कार्तिकमासमाहात्म्यम् - अध्याय ३२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ वालखिल्या ऊचुः ॥
कार्तिकस्याऽमले पक्षे स्नात्वा सम्यग्यतव्रतः ॥
एकादश्यां तु गृह्णीयाद्व्रतं पंचदिनात्मकम् ॥१॥
शरपंजरसुप्तेन भीष्मेण तु महात्मना ॥
राजधर्मा मोक्षधर्मा दानधर्मास्ततः परम् ॥
कथिता पांडुदायादैः कृष्णेनाऽपि श्रुतास्तदा ॥२॥
ततः प्रीतेन मनसा वासुदेवेन भाषितम् ॥
धन्यधन्योऽसि भीष्म त्वं धर्माः संश्रावितास्त्वया ॥३॥
एकादश्यां कार्तिकस्य याचितं च जलं त्वया ॥
अर्जुनेन समानीतं गांगं बाणस्य वेगतः ॥४॥
तुष्टानि तव गात्राणि तस्मादद्यदिनावधि ॥
पूर्णांतं सर्वलोकास्त्वां तर्पयंत्वर्घ्यदानतः ॥५॥
तस्मात्सर्वप्रयत्नेन मम संतुष्टिकारकम् ॥
एतद्व्रतं प्रकुर्वंतु भीष्मपंचकसंज्ञितम् ॥६॥
कार्तिकस्य व्रतं कृत्वा न कुर्याद्भीष्मपंचकम् ॥
समग्रं कार्तिकव्रतं वृथा तस्य भविष्यति ॥७॥
अशक्तश्चेन्नरो भूयादसमर्थश्च कार्तिके ॥
भीष्मस्य पंचकं कृत्वा कार्तिकस्य फलं लभेत् ॥८॥
सत्यव्रताय शुचये गांगेयाय महात्मने ॥
भीष्मायैतद्ददाम्यर्घ्यमाजन्मब्रह्मचारिणे ॥९॥
सव्येनाऽनेन मंत्रेण तर्पणं सार्ववर्णिकम् ॥१०॥
व्रतांगत्वात्पूर्णिमायां प्रदेयः पापपूरुषः ॥
अपुत्रेण प्रकर्तव्यं सर्वथा भीष्मपञ्चकम् ॥११॥
यः पुत्रार्थं व्रतं कुर्यात्सस्त्रीको भीष्मपञ्चकम् ॥
प्रदत्त्वा पापपुरुषं वर्षमध्ये सुतं लभेत् ॥१२॥
अवश्यमेव कर्तव्यं तस्माद्भीष्मस्य पंचकम् ॥
विष्णुप्रीतिकरं प्रोक्तं मया भीष्मस्य पञ्चकम् ॥१३॥
॥ सूत उवाच ॥
शृण्वंतु ऋषयः सर्वे विशेषो भीष्मपञ्चके ॥
कार्तिकेयाय रुद्रेण पुरा प्रोक्तः सविस्तरात् ॥१४॥
॥ ईश्वर उवाच ॥
प्रवक्ष्यामि महापुण्यं व्रतं व्रतवतां वर ॥
भीष्मेणैतद्यतः प्राप्तं व्रतं पञ्चदिनात्मकम् ॥१५॥
सकाशाद्वासुदेवस्य तेनोक्तं भीष्मपञ्चकम् ॥
व्रतस्याऽस्य गुणान्वक्तुं कः शक्तः केशवादृते ॥१६॥
कार्तिके शुक्लपक्षे तु शृणु धर्मं पुरातनम् ॥
वसिष्ठभृगुगर्गाद्यैश्चीर्णं कृतयुगादिषु ॥१७॥
अम्बरीषेण भोगाद्यैश्चीर्णं त्रेतायुगादिषु ॥
ब्राह्मणैर्ब्रह्मचर्येण जपहोमक्रियादिभिः ॥१८॥
क्षत्रियैश्च तथा वैश्यैः सत्यशौचपरायणैः ॥
दुष्करं सत्यहीनानामशक्यं बालचेतसाम् ॥१९॥
