कार्तिकमासमाहात्म्यम् - अध्याय २७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ नारद उवाच ॥
कदाचिद्विष्णुदासोऽथ कृत्वा नित्यविधिं द्विज ॥
स पाकमकरोत्तावदहरत्कोऽप्यलक्षितः ॥१॥
तमदृष्ट्वाऽप्यसौ पाकं पुनर्नैवाऽकरोत्तदा ॥
सायंकालाऽर्चनस्याऽसौ व्रतभंगभयाद्द्विजः ॥२॥
द्वितीयेऽह्नि पुनः पाकं कृत्वा यावत्स विष्णवे ॥
उपहारार्पणं कर्तुं गतः कोऽप्यहरत्पुनः ॥३॥
एवं सप्तदिनं तस्य पाकं कोऽप्यहरन्नृप ॥
ततः सविस्मयश्चाथ मनस्येवमधारयत् ॥४॥
अहो नित्यं समभ्येत्य कः पाकं हरते मम ॥
क्षेत्रसंन्यासिनः स्थानं न त्याज्यं मम सर्वथा ॥५॥
पुनः पाकं विधायाऽत्र भुज्यते यदि चेन्मया ॥
सायंकालाऽर्चनं चैव परित्याज्यं कथं भवेत्॥६॥
यदि पाकं विधायैवं भोक्तव्यं तु मया न तत्॥
अनिवेद्य हरौ सर्वं वैष्णवैर्नैव भुज्यते॥ ७॥
उपोषितोऽहं सप्ताऽहं तिष्ठाम्यत्र व्रतस्थितः ॥
अद्यसंरक्षणं सम्यक्पाकस्याऽत्र करोम्यहम् ॥८॥
इति पाकं विधायाऽसौ तत्रैवाऽलक्षितः स्थितः ॥
तावद्ददर्श चंडालं पाकान्नहरणे स्थितम् ॥९॥
क्षुत्क्षामं दीनवदनमस्थिचर्माऽवशेषितम् ॥
तमालोक्य द्विजाग्र्योऽभूत्कृपयाऽन्वितमानसः ॥१०॥
विलोक्याऽन्नहरं विप्रस्तिष्ठतिष्ठेत्यभाषत॥
कथमश्नासि तद्रूक्षं घृतमेतद्गृहाण भोः॥११॥
इत्थं वदंतं विप्राग्र्यमायांतं स विलोक्य च ॥
वेगादधावत्तद्भीत्या मृर्च्छितश्च पपात ह ॥१२॥
भीतं संमूर्च्छितं दृष्ट्वा चंडालं स द्विजाग्रणीः ॥
वेगादभ्येत्य कृपया स्ववस्त्रांतैरवीजयत् ॥१३॥
अथोत्थितं तमेवासौ विष्णुदासो व्यलोकयत् ॥
साक्षान्नारायणं देवं शंखचक्रगदाधरम् ॥१४॥
तं दृष्ट्वा सात्त्विकैर्भावैरावृतो द्विजसत्तमः ॥
स्तोतुं चैव नमस्कर्तुं तदा नाऽलं बभूव सः ॥१५॥
अथ शक्रादयो देवास्तत्रैवाभ्याययुस्तदा ॥
गंधर्वाप्सरसश्चाऽपि जगुश्च ननृतुर्मुदा ॥१६॥
विमानशतसंकीर्णं देवर्षिशतसंकुलम् ॥
गीतवादित्रनिर्घोषं स्थानं तदभवत्तदा ॥१७॥
ततो विष्णुः समालिंग्य स्वभक्तं सात्त्विकव्रतम् ॥
सारूप्यमात्मनो दत्त्वाऽनयद्वैकुण्ठमंदिरम् ॥१८॥
विमानवरसंस्थं तं गच्छंतं विष्णुसन्निधिम् ॥
दीक्षितश्चोलनृपतिर्विष्णुदासं ददर्श सः ॥१९॥
वैकुण्ठभुवनं यांतं विष्णुदासं विलोक्य सः ॥
स्वगुरुं मुद्गलं वेगादाहूयेत्थं वचोऽब्रवीत् ॥२०॥
॥ चोल उवाच ॥
यत्स्पर्द्धया मया चैव यज्ञदानादिकं कृतम् ॥
स विष्णुरूपधृग्विप्रो याति वैकुण्ठमंदिरम् ॥२१॥
दीक्षितेन मया सम्यक्सत्रेऽस्मिन्वैष्णवे त्वया ॥
हुतमग्नौ कृता विप्रा दानाद्यैः पूर्णमानसाः ॥२२॥
नैवाऽद्यापि स मे देवः प्रसन्नो जायते ध्रुवम् ॥
विष्णुदासस्य भक्त्यैव साक्षात्कारं ददौ हरिः ॥२३॥
तस्माद्दानैश्च यज्ञैश्च नैव विष्णुः प्रसीदति ॥
भक्तिरेव परं तस्य निदानं दर्शने विभोः ॥२४॥
॥ गणावूचतुः ॥
इत्युक्त्वा भागिनेयं स्वमभ्यषिंचन्नृपासने ॥
आबाल्याद्दीक्षितो यज्ञे ह्यपुत्रत्वमगाद्यतः ॥२५॥
तस्मादद्याऽपि तद्देशे सदा राज्यांऽशभागिनः ॥
स्वस्रेया एव जायंते तत्कृतावधिवर्तिनः ॥२६॥
यज्ञवाटं ततोऽभ्येत्य यज्ञकुण्डाग्रतः स्थितः ॥
त्रिरुच्चैर्व्याजहाराऽऽशु विष्णुं संबोधयंस्तदा ॥२७॥
विष्णो भक्तिं स्थिरां देहि मनोवाक्काय कर्मभिः ॥
इत्युक्त्वा सोऽपतद्वह्नौ सर्वेषामेव पश्यताम् ॥२८॥
मुद्गलस्तु तदा क्रोधाच्छिखामुत्पाटयत्स्वकाम् ॥
ततस्त्वद्यापि तद्गोत्रे मुद्गला विशिखा बभुः ॥२९॥
तावदाविरभूद्विष्णुः कुण्डाग्नौ भक्तवत्सलः ॥
तमालिंग्य विमानाग्र्यं समारोहयदच्युतः ॥३०॥
तमालिंग्याऽऽत्मसारूप्यं दत्त्वा वैकुण्ठमंदिरम्॥
तेनैव सह देवेशो जगाम त्रिदशैर्वृतः ॥३१॥
॥ नारद उवाच ॥
यो विष्णुदासः स तु पुण्यशीलो यश्चोलभूपः स सुशीलनामा ॥
एतावुभौ तत्समरूपभाजौ द्वाःस्थौ कृतौ तेन रमाप्रियेण ॥३२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये चोलविष्णुदासमुक्तिकथनंनाम सप्तविंशोऽध्यायः ॥२७॥
N/A
References : N/A
Last Updated : November 09, 2024
TOP