कार्तिकमासमाहात्म्यम् - अध्याय ३६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ब्रह्मोवाच ॥
यास्तिस्रस्तिथयः पुण्या अंतिके शुक्लपक्षके ॥
कार्तिके मासि विप्रेंद्र पूर्णिमांताः शुभवहाः ॥१॥
अंतिपुष्करिणी संज्ञा सर्वपापक्षयावहा ॥
कार्त्तिके मासि संपूर्णं यो वै स्नानं करोति ह ॥२॥
तिथिष्वेतासु सः स्नानात्पूर्णमेव फलं लभेत् ॥
सर्वे वेदास्त्रयोदश्यां गत्वा जन्तून्पुनंति हि ॥३॥
चतुर्दश्यां सयज्ञाश्च देवा जंतून्पुनंति हि ॥
पूर्णिमायां सुतीर्थानि विष्णुना संस्थितानि हि ॥४॥
ब्रह्मघ्नान्वा सुरापान्वा सर्वाञ्जंतून्पुनंति हि ॥
उष्णोदकेन यः स्नायात्कार्त्तिक्यादिदिनत्रये ॥५॥
रौरवं नरकं याति यावदिंद्राश्चतुर्दश ॥
आमासनियमाशक्तः कुर्यादेतद्दिनत्रये ॥६॥
तेन पूर्णफलं प्राप्य मोदते विष्णुमंदिरे ॥
यो वै देवान्पितॄन्विष्णुं गुरुमुद्दिश्य मानवः ॥७॥
न स्नानादि करोत्यद्धा स याति नरकं ध्रुवम् ॥
कुटुंबभोजन यस्तु गृहस्थस्तु दिनत्रये ॥८॥
सर्वान्पितॄन्समुद्धृत्य स याति परमं पदम् ॥
गीतापाठं तु यः कुर्यादंतिमे च दिनत्रये ॥९॥
दिनेदिनेऽश्वमेधानां फलमेति न संशयः ॥
सहस्रनामपठनं यः कुर्यात्तु दिनत्रये ॥१०॥
न पापैर्लिप्यते क्वाऽपि पद्मपत्रमिवांऽभसा ॥
देवत्वं मनुजैः कैश्चित्कैश्चित्सिद्धत्वमेव च ॥११॥
तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि ॥
यो वै भागवतं शास्त्रं शृणोति च दिनत्रयम् ॥१२॥
कैश्चित्प्राप्तो ब्रह्मभावो दिनत्रयनिषेवणात् ॥
ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा ॥१३॥
अथ वा कार्त्तिके मासि दिनत्रयनिषेवणात् ॥
कार्त्तिके हरिपूजां तु यः करोति दिनत्रये ॥१४॥
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ॥
कार्त्तिके मासि विप्रेंद्र सर्वमंत्यदिनत्रये ॥१५॥
पुण्यं तत्राऽपि वैशेष्यं राकायां वर्ततेऽनघ॥
प्रातःकाले समुत्थाय शौचं स्नानादिकं चरेत् ॥१६॥
समाप्य सर्वकर्माणि विष्णुपूजां समाचरेत् ॥
उद्याने वा गृहे वाऽपि कार्त्तिक्यां विष्णुतत्परः ॥१७॥
मंडपं तत्र कुर्वीत कदलीस्तंभमंडितम् ॥
चूतपल्लवसंवीतमिक्षुदंडैः सुमंडितम् ॥१८॥
चित्रवस्त्रैः स्वलंकृत्य तत्र देवं प्रपूजयेत् ॥
चूतपल्लवपुष्पाढ्यैः फलाद्यैः पूजयेद्धरिम् ॥१९॥
शृणुयादूर्जमाहात्म्यं नियमेन शुचिः पुमान् ॥
संपूर्णमथ वाऽध्यायमेकश्लोकमथाऽपि वा ॥२०॥
मुहूर्तं वाऽपि शृणुयात्कथां पुण्यां दिनेदिने ॥
यदि प्रतिदिनं श्रोतुमशक्तः स्यात्तु मानवः ॥२१॥
पुण्यमासेऽथवा पुण्यतिथौ संशृणुयादपि ॥
तेन पुण्यप्रभावेन पापान्मुक्तो भवेन्नरः ॥२२॥
पुराणज्ञः शुचिर्दक्षः शांतो विगतमत्सरः ॥
साधुः कारुणिको वाग्ग्मी वदेत्पुण्यां कथां सुधीः ॥२३॥
व्यासासनं समारूढो यदा पौराणिको भवेत् ॥
आसमाप्तेः प्रसंगस्य नमस्कुर्यान्न कस्यचित् ॥२४॥
न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते ॥
देशे न द्यूतसदने वदेत्पुण्यकथां सुधीः ॥२५॥
श्रद्धाभक्तिसमायुक्ता नाऽन्यकार्येषु लालसा ॥
वाग्यताः शुचयो दक्षाः श्रोतारः पुण्यभागिनः ॥२६॥
अभक्ता ये कथां पुण्यां शृण्वंति मनुजाऽधमाः ॥
तेषां पुण्यफलं नाऽस्ति दुःखं स्याजन्मजन्मनि ॥२७॥
पौराणिकं च मासांते पूजयेद्भक्तितत्परः ॥
गन्धमाल्यैस्तथा वस्त्रैरलंकारैर्धनेन च ॥२८॥
शृण्वंति च कथां भक्त्या न दरिद्रा न पापिनः ॥२९॥
कथायां कीर्त्यमानायां ये गच्छंत्यन्यतो नराः ॥
भोगांतरे प्रणश्यंति तेषां दाराश्च संपदः ॥३०॥
उच्चासनसमारूढो न नरः प्रणतो भवेत् ॥
विषवृक्षस्तथा स्वापे वने चाऽजगरो भवेत् ॥३१॥
कथायां कीर्त्यमानायां विघ्नं कुर्वंति ये नराः ॥
कोट्यब्दनरकान्भुक्त्वा भवंति ग्रामसूकराः ॥३२॥
ये श्रावयंति मनुजाः कथां पौराणिकीं शुभाम् ॥
कल्पकोटिशतं साग्रं तिष्ठंति ब्रह्मणः पदे ॥३३॥
आसनार्थे प्रयच्छति पुराणज्ञस्य ये नराः ॥
कम्बलाजिनवासांसि मंचं फलकमेव वा ॥३४॥
परिधानीयवस्त्राणि प्रयच्छंति च ये नराः ॥
भूषणादि प्रयच्छंति वसेयुर्ब्रह्मसद्मनि ॥३५॥
वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ॥
अतः संतोषयेद्भक्त्या भक्तिश्रद्धान्वितः पुमान् ॥
तस्य पुण्यफलं पूर्णं भवत्येव न संशयः ॥३६॥
यत्फलं सर्वयज्ञेषु सर्वदानेषु यत्फलम् ॥
सकृत्पुराणश्रवणात्तत्फलं विंदते नरः ॥३७॥
कलौ युगे विशेषेण पुराणश्रवणादृते ॥
नास्ति धर्मः परः पुंसां नास्ति मुक्तिपथः परः ॥
पुराणश्रवणाद्विष्णोर्नास्ति संकीर्तनात्परम् ॥३८॥
य एतदूर्जमाहात्म्यं शृणुयाच्छ्रावयेदपि ॥
स तीर्थराज बदरीगमनस्य फलं लभेत् ॥३९॥
सर्वरोगापहं सर्वपापनाशकरं शुभम् ॥४०॥
श्रुत्वा चैकपदे यो वै अगम्यागमने रतः ॥
कन्यास्वस्रोर्विक्रयिणमुभयं तु विमोचयेत् ॥४१॥
माहात्म्यमेतदाकर्ण्य पूजयेद्यस्तु पाठकम् ॥
गोभूहिरण्यवस्त्रैश्च विष्णुतुल्यो यतो हि सः ॥४२॥
धर्मशास्त्रं पुराणं च वेदविद्यादिकं च यत् ॥
पुस्तकं वाचकायैव दातव्यं धर्ममिच्छता ॥
पुराणविद्यादातारो ह्यनंतफलभोगिनः ॥४३॥
इदं यः पठते भक्त्या श्रुत्वा चैवाऽवधारयेत् ॥
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥४४॥
न कस्याऽपीदमाख्येयं श्रद्धाहीनाय दुर्मतेः ॥४५॥
अपूजयित्वा गुरुमग्रबुद्ध्या धर्मप्रवक्तारमनन्यबुद्धिः ॥
भुक्त्वा तु भोगान्नरकेषु चैव ततो हि जन्मान्तर दुःखभोगी ॥४६॥
तस्मात्संपूजयेद्भक्त्या गुरुं तत्त्वावबोधकम् ॥
माहात्म्यस्य च लेशोऽयं तव चोक्तो मयाऽनघ ॥४७॥
न शक्यते हि संपूर्णं वक्तुं वर्षशतैरपि ॥
पुरा कैलासशिखरे पार्वत्यै प्रोक्तवाञ्च्छिवः ॥४८॥
कार्तिकस्य तु माहात्म्यं यावद्वर्षशतं वदन् ॥
तथापि नांतमगमदशक्तो विरराम ह ॥४९॥
पुत्रार्थी च धनार्थी च राज्यार्थी स्वफलं लभेत् ॥
किमत्र बहुनोक्तेन मोक्षार्थी मोक्षमाप्नुयात् ॥५०॥
॥ सूत उवाच ॥
इत्युक्तो ब्रह्मणा चैव नारदः प्रेमनिर्भरः ॥
भूयोभूयो नमस्कृत्य ययौ यादृच्छिको मुनिः ॥५१॥
कथितं शंकरेणाऽपि पुत्राय हितकाम्यया ॥
पितुस्तद्वाक्यमाकर्ण्य षण्मुखो हर्षनिर्भरः ॥५२॥
कृष्णेन सत्यभामायै कार्तिकस्य च वैभवः ॥
कथितस्तेन संतुष्टा सत्या व्रतमथाऽकरोत् ॥५३॥
ऋषयो वालखिल्येभ्यः श्रुत्वा माहात्म्यमुत्तमम् ॥
ऊर्जव्रतपरा जातास्तस्मादूर्जोऽतिवल्लभः ॥५४॥
अधीत्य सर्वशास्त्राणि पयःसारमिवोद्धृतम् ॥
नाऽनेन सदृशं शास्त्रं विष्णुप्रीतिकरं शुभम् ॥५५॥
॥ व्यास उवाच ॥
इत्युक्त्वा तानृषीन्सर्वान्सूतो वै धर्मवित्तमः ॥
विरराम ततस्ते तु पूजां चक्रुस्तदास्य च ॥५६॥
ते पुनः स्वाश्रमं गत्वा हृष्टास्ते परमर्षयः ॥
यथा सूतेनोपदिष्टं तथा चक्रुर्व्रतं शुभम् ॥५७॥
अनेन विधिना ये वै कुर्वंति कार्तिकव्रतम् ॥
ते सर्वपापनिर्मुक्ता गच्छंति विष्णुमंदिरम् ॥५८॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये पुष्करिणीसंज्ञिकांतिमतिथित्रयमाहात्म्यकथनपूर्वकपुराण श्रवणमहिमवर्णनंनाम षट्त्रिंशोऽध्यायः ॥३६॥
इति श्रीस्कान्दे महापुराणे द्वितीये वैष्णवखण्डे सटीकं कार्तिकमासमाहात्म्यं समाप्तम् ॥
इति श्रीज्योतिर्वित्कुलावतंसव्यंकटरामात्मजहरिकृष्णशास्त्रिविरचितायां कार्त्तिकमासमाहात्म्यटीकायां पुराणश्रवणमहिमवर्णनंनाम षट्त्रिंशोऽध्यायः॥३६॥
N/A
References : N/A
Last Updated : November 09, 2024
TOP