दुष्करं भीष्ममित्याहुर्न शक्यं प्राकृतैर्नरैः ॥
यस्मात्करोति विप्रेंद्र तेन सर्वं कृतं भवेत् ॥२०॥
व्रतं चैतन्महापुण्यं महापातकनाशनम् ॥
अतो नरैः प्रयत्नेन कर्तव्यं भीष्मपञ्चकम् ॥२१॥
कार्तिकस्याऽमले पक्षे स्नात्वा सम्यग्विधानतः ॥
एकादश्यां तु गृह्णीयाद्व्रतं पंचदिनात्मकम् ॥२२॥
प्रातः स्नात्वा विशेषेण मध्याह्ने च तथा व्रती ॥
नद्यां निर्झरतोये वा समालभ्य च गोमयम् ॥२३॥
यवव्रीहितिलैः सम्यक्पितॄन्संतर्पयेत्क्रमात् ॥
स्नात्वा मौनं नरः कृत्वा धौतवासा दृढव्रतः ॥२४॥
भीष्मायोदकदानं च अर्घ्यं चैव प्रयत्नतः ॥
पूजा भीष्मस्य कर्तव्या दानं दद्यात्प्रयत्नतः ॥२५॥
पंचरत्नं विशेषेण दत्त्वा विप्राय यत्नतः ॥
वासुदेवोऽपि संपूज्यो लक्ष्मीयुक्तः सदा प्रभुः ॥२६॥
पञ्चके पूजयित्वा तु कोटिजन्मानि तुष्यति ॥२७॥
यत्किंचिद्ददते मर्त्यः पंचधातुप्रकल्पितम् ॥
संवत्सरव्रतानां स लभते सकलं फलम् ॥२८॥
कृत्वा तूदकदानं तु तथाऽर्घ्यस्य च दापनम् ॥
मन्त्रेणानेन यः कुर्यान्मुक्तिभागी भवेन्नरः ॥२९॥
वैयाघ्रपादगोत्राय सांकृत्य प्रवराय च ॥
अनपत्याय भीष्माय उदकं भीष्मवर्मणे ॥३०॥
वसूनामवताराय शंतनोरात्मजाय च ॥
अर्घ्यं ददामि भीष्माय आजन्मब्रह्मचारिणे ॥३१॥
॥ इत्यर्घ्यमंत्रः ॥
अनेन विधिना यस्तु पंचकं तु समापयेत् ॥
अश्वमेधसमं पुण्यं प्राप्नोत्यत्र न संशयः ॥३२॥
पंचाऽहमपि कर्तव्यं नियमं च प्रयत्नतः ॥
नियमेन विना यत्र न भाव्यं वरवर्णिना॥ ३३॥
उत्तरायणहीनाय भीष्माय प्रददौ हरिः ॥
उत्तरायणहीनेऽपि शुद्धलग्नं सुतोषितः ॥३४॥
ततः संपूजयेद्देवं सर्वपापहरं हरिम्॥
अनंतरं प्रयत्नेन कर्तव्यं भीष्मपंचकम् ॥३५॥
स्नापयेत जलैर्भक्त्या मधुक्षीरघृतेन च ॥
तथैव पंचगव्येन गन्धचंदनवारिणा ॥३६॥
चन्दनेन सुगन्धेन कुमकुमेनाऽथ केशवम्॥
कर्पूरोशीरमिश्रेण लेपयेद्गरुडध्वजम् ॥३७॥
अर्चयेद्रुचिरैः पुष्पैर्गंधधूपसमन्वितैः ॥
गुग्गुलुं घृतसंयुक्तं ददेत्कृष्णाय भक्तिमान् ॥३८॥
दीपकं तु दिवा रात्रौ दद्यात्पंच दिनानि तु ॥
नैवेद्यं देवदेवस्य परमान्नं निवेदयेत्॥ ३९॥
एवमभ्यर्चयेद्देवं संस्मृत्य च प्रणम्य च ॥
ॐ नमो वासुदेवायेति जपेदष्टोत्तरं शतम् ॥४०॥
जुहुयाच्च घृताभ्यक्तैस्तिलव्रीहियवादिभिः ॥
षडक्षरेण मन्त्रेण स्वाहाकाराऽन्वितेन च ॥४१॥
उपास्य पश्चिमां संध्यां प्रणम्य गरुडध्वजम् ॥
जपित्वा पूर्ववन्मन्त्रं क्षितिशायी भवेत्सदा ॥४२॥
सर्वमेतद्विधानं तु कार्यं पञ्च दिनानि तु ॥
विशेषोऽत्र व्रते ह्यस्मिन्यदन्यूनं शृणुष्व तत् ॥४३॥
प्रथमेऽह्नि हरेः पादौ पूजयेत्कमलैर्व्रती ॥
द्वितीये बिल्वपत्रेण जानुदेशं समर्चयेत् ॥४४॥
ततोऽनुपूजयेच्छीर्षं मालत्या चक्रपाणिनः ॥
कार्तिक्यां देवदेवस्य भक्त्या तद्गतमानसः ॥४५॥
अर्चित्वा तं हृषीकेशमेकादश्यां समासतः ॥
निःप्राश्य गोमयं सम्यगेकादश्यामुपावसेत् ॥४६॥
गोमूत्रं मन्त्रवद्भूमौ द्वादश्यां प्राशयेद्व्रती ॥
क्षीरं चैव त्रयोदश्यां चतुर्दश्यां तथा दधि ॥४७॥
संप्राश्य कायशुद्ध्यर्थं लंघयित्वा चतुर्दिनम् ॥
पंचमे दिवसे स्नात्वा विधिवत्पूज्य केशवम् ॥
भोजयेद्ब्राह्मणान्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् ॥४८॥
पापबुद्धिं परित्यज्य ब्रह्मचर्येण धीमता ॥
मद्यं मांसं परित्याज्यं मैथुनं पापकारणम् ॥४९॥
शाकाहारेण मुन्यन्नैः कृष्णार्चनपरो नरः ॥
ततो नक्तं समश्नीयात्पंचगव्यपुरःसरम् ॥५०॥
एवं सम्यक्समाप्यं स्याद्यथोक्तं फलमाप्नुयात् ॥५१॥
मद्यपो यः पिबेन्मद्यं जन्मनो मरणांऽतिकम् ॥
एतद्भीष्मव्रतं कृत्वा प्राप्नोति परमं पदम् ॥५२॥
स्त्रीभिर्वा भर्तृवाक्येन कर्तव्यं धर्मवर्धनम् ॥
विधवाभिश्च कर्तव्यं मोक्षसौख्याऽतिवृद्धये ॥५३॥
अयोध्यायां पुरा कश्चिदतिथिर्नाम वै नृपः ॥
वसिष्ठवचनात्कृत्वा व्रतमेतत्सुदुर्लभम् ॥
भुक्त्वेह निखिलान्भोगानंते विष्णुपुरं ययौ ॥५४॥
इत्थं कुर्याद्व्रतं नित्यं पञ्चकं भीष्मसंज्ञितम् ॥
नियमेनोपवासेन पञ्चगव्येन वा पुनः ॥
पयोमूलफलाऽऽहारैर्हविष्यैर्व्रततत्परः ॥५५॥
पौर्णमासीदिने प्राप्ते पूजां कृत्वा तु पूर्ववत् ॥
ब्राह्मणान्भोजयेद्भक्त्या गां च दद्यात्सवत्सकाम् ॥५६॥
यद्भीष्मपञ्चकमिति प्रथितं पृथिव्यामेकादशीप्रभृति पंचदशीनिरुद्धम् ॥
उक्तं न भोजनपरस्य तदा निषेधस्तस्मिन्व्रते शुभफलं प्रददाति विष्णुः ॥५७॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये भीष्म पञ्चकव्रतमाहात्म्यवर्णनंनाम द्वात्रिंशोऽध्यायः ॥३२॥

N/A

References : N/A
Last Updated : November 09, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP