मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
श्री यमुना सहस्त्रनामस्तोत्रम्

श्री यमुना सहस्त्रनामस्तोत्रम्

हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.

 


श्रीयमुनासहस्त्रनामस्तोत्रम्

मान्धातोवाच

नाम्नां सहस्त्रं कृष्णायाः सर्वसिद्धिकरं परम् ।

वद मां मुनिशार्दूल त्वं सर्वज्ञः निरामयः ॥१॥

सौभरिरुवाच

नाम्रां सहस्त्रं कालिन्द्या मान्धातस्ते वदाम्यहम् ।

सर्वसिद्धिकरं दिव्यं श्रीकृष्णवशकारकम् ॥२॥

अस्य श्रीकालिन्दीसहस्त्रनामस्तोत्रमन्त्रस्य सौभरिऋषिः श्रीयमुना

देवता, अनुष्टुप् छन्दः, मायाबीजमिति कीलकम् , रमाबीजमिति

शिक्तिः, श्रीकलिन्दनन्दिनीप्रसादसिद्धयर्थे पाठे विनियोगः ।

ध्यानम्

ॐ श्यामामम्भोजनेत्रां सघनघनरुचिं रत्नमञ्जीरकूरत्

काञ्चीकेयूरयुक्तां कनकमणिमये बिभ्रतीं कुण्डले द्वे ।

भ्राजच्छ्रीनीलवस्त्रां स्फुरदमलचलद्धारभारां मनोज्ञां

ध्यायेन्मार्तण्डपुत्रीं तनुकिरणचरयोद्दीप्तदीपाभिरामाम् ॥३॥

स्तोत्रम्

ॐ कालिन्दी यमुना कृष्णा कुष्णरूपा सनातनी ।

कृष्णवामांससम्भूता परमानन्दरूपिणी ॥४॥

गोलोकवासिनी श्यामा वृन्दावनविनोदिनी ।

राधासखी रासलीला रासमण्डलमण्डिनी ॥५॥

निकुञ्जवासिनी वल्ली रङ्गवल्ली मनोहरा ।

श्रीरासमण्डलीभूता यूथीभूता हरिप्रिया ॥६॥

गोलोकतटिनी दिव्या निकुञ्जतलवासिनी ।

दीर्घोर्मिवेगगम्भीरा पुष्पपल्लववाहिनी ॥७॥

घनश्यामा मेघमाला बलाका पद्ममालिनी ।

परिपूर्णतमा पूर्णा पूर्णब्रह्मप्रिया परा ॥८॥

महावेगवती साक्षान्निकुञ्जद्वारनिर्गता ।

महानदी मन्दगतिर्विरजावेगभेदिनी ॥९॥

अनेकब्रह्माण्डगता ब्रह्मद्रवसमाकुला ।

गङ्गामिश्रा निर्मलाभा निर्मला सरितां वरा ॥१०॥

रत्नबद्धोभयतटी हंसपद्मादिसंकुला ।

नदी निर्मलपानीया सर्वब्रह्माण्डपावनी ॥११॥

वैकुण्ठपरिखीभूता परिखा पापहारिणी ।

ब्रह्मलोकगता ब्राह्मी स्वर्गा स्वर्गनिवासिनी ॥१२॥

उल्लसन्ती प्रोत्पतन्ती मेरुमाला महोज्ज्वला ।

श्रीगङ्गाम्भःशिखरिणी गण्डशैलविभेदिनी ॥१३॥

देशान्पुनन्ती गच्छन्ती वहन्ती भूमिमध्यगा ।

मार्तण्डतनूजा पुण्या कलिन्दगिरिनन्दिनी ॥१४॥

यमस्वसा मन्दहासा सुद्विजा रचिताम्बरा ।

नीलाम्बरा पद्ममुखी चरन्ती चारुदर्शना ॥१५॥

रम्भोरूः पद्मनयना माधवी प्रमदोत्तमा ।

तपश्चरन्ती सुश्रोणी कूजन्नूपुरमेखला ॥१६॥

जलस्थिता श्यामलाङ्गी खाण्डवाभा विहारिणी ।

गाण्डीविभाषिणी वन्या श्रीकृष्णं वरमिच्छती ॥१७॥

द्वारकागमना राज्ञी पट्टराज्ञी परङ्गता ।

महाराज्ञी रत्नभूषा गोमती तीरचारिणी ॥१८॥

स्वकीया स्वसुखा स्वार्था स्वभक्तकार्यसाधिनी ।

नवलाङ्गाऽबला मुग्धा वराङ्गा वामलोचना ॥१९॥

अजातयौवनाऽदीना प्रभा कान्तिर्द्युतिश्छविः ।

सुशोभा परमा कीतिः कुशलाज्ञातयौवना ॥२०॥

नवोढा मध्यगा मध्या प्रौढिः प्रौढा प्रगल्भका ।

धीराऽधीरा धैर्यधरा ज्येष्ठा श्रेष्ठा कुलाङ्गना ॥२१॥

क्षणप्रभा चञ्चलार्च्या विद्युत्सौदामिनी तडित् ।

स्वाधीनपतिका लक्ष्मीः पुष्टा स्वाधीनभर्तृका ॥२२॥

कलहान्तरिता भीरुरिच्छा प्रोत्कण्ठिताकुला ।

कशिपुस्था दिव्यशय्या गोविन्दहृतमानसा ॥२३॥

खण्डिताखण्डशोभाढ्या विप्रलब्धाभिसारिका ।

विरहार्ता विरहिणी नारी प्रोषितभर्तृका ॥२४॥

मानिनी मानदा प्राज्ञा मन्दारवनवासिनी ।

झङ्कारिणी झणत्कारी रणन्मञ्जीरनूपुरा ॥२५॥

मेखलामेखलाकाञ्ची श्रीकाञ्ची काञ्चनामयी ।

कञ्चुकी क्ञ्चुकमणिः श्रीकण्ठाढ्या महामणिः ॥२६॥

श्रीहारिणी पद्महारा मुक्ता मुक्तफलार्चिता ।

रत्नकङ्कणकेयूरा स्फुरङ्गुलिभूषणा ॥२७॥

दर्पणा दर्पणीभूता दुष्टदर्पविनाशिनी ।

कम्बुग्रीवा कम्बुधरा ग्रैवेयकविराजिता ॥२८॥

ताटङ्किनी दन्तधरा हेमकुण्डलमण्डिता ।

शिखाभूषा भालपुष्पा नासामौक्तिकशोभिता ॥२९॥

मणिभुमिगता देवी रैवताद्रिविहारिणी ।

वृन्दावनगता वृन्दा वृन्दारण्यनिवासिनी ॥३०॥

वृन्दावनलता माध्वी वृन्दारण्यविभूषणा ।

सौन्दर्यलहरी लक्ष्मीर्मथुरातीर्थवासिनी ॥३१॥

विश्रान्तवासिनी काम्या रम्या गोकुलवासिनी ।

रमणस्थलशोभाढ्या महावनमहनदी ॥३२॥

प्रणता प्रोन्नता पुष्टा भारती भरतार्चिता ।

तीर्थराजगतिगौत्रा गङगासागरसङ्गमा ॥३३॥

सप्ताब्धिभेदिनी लोला सप्तद्वीपगता बलात् ।

लुठन्ती शैलभिद्यन्ती स्फुरन्ती वेगवत्तरा ॥३४॥

काञ्चनी काञ्चनीभूमिः काञ्चनीभूमिभाविता ।

लोकदृष्टिर्लोकलीला लोकालोकाचलार्चिता ॥३५॥

शैलोद्गता स्वर्गगता स्वर्गार्चा स्वर्गपूजिता ।

वृन्दावनी वनाध्यक्षा रक्षा कक्षा तटीपटी ॥३६॥

असिकुण्डगता कच्छा स्वच्छन्दोच्छलितादिजा ।

कुहरस्था रथप्रस्था प्रस्था शान्ततरातुरा ॥३७॥

अम्बुच्छटा शीकराभा दर्दुरा दार्दुरीधरा ।

पापाङ्कुशा पापसिंही पापद्रुमकुठारिणी ॥३८॥

पुण्यसंघा पुण्यकीर्तिः पुण्यदा पुण्यवर्द्धिनी ।

मधुवननदी मुख्यातुला तालवनस्थिता ॥३९॥

कुमुद्वननदी कुब्जा कुमुदाम्भोजवर्द्धिनी ।

प्लवरूपा वेगवती सिंहसर्पादिवाहिनी ॥४०॥

बहुली बहुदा बह्वी बहुला वनवन्दिता ।

राधाकुण्डकलाराध्या कुष्णकुण्डजलाश्रिता ॥४१॥

ललिताकुण्डगा घंटा विशाखा कुण्डमण्डिता ।

गोविन्दकुण्डनिलया गोपकुण्डतरङ्गिणी ॥४२॥

श्रीगङ्गा मानसीगङ्गा कुसुमाम्बरभाविनी ।

गोवर्धिनी गोधनाढ्या मयुरवरवर्णिनी ॥४३॥

सारसी नीलकण्ठाभा कूजत्कोकिलपोतकी ।

गिरिराजप्रसूर्भूरिरातपत्रातपत्रिणी ॥४४॥

गोवर्द्धनाङ्कगा गोदन्ती दिव्यौषधिनिधिः सृतिः ।

पारदी पारदमयी नारदी शारदी भृतिः ॥४५॥

श्रीकृष्णचरणाङ्कस्थाकामा कामवनाञ्चिता ।

कामाटवी नन्दिनी च नन्दग्राममही धरा ॥४६॥

बृहत्सानुद्युतिप्रोता नन्दीश्र्वरसमन्विता ।

काकली कोकिलमयी भाण्डीरकुशकौशला ॥४७॥

लोहार्गलप्रदा कारा काश्मीरवसना वृता ।

बर्हिषदी शोणपुरी शूरक्षेत्रपुराधिका ॥४८॥

नानाभरणशोभाढ्या नानावर्णसमन्विता ।

नानानारीकदम्बाढ्या नानारङ्गमहीरुहा ॥४९॥

नानालोकगताभ्यर्चिर्नानाजलसमन्विता ।

स्त्रीरत्नं रत्ननिलया ललना रत्नरञ्जिनी ॥५०॥

रङ्गिणी रङ्गभूमाढ्या रङ्गा रङ्गमहीरुहा ।

राजविद्या राजगुह्या जगत्कीर्तिर्घनाघना ॥५१॥

विलोलघंटा कृष्णाङ्गा कृष्णदेहसमुद्भवा ।

नीलपङ्कजवरर्णाभा नीलपङ्कजहारिणी ॥५२॥

नीलाभा नीलपद्माढ्या नीलाम्भोरुहवासिनी ।

नागवल्ली नागपुरी नागवल्लीदलार्चिता ॥५३॥

ताम्बूलचर्चिता चर्चा मकरन्दमनोहरा ।

सकेशरा केशरिणी केशपाशाभिशोभिता ॥५४॥

कज्जलाभा कज्जलाक्ता कज्जली कलिताञ्जना ।

अलक्तचरणा ताम्रा लाला ताम्रीकृताम्बरा ॥५५॥

सिन्दूरितालिप्तवाणी सुश्री श्रीखण्डमण्डिता ।

पाटीपरपङ्कवसना जटामांसी स्त्रगम्बरा ॥५६॥

आगर्य्यगुरुगन्धाक्ता तगराश्रितमारुता ।

सुगन्धितैलरूचिरा कुन्तलालिः सकुन्तला ॥५७॥

शकुन्तलाऽपांसुला च पातिव्रत्यपरायणा ।

सूर्यप्रभा सूर्यकन्या सूर्यदेहसमुद्भवा ॥५८॥

कोटिसूर्यप्रतीकाशा सूर्यजा सूर्यनन्दिनी ।

संज्ञा संज्ञासुता स्वेच्छा संज्ञामोदप्रदायिनी ॥५९॥

संज्ञापुत्री स्फुरच्छाया तपतीतापकारिणी ।

सावर्ण्यानुभवा देवी वडवा सौख्यदायिनी ॥६०॥

शनैश्चरानुजा कीला चन्द्रवंशविवर्द्धिनी ।

चन्द्रवंशवधूश्चन्द्रा चन्द्रावलिसहायिनी ॥६१॥

चन्द्रावती चन्द्रलेखा चन्द्रकान्तानुगांशुका ।

भैरवी पिङ्गलाशंकी लीलावत्यागरीमयी ॥६२॥

धनश्रीर्देवगान्धारी स्वर्मणिर्गुणवर्द्धिनी ।

व्रजमल्लार्यन्धकरी विचित्रा जयकारिणी ॥६३॥

गान्धारी मञ्जरी टोडी गुर्ज्जर्य्याशावरी जया ।

कर्णाटी रागिणी गौरी वैराटी गौरवाटिका ॥६४॥

चतुश्चन्द्रा कलाहेरी तैलङ्गी विजयावती ।

ताली तालस्वरा गाना क्रियामात्रप्रकाशिनी ॥६५॥

वैशाखी चञ्चला चारुर्माचारी घूघटी घटा ।

वैरागरी सोरटीशा कैदारी जलधारिका ॥६६॥

कामाकरश्रीकल्याणी गौडकल्याणमिश्रिता ।

रामसञ्जीवनी हेला मन्दारी कामरूपिणी ॥६७॥

सारङ्गी मारुती होढा सागरी कामवादिनी ।

वैभासी मङ्गला चान्द्री रासमण्डलमण्डना ॥६८॥

कामधेनुः कामलता कामदा कमनीयका ।

कल्पवृक्षस्थली स्थूला क्षुधा सौधनिवासिनी ॥६९॥

गोलोकवासिनी सुभ्रूर्यष्टिभृद्‍द्वारपालिका ।

श्रृङ्गारप्रकरा श्रृङ्गा स्वच्छा शय्योपकारिका ॥७०॥

पार्षदा सुमुखी सेव्या श्रीवृन्दावनपालिका ।

निकुञ्जभृत्कुञ्जपुञ्जा गुञ्जाभरणभूषिता ॥७१॥

निकुञ्जवासिनी प्रोष्या गोवर्द्धनतटीभवा ।

विशाखा ललिता रामा नीरुजा मधुमाधवी ॥७२॥

एका नैकसखी शुक्ला सखीमध्या महामनाः ।

श्रुतिरूपा ऋषिरूपा मैथिलाः कौशलाः स्त्रियः ॥७३॥

अयोध्यापुरवासिन्यो यज्ञसीताः पुलिन्दकाः ।

रमावैकुण्ठवासिन्यः श्वेतद्वीपसखीजनाः ॥७४॥

ऊर्ध्ववैकुण्ठवासिन्यो दिव्याजितपदाश्रिताः ।

श्रीलोकाचलवासिन्यः श्रीसख्यः सागरोद्भवाः ॥७५॥

दिव्या अदिव्या दिव्याङ्गा व्याप्तास्त्रिगुणवृत्तयः ।

भूमिगोप्यो देवनार्य्यो लता ओषधिवीरुधः ॥७६॥

जालन्धर्य्यः सिन्धुसुताः पृथुबर्हिष्मतीभवाः ।

दिव्याम्बरा अप्सरसः सौतला नागकन्यकाः ॥७७॥

परं धाम परं ब्रह्म पौरुषा प्रकृतिः परा ।

तटस्था गुणभूर्गीता गुणागुणमयी गुणा ॥७८॥

चिद्घना सदसन्माला दृष्टिर्दृश्या गुणाकरी ।

महत्तत्त्वमहङ्कारो मनो बुद्धिः प्रचेतना ॥७९॥

चेतो वृत्तिः स्वान्तरात्मा चतुर्थी चतुरक्षरा ।

चतुर्व्यूहा चतुमूर्तिर्व्योमवायुरदो जलम् ॥८०॥

मही शब्दो रसो गन्धः स्पर्शो रूपमनेकधा ।

कर्मेन्द्रियं कर्ममयी ज्ञानं ज्ञानेन्द्रियं द्विधा ॥८१॥

त्रिधाधिभूतमध्यात्ममधिदैवमधिष्ठितम् ।

ज्ञानशक्तिः क्रियाशक्तिः सर्वदेवाधिदेवता ॥८२॥

तत्त्वसंघा विराण्मूर्तिर्धारणा धारणामयी ।

श्रुतिः स्मृतिर्वेदमूर्तिः संहिता गर्गसंहिता ॥८३॥

पाराशरी सैव सृष्टिः पारहंसी विधातृका ।

याज्ञवल्की भागवती श्रीमद्भागवतार्चिता ॥८४॥

रामायणमयी रम्या पुराणपुरुषप्रिया ।

पुराणमूर्तिः पुण्याङ्गा शास्त्रमूर्तिर्महोन्नता ॥८५॥

मनीषा धिषणा बुद्धिर्वाणी धीः शेमुषी मतिः ।

गायत्री वेदसावित्री ब्रह्माणी ब्रह्मलक्षणा ॥८६॥

दर्गापर्णा सती सत्या पार्वती चण्डिकाम्बिका ।

आर्या दाक्षायणी दाक्षी दक्षयज्ञविघातिनी ॥८७॥

पुलोमजा शचीन्द्राणी देवी देववरार्पिता ।

वायुना धारिणी धन्या वायवी वायुवेगगा ॥८८॥

यमानुजा संयमनी संज्ञाच्छाया स्फुरद्‍द्युतिः ।

रत्नवेदी रत्नवृन्दा तारा तरणिमण्डला ॥८९॥

रुचिः शान्तिः क्षमा शोभा दया दक्षा द्युतिस्त्रपा ।

तलतुष्टिर्विभा पुष्टिः सन्तुष्टिः पुष्टभावना ॥९०॥

चतुर्भुजा चारुनेत्रा द्विभुजाष्टभुजाबला ।

शङ्खहस्ता पद्महस्ता चक्रहस्ता गदाधरा ॥९१॥

निषङ्गधारिणी चर्मखड्‌गपाणिर्धनुर्धरा ।

धनुष्टंकारिणी योद्‍ध्री दैत्योद्भटविणाशिनी ॥९२॥

रथस्था गरुडारूढा श्रीकृष्णहृदयस्थिता ।

वंशीधरा कृष्णवेषा स्त्रग्विणी वनमालिनी ॥९३॥

किरीटधारिणी याना मन्दमन्दगतिर्गतिः ।

चन्द्रकोटिप्रतीकाशा तन्वी कोमलविग्रहा ॥९४॥

भैष्मी भीष्मसुताऽभीमा रुक्मिणी रुक्मरूपिणी ।

सत्यभामा जाम्बवती सत्या भद्रा सुदक्षिणा ॥९५॥

मित्रविन्दा सखी वृन्दा वृन्दारण्यध्वजोर्ध्वगा ।

श्रृङ्गारकारिणी श्रृङ्गा श्रृङ्गभूः श्रृङ्गदा खगा ॥९६॥

तितिक्षेक्षा स्मृतिः स्पर्धा स्पृहा श्रद्धा स्वनिर्वृतिः ।

ईशा तृष्णाभिदा प्रीतिर्हिंसा याच्ञा क्लमा कृषिः ॥९७॥

आशा निद्रा योगनिद्रा योगिनी योगदा युगा ।

निष्ठा प्रतिष्ठा शमितिः सत्त्वप्रकृतिरुत्तमा ॥९८॥

तमःप्रकृतिर्दुर्मर्षी रजःप्रकृतिरानतिः ।

क्रियाऽक्रियाकृतिर्ग्लानिः सात्त्विक्याध्यात्मिकी वृषा ॥९९॥

सेवा शिखामणिर्वृद्धिराहूतिः सुमतिर्द्युभूः ।

रज्जुर्द्विदाम्नी षड्‍वर्गा संहिता सौख्यदायिनी ॥१००॥

मुक्तिः प्रोक्तिर्देशभाषा प्रकृतिः पिङ्गलोद्भवा ।

नागभाषा नागभुषा नागरी नगरी नगा ॥१०१॥

नौर्नौका भवनौर्भाव्या भवसागरसेवतुका ।

मनोमयी दारुमयी सैकती सिकतामयी ॥१०२॥

लेख्या लेप्या मणिमयी प्रतिमा हेमनिर्मिता ।

शैली शिलभवा शीला शीकराभा चलाचला ॥१०३॥

अस्थिता सुस्थिता तूली वैदिकी तान्त्रिकी विधिः ।

सन्ध्या सन्ध्याभ्रवसना वेदसन्धिः सुधामयी ॥१०४॥

सांयतनी शिखावेध्या सूक्ष्मा जीवकला कृतिः ।

आत्मभूता भाविताऽण्वी प्रह्वी कमलकर्णिका ॥१०५॥

नीराजनी महाविद्या कन्दली कार्यसाधनी ।

पूजा प्रतिष्ठा विपुला पुनन्ती पारलौकिकी ॥१०६॥

शुक्लशुक्तिर्मौक्तिका च प्रतीतिः परमेश्वरी ।

विरजोष्णिग् विराड् वेणी वेणुका वेणुनादिनी ॥१०७॥

आवार्तिनी वार्तिकदा वार्त्ता वृत्तिर्विमानगा ।

रासाढ्या रासिनी रासा रासमण्डलवर्तिनी ॥१०८॥

गोपगोपीश्वरी गोपी गोपीगोपालवन्दिता ।

गोचारिणी गोपनदी गोपानन्दप्रदायिनी ॥१०९॥

पशव्यदा गोपसेव्या कोटिशो गोगणावृता ।

गोपानुगा गोपवती गोविन्दपदपादुका ॥११०॥

वृषभानुसुता राधा श्रीकृष्णवशकारिणी ।

कृष्णप्राणाधिका शश्वद्रसिका रसिकेश्वरी ॥१११॥

अवटोदा ताम्रपर्णी कृतमाला विहायसी ।

कृष्णा वेणी भीमरथी तापी रेवा महापगा ॥११२॥

वैयासकी च कावेरी तुङ्गभद्रा सरस्वती ।

चन्द्रभागा वेत्रवती ऋषिकुल्या ककुद्‍मिनी ॥११३॥

गौतमी कौशिकी सिन्धुर्बाणगङ्गातिसिद्धिदा ।

गोदावरी रत्नमाला गङ्गा मन्दाकिनी बला ॥११४॥

स्वर्णदी जाह्नवी वेला वैष्णवी मङगलालया ।

बाला विष्णुपदीप्रोक्ता सिन्धुसागरसङ्गता ॥११५॥

गङ्गासागशोभाढ्या सामुद्री रत्नदा धुनी ।

भागीरथी स्वर्धुनीभूः श्रीवामनपदच्युता ॥११६॥

लक्ष्मी रमा रमणीया भार्गवी विष्णुवल्लभा ।

सीतार्चिर्जानकी माता कलङ्करहिता कला ॥११७॥

कृष्णपादाब्जसम्भूता सर्वा त्रिपथगामिनी ।

धरा विश्वम्भराऽनन्ता भूमिर्धात्री क्षमामयी ॥११८॥

स्थिरा धरित्री धरणिरुर्वी शेषफणस्थिता ।

अयोध्या राघवपुरी कौशिकी रघुवंशजा ॥११९॥

मथुरा माथुरी पन्था यादवी ध्रुवपूजिता ।

मयायुर्बिल्वनीलोदा गङ्गाद्वाविनिर्गता ॥१२०॥

कुशावर्तमयी ध्रौव्या ध्रुवमण्डलमध्यगा ।

काशी शिवपुरी शेषा विन्ध्या वाराणसी शिवा ॥१२१॥

अवन्तिका देवपुरी प्रोज्ज्वलोज्जयिनी जिता ।

द्वारावती द्वारकामा कुशभूता कुशस्थली ॥१२२॥

महापुरी सप्तपुर नन्दिग्रामस्थलस्थिता ।

शालग्रामशिलादित्या सम्भलग्रामध्यगा ॥१२३॥

वंशगोपालिनी क्षिप्ता हरिमन्दिरवर्तिनी ।

बर्हिष्मती हस्तिपुरी शक्रप्रस्थनिवासिनी ॥१२४॥

दाडिमी सैन्धवी जम्बुः पौष्करी पुष्करप्रसूः ।

उत्पलावर्तगमना नैमिषी नैमिषावृता ॥१२५॥

कुरुजाङ्गलभूः काली हैमवत्यार्बुदी बुधा ।

शुकरक्षेत्रविदिता श्वेतवाराहधारिता ॥१२६॥

सर्वतीर्थमयी तीर्था तीर्थानां तीर्थकारिणी ।

हारिणी सर्वदोषाणां दायिनी सर्वसम्पदाम् ॥१२७॥

वर्द्धिनी तेजसां साक्षाद्गर्भवासनिकृन्तनी ।

गोलोकधामधनिनी निकुञ्जनिजमञ्जरी ॥१२८॥

सर्वोत्तमा सर्वपुन्या सर्वसौन्दर्यश्रृङ्खला ।

सर्वतीर्थोपरिगता सर्वतीर्थाधिदेवता ॥१२९॥

॥ फलश्रुतिः॥

नाम्नां सहस्त्रं कालिन्द्याः कीर्तिदं कामदं परम् ।

महापापहरं पुण्यमायुर्वर्द्धनमुत्तमम् ॥१३०॥

एकवारं पठेद्रात्रौ चोरेभ्यो न भयं भवेत् ।

द्विवारं प्रपठेन्मार्गे दस्युभ्यो न भयं क्वचित् ॥१३१॥

द्वितीयां तु समारभ्य पठेत्पूर्णावधि द्विजः ।

दशवारमिदं भक्त्या ध्यात्वा देवीं कलिन्दजाम् ॥१३२॥

रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ।

गुर्विणी जनयेत्पुत्रं विद्यार्थी पण्डितो भवेत् ॥१३३॥

मोहनं स्तम्भनं शश्‍वद्वशीकरणमेव च ।

उच्चाटनं घातनं च शोषणं दीपनं तथा ॥१३४॥

उन्मादनं तापनं च निधिदर्शनमेव च ।

यद्यद्वाञ्छति चित्तेन तत्तत्प्राप्नोति मानवः ॥१३५॥

ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगती पतिः ।

वैश्यो निधिपतिर्भूयाच्छूद्रः श्रुत्वा तु निर्मलः ॥१३६॥

पुजाकाले तु यो नित्यं पठते भक्तिभावतः ।

लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥१३७॥

शतवारं पठेन्नित्यं वर्षावधिमतः परम् ।

पटलं पद्धतिं कृत्वा स्तवं च कवचं तथा ॥१३८॥

सप्तद्वीपमहीराज्य प्राप्नुयान्नात्र संशयः ।

निष्कारणं पठेद्यस्तु यमुनाभक्तिसंयुतः ॥१३९॥

त्रैवर्ग्यमेत्य सुकृती जीवन्मुक्तो भवेदिह ॥१४०॥

निकुञ्जलीलाललितं मनोहरं

कलिन्दजाकूललताकदम्बकम् ।

वृन्दावनोन्मत्तमिलिन्दशब्दितं

व्रजेत्स गोलोकमिदं पठेच्च यः ॥१४१॥

॥ इति श्रीगर्गसंहितायां श्रीमाधुर्यखण्डे श्रीयमुनासहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 25, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP