणगर्भस्थो गणप्रवणमानस: ।

गणगर्वपरीहर्ता गणो गणनमस्कृत: ॥ ९ ॥

गणार्चिताङ्‌घ्रियुगलो गणरक्षणकृत् सदा ।

गणध्यातो गणगुरुर्गणप्रणयतत्पर: ॥ १० ॥

गणागणपरित्राता गणाधिहरणोद्धुर: ।

गणसेतुर्गणनुतो गणकेतुर्गणाग्रग: ॥ ११ ॥

गणहेतुर्गणग्राही गणानुग्रहकारक: ।

गणागणानुग्रहभूर्गणागणवरप्रद: ॥ १२ ॥

गणस्तुतो गणप्राणो गणसर्वस्वदायक: ।

गणवल्लभमूर्तिश्च गणभूतिर्गणेष्टद: ॥ १३ ॥

गणसौख्यप्रदाता च गणदु:खप्रणाशन: ।

गणप्रथितनामा च गणाभीष्टकर: सदा ॥ १४ ॥

गणमान्यो गणख्यातो गणवीतो गणोत्कट: ।

गणपालो गणवरो गणगौरवदायक: ॥ १५ ॥

गणगर्जितसंतुष्टो गणस्वच्छन्दग: सदा ।

गणराजो गणश्रीदो गणाभयकर: क्षणात् ॥ १६ ॥

गणमूर्द्धाभिषिष्क्तश्च गणसैन्यपुर:सर: ।

गुणातीतो गुणमयो गुणत्रयविभागकृत् ॥ १७ ॥

गुणी गुणाकृतिधरो गुणशाली गुणप्रिय: ।

गुणपूर्णो गुणाम्भोधिर्गुणभाग् गुणदूरग: ॥ १८ ॥

गुणागुणवपुर्गौणशरीरो गुणमण्डित: ।

गुणस्त्रष्टा गुणेशानो गुणेशोऽथ गुणेश्वर: ॥ १९ ॥

गुणसृष्टजगत्संघो गुणसंघो गुणैकराट् ।

गुणप्रवृष्टो गुणभूर्गुणीकृतचराचर: ॥ २० ॥

गुणप्रवणसंतुष्टो गुणहीनपराङ्‌मुख: ।

गुणैकभूर्गुणश्रेष्ठो गुणज्येष्ठो गुणप्रभु: ॥ २१ ॥

गुणज्ञो गुणसम्पूज्यो गुणैकसदनं सदा ।

गुणप्रणयवान् गौणप्रकृतिर्गुणभाजनम् ॥ २२ ॥

गुणिप्रणतपादाब्जो गुणिगीतो गुणोज्ज्वल: ।

गुणवान् गुणसम्पन्नो गुणनन्दितमानस: ॥ २३ ॥

गुणसंचारचतुरो गुणसंचयसुन्दर: ।

गुणगौरो गुणाधारो गुणसंवृतचेतन: ॥ २४ ॥

गुणकृद् गुणभृन्नित्यं गुणाग्रयो गुणपारदृक् ।

गुणप्रचारी गुणयुग् गुणागुणविवेककृत् ॥ २५ ॥

गुणाकरो गुणकरो गुणप्रवणवर्धन: ।

गुणगूढचरो गौणसर्वसंसारचेष्टित: ॥ २६ ॥

गुणदक्षिणसौहार्दो गुणलक्षणतत्त्ववित् ।

गुणहारी गुणकलो गुणसङ्घसख: सदा ॥ २७ ॥

गुणसंस्कृतसंसारो गुणतत्त्वविवेचक: ।

गुणगर्वधरो गौणसुखदु:खोदयो गुण: ॥ २८ ॥

गुणाधीशो गुणलयो गुणवीक्षणलालस: ।

गुणगौरवदाता च गुणदाता गुणप्रद: ॥ २९ ॥

गुणकृद्‌गुणसम्बन्धो गुणभृद्‌गुणबन्धन: ।

गुणह्रद्यो गुणस्थायी गुणदायी गुणोत्कट: ॥ ३० ॥

गुणचक्रधरो गौणावतारो गुणबान्धव: ।

गुणबन्धुर्गुणप्रज्ञो गुणप्राज्ञो गुणालय: ॥ ३१ ॥

गुणधात गुणप्राणो गुणगोपो गुणाश्रय: ।

गुणयायी गुणाधायी गुणपो गुणपालक: ॥ ३२ ॥

गुणाह्रततनुर्गौणो गीर्वाणो गुणगौरव: ।

गुणवत्पूजितपदो गुणवत्प्रीतिदायक: ॥ ३३ ॥

गुणवद्‌गीतकीर्तिश्च गुणवद्‍बद्धसौह्रद: ।

गुणवद्वरदो नित्यं गुणवत्प्रतिपालक: ॥ ३४ ॥

गुणवद्‍गुणसंतुष्टो गुणवद्रचितस्तव: ।

गुणवद्रक्षणपरो गुणवत्प्रणयप्रिय: ॥ ३५ ॥

गुणवच्चक्रसंचारो गुणवत्कीर्तिवर्धन: ।

गुणवद्‌गुणचित्तस्थो गुणवद्‌गुणरक्षक: ॥ ३६ ॥

गुणवत्पोषणकरो गुणवच्छत्रुसूदन: ।

गणवत्सिद्धिदाता च गुणवद्‌गौरवप्रद: ॥ ३७ ॥

गुणवत्प्रवणस्वान्तो गुणवद्‌गुणभूषण: ।

गुणवत्कुलविद्वेषिविनाशकरणक्षम: ॥ ३८ ॥

गुणिस्तुतगुणो गर्जत्प्रलयाम्बुदनि:स्वन: ।

गजो गजपतिर्गर्जद्‌गजयुद्धविशारद: ॥ ३९ ॥

गजास्यो गजकर्णोऽथ गजराजो गजानन: ।

गजरूपधरो गर्जद्‌गजयूथोद्धुरध्वनि: ॥ ४० ॥

गजाधीशो गजाधारो गजासुरजयोद्धुर: ।

गजदन्तो गजवरो गजकुम्भो गजध्वनि: ॥ ४१ ॥

गजमायो गजमयो गजश्रीर्गजगर्जित: ।

गजामयहरो नित्यं गजपुष्टिप्रदायक: ॥ ४२ ॥

गजोत्पत्तिर्गजत्राता गजहेतुर्गजाधिप: ।

गजमुख्यो गजकुलप्रवरो गजदैत्यहा ॥ ४३ ॥

गजकेतुर्गजाध्यक्षो गजसेतुर्गजाकृति: ।

गजवन्द्यो गजप्राणो गजसेव्यो गजप्रभु: ॥ ४४ ॥

गजमत्तो गजेशानो गजेशो गजपुङ्ग्व: ।

गजदन्तधरो गुञ्जन्मधुपो गजवेषभृत् ॥ ४५ ॥

गजच्छन्नो गजाग्रस्थो गजयायी गजाजय: ।

गजराड् गजयूथस्थो गजगञ्जकभञ्जक: ॥ ४६ ॥

गर्जितोज्झितदैत्यासुर्गर्जितत्रातविष्टप: ।

गानज्ञो गानकुशलो गानतत्त्वविवेचक: ॥ ४७ ॥

गानश्‍लाघी गानरसो गानज्ञानपरायण: ।

गानागमज्ञो गानाङ्गो गानप्रवणचेतन: ॥ ४८ ॥

गानकृद्‌गानचतुरो गानविद्याविशारद: ।

गानध्येयो गानगम्यो गानध्यानपरायण: ॥ ४९ ॥

गानभूर्गानशीलश्च गानशाली गतश्रम: ।

गानविज्ञानसम्पन्नो गानश्रवणलालस: ॥ ५० ॥

गानयत्तो गानमयो गानप्रणयवान् सदा ।

गानध्यात गानबुद्धिर्गानोत्सुकमना: पुन; ॥ ५१ ॥

गानोत्सुको गानभूमिर्गानसीमा गुणोज्ज्वल: ।

गानाङ्गज्ञानवान् गानमानवान् गानपेशल: ॥ ५२ ॥

गानवत्प्रणयो गानसमुद्रो गानभूषण: ।

गानसिन्धुर्गानपरो गानप्राणो गणाश्रय: ॥ ५३ ॥

गानैकभूर्गानह्रष्टो गानचक्षुर्गणैकदृक् ।

गानमत्तो गानरुचिर्गानविद्गानवित्प्रिय: ॥ ५४ ॥

गानान्तरात्मा गानाढ्यो गानभ्राजत्सभ: सदा ।

गानमायो गानधरो गानविद्याविशोधक: ॥ ५५ ॥

गानाहितघ्नो गानेन्द्रो गानलीनो गतिप्रिय: ।

गानाधीशो गानलयो गानाधारो गतीश्वर: ॥ ५६ ॥

गानवन्मानदो गानभूतिर्गानैकभूतिमान् ।

गानतानततो गानतानदानविमोहित: ॥ ५७ ॥

गुरुर्गुरूदरश्रोणिर्गुरुतत्त्वार्थदर्शन: ।

गुरुस्तुतो गुरुगुणो गुरुमायो गुरुप्रिय: ॥ ५८ ॥

गुरुकीर्तिर्गुरुभुजो गुरुवक्षा गुरुप्रभ: ।

गुरुलक्षणसम्पन्नो गुरुद्रोहपराङ्‌मुख: ॥ ५९ ॥

गुरुविद्यो गुरुप्राणो गुरुबाहुबलोच्छ्रय: ।

गुरुदैत्यप्राणहरो गुरुदैत्यापहारक: ॥ ६० ॥

गुरुगर्वहरो गुह्यप्रवरो गुरुदर्पहा ।

गुरुगौरवदायी च गुरुभीत्यपहारक: ॥ ६१ ॥

गुरुशुण्डो गुरुस्कन्धो गुरुजङ्घो गुरुप्रथ: ।

गुरुभालो गुरुगलो गुरुश्रीर्गुरुगर्वनुत् ॥ ६२ ॥

गुरूरुगुरुपीनांसो गुरुप्रणयलालस: ।

गुरुमुख्यो गुरुकुलस्थायी गुरुगुण: सदा ॥ ६३ ॥

गुरुसंशयभेत्ता च गुरुमानप्रदायक: ।

गुरुधर्मसदाराध्यो गुरुधर्मनिकेतन: ॥ ६४ ॥

गुरूदैत्यकुलच्छेत्ता गुरुसैन्यो गुरुद्युति: ॥ ६५ ॥

गुरुधर्माग्रगण्योऽथ गुरुधर्मधुरन्धर: ।

गरिष्ठो गुरुसंतापशमनो गुरुपूजित: ॥ ६६ ॥

गुरुधर्मधरो गौरधर्माधारो गदापह: ।

गुरुशास्त्रविचारज्ञो गुरुशास्त्रकृतोद्यम: ॥ ६७ ॥

गुरुशास्त्रार्थनिलयो गुरुशास्त्रालय: सदा ।

गुरुमन्त्रो गुरुश्रेष्ठो गुरुमन्त्रफलप्रद: ॥ ६८ ॥

गुरुस्त्रीगमनोद्दामप्रायश्चित्तनिवारक: ।

गुरुसंसारसुखदो गुरुसंसारदु:खभित् ॥ ६९ ॥

गुरुश्‍लाघापरो गौरभानुखण्डावतंसभृत् ।

गुरुप्रसन्नमूर्तिश्च गुरुशापविमोचक: ॥ ७० ॥

गुरुकान्तिर्गुरुमयो गुरुशासनपालक: ।

गुरुतन्त्रो गुरुप्रज्ञो गुरुभो गुरुदैवतम् ॥ ७१ ॥

गुरुविक्रमसंचारो गुरुदृग् गुरुविक्रम: ।

गुरुक्रमो गुरुप्रेष्ठो गुरुपाखण्डखण्डक: ॥ ७२ ॥

गुरुगर्जितसम्पूर्णब्रह्माण्डो गुरुगर्जित: ।

गुरुपुत्रप्रियसखो गुरुपुत्रभयापह: ॥ ७३ ॥

गुरुपुत्रपरित्राता गुरुपुत्रवरप्रद: ।

गुरुपुत्रार्तिशमनो गुरुपुत्राधिनाशन: ॥ ७४ ॥

गुरुपुत्रप्राणदाता गुरुभक्तिपरायण: ।

गुरुविज्ञानविभवो गौरभानुवरप्रद: ॥ ७५ ॥

गौरभानुस्तुतो गौरभानुत्रासापहारक: ।

गौरभानुप्रियो गौरभानुर्गौरववर्धन: ॥ ७६ ॥

गौरभानुपरित्राता गौरभानुसख: सदा ।

गौरभानुप्रभुर्गौरभानुभीतिप्रणाशन: ॥ ७७ ॥

गौरीतेज:समुत्पन्नो गौरीह्रदयनन्दन: ।

गौरीस्तनन्धयो गौरीमनोवाञ्छितसिद्धिकृत् ॥ ७८ ॥

गौरो गौरगुणो गौरप्रकाशो गौरभैरव: ।

गौर्रीशनन्दनो गौरीप्रियपुत्रो गदाधर: ॥ ७९ ॥

गौरीवरप्रदो गौरीप्रणयो गौरसच्छवि: ।

गौरीगणेश्वरो गौरीप्रवणो गौरभावन: ॥ ८० ॥

गौरात्मा गौरकीर्तिश्च गौरभावो गरिष्ठदृक् ।

गौतमो गौतमीनाथो गौतमीप्राणवल्लभ: ॥ ८१ ॥

गौतमाभीष्टवरदो गौतमाभयदायक: ।

गौतमप्रणयप्रह्वो गौतमाश्रमदु:खहा ॥ ८२ ॥

गौतमीतीरसंचारी गौतमीतीर्थ्नायक: ।

गौतमापत्परिहरो गौतमाधिविनाशन: ॥ ८३ ॥

गोपतिर्गोधनो गोपो गोपालप्रियदर्ह्सन: ।

गोपालो गोगणाधीशो गोकश्मलनिवर्तक: ॥ ८४ ॥

गोसहस्त्रो गोपवरो गोपगोपीसुखावह: ।

गोवर्धनो गोपगोपो गोपो गोकुलवर्धन: ॥ ८५ ॥

गोचरो गोचराध्यक्षो गोचरप्रीतिवृद्धिकृत् ।

गोमी गोकष्टसंत्राता गोसंतापनिवर्तक: ॥ ८६ ॥

गोष्ठो गोष्ठाश्रयो गोष्ठपतिर्गोधनवर्धन: ।

गोष्ठप्रियो गोष्ठमयो गोष्ठामयनिवर्तक: ॥ ८७ ॥

गोलोको गोलको गोभृद्‌ गोभर्ता गोसुखावह: ।

गोधुग्‌ गोधुग्गणप्रेष्ठो गोदोग्धा गोमयप्रिय: ॥ ८८ ॥

गोत्रं गोत्रपतिर्गोत्रप्रभुर्गोत्रभयापह: ।

गोत्रवृद्धिकरो गोत्रप्रियो गोत्रार्तिनाशन: ॥ ८९ ॥

गोत्रोद्धारपरो गोत्रप्रवतो गोत्रदैवतम् ।

गोत्रविख्यातनामा न गोत्री गोत्रप्रपालक: ॥ ९० ॥

गोत्रसेतुर्गोत्रकेतुर्गोत्रहेतुर्गतक्लम: ।

गोत्रत्राणकरो गोत्रपतिर्गोत्रेशपूजित: ॥ ९१ ॥

गोत्रभिद् गोत्रभित्त्राता गोत्रभिद्‌वरदायक: ।

गोत्रभित्पूजितपदो गोत्रभिच्छत्रुसूदन: ॥ ९२ ॥

गोत्रभित्प्रीतिदो नित्यं गोत्रभिद्‌गोत्रपालक: ।

गोत्रभिद्ग्तचरितो गोत्रभिद्राज्यरक्षक: ॥ ९३ ॥

गोत्रभिज्जयदायी च गोत्रभित्प्रणय: सदा ।

गोत्रभिद्भयसम्भेत्ता गोत्रभिन्मानदायक: ॥ ९४ ॥

गोत्रभिद्गोपनपरो गोत्रभित्सैन्यनायक: ।

गोत्राधिपप्रियो गोत्रपुत्रीपुत्रो गिरिप्रिय: ॥ ९५ ॥

ग्रन्थज्ञो ग्रन्थकृद्‌ग्रन्थग्रन्थिभिद्‌ग्रन्थविघ्नहा ।

ग्रन्थादिर्ग्रन्थसंचारो ग्रन्थश्रवणलोलुप: ॥ ९६ ॥

ग्रन्थाधीनक्रियो ग्रन्थप्रियो ग्रन्थार्थतत्त्ववित् ।

ग्रन्थसंशयसंछेद्दी ग्रन्थवक्ता ग्रहाग्रणी: ॥ ९७ ॥

ग्रन्थगीतगुणो ग्रन्थगीतो ग्रन्थादिपूजित: ।

न्रन्थारम्भस्तुतो ग्रन्थग्राही ग्रन्थार्थपारदृक् ॥ ९८ ॥

ग्रन्थदृग्‌ ग्रन्थविज्ञानो ग्रन्थसंदर्भशोधक: ।

ग्रन्थकृत्पूजितो ग्रन्थकरो ग्रन्थपरायण: ॥ ९९ ॥

ग्रन्थपारायणपरो ग्रन्थसंदेहभञ्जक: ।

ग्रन्थकृद्वरदाता च ग्रन्थकृद्वन्दित: सदा ॥ १०० ॥

ग्रन्थानुरक्तो ग्रन्थज्ञो ग्रन्थानुग्रहदायक: ।

ग्रन्थान्तरात्मा ग्रन्थार्थपण्डितो ग्रन्थसौह्रद: ॥ १०१ ॥

ग्रन्थपारङ्गमो ग्रन्थगुणविद् ग्रन्थविग्रह: ।

ग्रन्थसेतुर्ग्रन्थहेतुर्ग्रन्थकेतुर्ग्रहाग्रग: ॥ १०२ ॥

ग्रन्थपूज्यो ग्रन्थगेयो ग्रन्थग्रथनलालस: ।

ग्रन्थभूमिर्ग्रहश्रेष्ठो ग्रहकेतुर्ग्रहाश्रय: ॥ १०३ ॥

ग्रन्थकारो ग्रन्थकारमान्यो ग्रन्थप्रसारक: ।

ग्रन्थश्रमज्ञो ग्रन्थाङ्गो ग्रन्थभ्रमनिवारक: ॥ १०४॥

ग्रन्थप्रवणसर्वाङ्गो ग्रन्थप्रणयतत्पर: ।

गीतं गीतगुणो गीतकीर्तिर्गीतविशारद: ॥ १०५ ॥

गीतस्फीतयशा गीतप्रणयो गीतचञ्चुर: ।

गीतप्रसन्नो गीतात्मा गीतलोलो गतस्पृह: ॥ १०६ ॥

गीताश्रयो गीतमयो गीततत्त्वार्थकोविद: ।

गीतसंशयसंछेत्ता गीतसंगीतशासन: ॥ १०७ ॥

गीतार्थज्ञो गीततत्त्वो गीतातत्त्वं गताश्रय: ।

गीतासारोऽथ गीताकृद्गीताकृद्विघ्ननाशन: ॥ १०८ ॥

गीताशक्तो गीतलीनो गीताविगतसंज्वर: ।

गीतैकदृग् गीतभूतिर्गीतप्रीतो गतालस: ॥ १०९ ॥

गीतवाद्यपटुर्गीतप्रभुर्गीतार्थतत्त्ववित् ।

गीतागीतविवेकज्ञो गीताप्रवणचेतन: ॥ ११० ॥

गतभीर्गतविद्वेषो गतसंसारबन्धन: ।

गतमायो गतत्रासो गतदु:खो गतज्वर: ॥ १११ ॥

गतासुह्रद् गताज्ञानो गतदुष्टाशयो गत: ।

गतार्तिर्गतसंकल्पो गतदुष्टविचेष्टित: ॥ ११२ ॥

गताहंकारसंचारो गतदर्पो गताहित: ।

गतविघ्नो गतभयो गतागतनिवारक: ॥ ११३ ॥

गतव्यथो गतापायो गतदोषो गते: पर: ।

गतसर्वविकारोऽथ गतगञ्जितकुञ्जर: ॥ ११४ ॥

गतकम्पितभूपृष्ठो गतरुग् गतकल्मष: ।

गतदैन्यो गतस्तैन्यो गतमानो गतश्रम: ॥ ११५ ॥

गतक्रोधो गतग्लानिर्गतम्लानो गतभ्रम: ।

गताभावो गतभवो गततत्त्वार्थसंशय: ॥ ११६ ॥

गयासुरशिरश्छेत्ता गयासुरवरप्रद: ।

गयावासो गयानाथो गयावासिनमस्कृत: ॥ ११७ ॥

गयातीर्थफलाध्यक्षो गयायात्राफलप्रद: ।

गयामयो गयाक्षेत्रं गयाक्षेत्रनिवासकृत् ॥ ११८ ॥

गयावासिस्तुतो गायन्मधुव्रतलसत्कट: ।

गायको गायकवरो गायकेष्टफलप्रद: ॥ ११९ ॥

गायकप्रणयी गाता गायकाभयदायक: ।

गायकप्रवणस्वान्तो गायक: प्रथम: सदा ॥ १२० ॥

गायकोद्‌गीतसम्प्रीतो गायकोत्कटविघ्नहा ।

गानगेयो गायकेशो गायकान्तरसञ्चर: ॥ १२१ ॥

गायकप्रियद: शश्‍वद् गायकाधीनविग्रह: ।

गेयो गेयगुणो गेयचरितो गेयतत्त्ववित् ॥ १२२ ॥

गायकत्रासहा ग्रन्थो ग्रन्थतत्त्वविवेचक: ।

गाढानुरागो गाढाङ्गो गाढगङ्गाजलोऽन्वहम् ॥ १२३ ॥

गाढावगाढजलधिर्गाढप्रज्ञो गतामय: ।

गाढप्रत्यर्थिसैन्योऽथ गाढानुग्रहतत्पर: ॥ १२४ ॥

गाढश्‍लेषरसाभिज्ञो गाढनिर्वृतिसाधक: ।

गङ्गाधरेष्टवरदो गङ्गाधरभयापह: ॥ १२५ ॥

गङ्गाधरगुरुर्गङगाधरध्यातपद: सदा ।

गङ्गाधरस्तुतो गङ्गाधराराध्यो गतस्मय: ॥ १२६ ॥

गङ्गाधरप्रियो गङ्गाधरो गङ्गाम्बुसुन्दर: ।

गङ्गाजलरसास्वादचतुरो गाङ्गतीरय: ॥ १२७ ॥

गङ्गाजलप्रणयवान् गङ्गातीरविहारकृत् ।

गङ्गाप्रियो गाङ्गजलावगाहनपर: सदा ॥ १२८ ॥

गन्धमादनसंवासो गन्धमादनकेलिकृत् ।

गन्धानुलिप्तसर्वाङ्गो गन्धलुब्धमधुव्रत: ॥ १३९ ॥

गन्धो गन्धर्वराजोऽथ गन्धर्वप्रियकृत् सदा ।

गन्धर्वविद्यातत्त्वज्ञो गन्धर्वप्रीतिवर्धन: ॥ १३० ॥

गकारबीजनिलयो गकारो गर्विगर्वनुत् ।

गन्धर्वगणसंसेव्यो गन्धर्ववरदायक: ॥ १३१ ॥

गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतम् ।

गन्धर्वगर्वसंछेत्ता गन्धर्ववरदर्पहा ॥ १३२ ॥

गन्धर्वप्रवणस्वान्तो गन्धर्वगणसंस्तुत: ।

गन्धर्वार्चितपादाब्जो गन्धर्वभयहारक: ॥ १३३ ॥

गन्धर्वाभयद: शश्‍वद्‌ गन्धर्वप्रतिपालक: ।

गन्धर्वगीतचरितो गन्धर्वप्रणयोत्सुक: ॥ १३४ ॥

गन्धर्वगानश्रवणप्रणयी गर्वभञ्जन: ।

गन्धर्वत्राणसंनद्धो गन्धर्वसमरक्षम: ॥ १३५ ॥

गन्धर्वस्त्रीभिरारध्यो गानं गानपटु: सदा ।

गच्छो गच्छपतिर्गच्छनायको गच्छगर्वहा ॥ १३६ ॥

गच्छराजोऽथ गच्छेशो गच्छराजनमस्कृत: ।

गच्छप्रियो गच्छगुरुर्गच्छत्राणकृतोद्यम: ॥ १३७ ॥

गच्छप्रभुर्गच्छचरो गच्छप्रियकृतोद्यम: ।

गच्छगीतगुनो गच्छमर्यादापर्तिपालक: ॥ १३८ ॥

गच्चधाता गच्छभर्ता गच्छवन्द्यो गुरोर्गुरु; ।

गृत्सो गृसमदो गृत्समदाभीष्टवरप्रद: ॥ १३९ ॥

गीर्वाणगीतचरितो गीर्वाणगणसेवित: ।

गीर्वाणवरदाता च गीर्वाणभयनाशकृत् ॥ १४० ॥

गीर्वाणगुणसंवीतो गीर्वाणारातिसूदन: ।

गीर्वाणधाम गीर्वाणगोप्ता गीर्वाणगर्वह्रत् ॥ १४१ ॥

गीर्वाणार्तिहरो नित्यं गीर्वाणवरदायक: ।

गीर्वाणशरणं गीतनामा गीर्वाणसुन्दर: ॥ १४२ ॥

गीर्वाणप्राणदो गन्ता गीर्वाणानीकरक्षक: ।

गुहेहापूरको गन्धमत्तो गीर्वाणपुष्टिद: ॥ १४३ ॥

गीर्वानप्रयुतत्राता गीतगोत्रो गताहित: ।

गीर्वाणसेवितपदो गीर्वाणप्रथितो गलत् ॥ १४४॥

गीर्वाणगोत्रप्रव्रो गीर्वाणफलदायक: ।

गीर्वाणप्रियकर्ता च गीर्वाणागमसारवित् ॥ १४५ ॥

गीर्वाणागमसम्पत्तिर्गीवाणव्यसनापह: ।

गीर्वाणप्रणयो गीतग्रहणोत्सुकमानस: ॥ १४६ ॥

गीर्वाणभ्रमसम्भेत्ता गीर्वाणगुरुपूजित: ।

ग्रहो ग्रहपतिर्ग्राहो ग्रहपीडाप्रणाशन: ॥ १४७ ॥

ग्रहस्तुतो ग्रहाध्यक्षो ग्रहेशो ग्रहदैवतम् ।

ग्रहकृद्‌ ग्रहभर्ता च ग्रहेशानो ग्रहेश्वर: ॥ १४८ ॥

ग्रहाराध्यो ग्रहत्राता ग्रहगोप्ता ग्रहोत्कट: ।

ग्रहगीतगुणो ग्रन्थप्रणेता ग्रहवन्दित: ॥ १४९ ॥

गवी गवीश्‍वरो गर्वी गर्विष्ठो गर्विगर्वहा ।

गवांप्रियो गवांनाथो गवीशानो गवांपति: ॥ १५० ॥

गव्यप्रियो गवांगोप्ता गव्सम्पत्तिसाधक: ।

गविरक्षणसंनद्धो गवांभयहर: क्षणात् ॥ १५१ ॥

गविगर्वहरो गोदो गोप्रदो गोजयप्रद: ।

गजायुतबलो गण्डगुञ्जन्मत्तमधुव्रत: ॥ १५२ ॥

गण्डस्थललसद्दनमिलन्मत्तालिमण्डित: ।

गुडो गुडप्रियो गण्डगलद्दानो गुडाशन: ॥ १५३ ॥

गुडाकेशो गुडाकेशसहायो गुडलड्‍डुभुक् ।

गुडभुग्गुडभुग्गण्यो गुडाकेशवरप्रद: ॥ १५४ ॥

गुडाकेशार्चितपदो गुडकेशसख: सदा ।

गदाधरार्चितपदो गदाधरवरप्रद: ॥ १५५ ॥

गदायुधो गदपाणिर्गदायुद्धविशारद: ।

गदहा गददर्पघ्नो गदगर्वप्रणाशन: ॥ १५६ ॥

गदग्रस्तपरित्राता गदाडम्बरखण्डक: ।

गुहो गुहाग्रजो गुप्तो गुहाशायी गुहाशय: ॥ १५७ ॥

गुहप्रीतिकरो गूढो गूढगुल्फो गुणैकदृक् ।

गीर्गीष्पतिर्गिरीशानो गिर्देविगीतसद्‌गुण: ॥ १५८ ॥

गीर्देवो गीष्प्रियो गीर्भूर्गीरात्मा गीष्प्रियङ्कर: ।

गीर्भूमिर्गीरसज्ञोऽथ गी:प्रसन्नो गिरीश्वर: ॥ १५९ ॥

गिरीशजो गिरौशायी गिरिराजसुखावह: ।

गिरिराजार्चितपदो गिरिराजनमस्कृत: ॥ १६० ॥

गिरिराजगुहाविष्टो गिरिराजाभयप्रद: ।

गिरिराजेष्टवरदो गिरिराजप्रपालक: ॥ १६१ ॥

गिरिराजसुतासूनुर्गिरिराजजयप्रद: ।

गिरिव्रजवनस्थायी गिरिव्रजचर: सदा ॥ १६२ ॥

गर्गो गर्गप्रियो गर्गदेवो गर्गनमस्कृत: ।

गर्गभीतिहरो गर्गवरदो गर्गसंस्तुत: ॥ १६३ ॥

गर्गगीतप्रसन्नात्मा गर्गानन्दकर: सदा ।

गर्गप्रियो गर्गमानप्रदो गर्गारिभञ्जक: ॥ १६४ ॥

गर्गवर्गपरित्राता गर्गसिद्धिप्रदायक: ।

गर्गग्लानिहरो गर्गभ्रमह्रद्‌ गर्गसंगत: ॥ १६५ ॥

गर्गाचार्यो गर्गमुनिर्गर्गसम्मानभाजन: ।

गम्भीरो गणितप्रज्ञो गणितागमसारवित् ॥ १६६ ॥

गणको गणकश्‍लाघ्यो गणकप्रणयोत्सुक: ।

गणकप्रवणस्वान्तो गणितो गणितागम: ॥ १६७ ॥

गद्यं गद्यमयो गद्यपद्यविद्याविशारद: ।

गललग्नमहानागो गलदर्चिर्गलन्मद: ॥ १६८ ॥

गलत्कुष्ठिव्यथाहन्ता गलत्कुष्ठिसुखप्रद: ।

गम्भीरनाभिर्गम्भीरस्वरो गम्भीरलोचन: ॥ १६९ ॥

गम्भीरगुणसम्पन्नो गम्भीरगतिशोभन: ।

गर्भप्रदो गर्भरूपो गर्भापद्‌विनिवारक: ॥ १७० ॥

गर्भागमनसंनाशो गर्भदो गर्भशोकनुत् ।

गर्भत्राता गर्भगोप्ता गर्भपुष्टिकर: सदा ॥ १७१ ॥

गर्भाश्रयो गर्भमयो गर्भामयनिवारक: ।

गर्भाधारो गर्भधरो गर्भसंतोषसाधक: ॥ १७२ ॥

गर्भगौरवसंधानसाधनं गर्भवर्गह्रत् ।

गरीयान् गर्वनुद् गर्वमर्दी गरदमर्दक: ॥ १७३ ॥

गरसंतापशमनो गुरुराज्यसुखप्रद: ।

॥ फलश्रुति ॥

नाम्नं सहस्रमुदितं महद् गणपतेरिदम् ॥ १७४॥

गकारादि जगद्वन्द्यं गोपनीयं प्रयत्‍नत: ।

य इदं प्रयत: प्रातस्त्रिसंध्यं वा पठेन्नर: ॥ १७५ ॥

वाञ्छितं समवाप्नोति नात्र कार्या विचारणा ।

पुत्रार्थी लभते पुत्रान्‌ धनार्थी लभते धनम् ॥ १७६ ॥

विद्यार्थी लभते विद्यां सत्यं सत्यं न संशय: ।

भूर्जत्वचि समालिख्य कुंकुमेन समाहित: ॥ १७७ ॥

चतुर्थ्या भौमवारे च चन्द्रसूर्योपरागके ।

पूजयित्वा गणाधीशं यथोक्तविधिना पुरा ॥ १७८ ॥

पूजयेद्‌ यो यथाशक्त्या जुहुयाच्च शमीदलै: ।

गुरुं सम्पूज्य वस्त्राद्यै: कृत्वा चापि प्रदक्षिणाम् ॥ १७९ ॥

धारयेद्‌ य: प्रयत्‍नेन स साक्षाद्‌गणनायक: ।

सुराश्चासुरवर्याश्च पिशाचा: किन्नरोरगा: ॥ १८० ॥

प्रणमन्ति सदा तं वै दृष्ट्वा विस्मितमानसा: ।

राजा सपदि वश्य: स्यात् कामिन्यस्तद्‌वशे स्थिरा: ॥ १८१ ॥

तस्य वंशे स्थिरा लक्ष्मी: कदापि न विमुञ्चति ।

निष्कामो य: पठेदेतद् गणेश्वरपरायण: ॥ १८२ ॥

स प्रतिष्ठां परां प्राप्य निजलोकमवाप्नुयात् ।

इदं ते कीर्तितं नाम्नां सहस्त्रं देवि पावनम् ॥ १८३ ॥

न देयं कृपणायाथ शठाय गुरुविद्विषे ।

दत्त्वा च भ्रंशमाप्नोति देवताया: प्रकोपत: ॥ १८४ ॥

इति श्रुत्वा महादेवी तदा विस्मितमानसा ।

पूजयामास विधिवद्ग गणेश्वरपदद्वयम् ॥ १८५ ॥

॥ इति श्रीरुद्रयामले महागुप्तसारे शिवपार्वतिसंवादे गकारादि श्रीगणपतिसहस्रनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 25, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP